________________
राजभ्राजभ्रासभ्लासो वा॥४१।२६॥ एषामवित्परोक्षासेट्थवोः स्वरस्यात एत्वं वा भवति न चैते द्विर्भवन्ति । जेरतुः । जजरतुः । जेरिथ । जजरिय । भ्रमतुः। वभ्रमतुः । भ्रमिथ । वभ्रमिथ । चेमतुः । ववमतुः । बेमिथ । ववमिथ । 'उद्वेमुस्तत्र रुधिरं रथिनोऽन्योन्यवीक्षिताः ॥ वमेनेच्छन्त्यन्ये । सतुः । तत्रसतुः । सिथ । तसिथ । फेणतुः । पफणतुः । फेणिय । पफाणिय । स्येमतुः । सस्यमतुः । स्येमिथ । सस्यमिथ । खेनतुः । सवनतुः । स्वेनिथ । सस्वनिथ । रेजतुः । राजतुः । रेजिथ । रराजिथ । भेजे । बभ्राजे । भेसे । वभ्रासे । भ्लेसे । वभ्लासे । अविदित्येव । अहं जजर ॥ २६ ॥ श्रन्थग्रन्थो न्लुक् च ॥ ४ । १ । २७ ॥ अनयोः स्वरस्यावित्परोक्षासेट्थवोरेकारादेशो वा भवति सत्संनियोगे च नकारस्य लुक न चैतौ द्विर्भवतः । श्रेयतुः । शश्रन्थतुः । श्रेथिथ । शश्रन्थिय । ग्रेथतुः । जग्रन्थतुः। ग्रेथिय । जग्रन्थिय । अविदिसेव । शश्रन्थ । जग्रन्थ ॥ २७ ॥ दम्भः॥४।१।२८ ॥ दम्भरवित्परोक्षायां स्वरस्य एकारादेशो भवति तत्संनियोगे नकारस्य लुक् न चायं द्विर्भवति । देमतुः । देभुः । अविदिखेव । ददम्भ ॥ २८॥ थे वा॥४॥१॥ २९ ॥ दम्भः स्वरस्य थे परे एकारादेशो वा भवति तत्संनियोगे च नकारस्य लुक् न चायं द्विभवति । देभिथ । ददम्भिय । अन्ये तु अन्थिग्रन्थिदम्भीनां नलोपे सति नित्यमेत्वमिच्छन्ति नलोपं त्वविति परोक्षायां नित्यमेव । तेन श्रेयतुः ग्रेयतुः देभतुः , नलोपाभावे तु शश्रन्थिय जग्रन्थिय ददम्भियेत्येव भवति । अन्यस्त्ववित्परोक्षासेट्थवोनिसमेत्वमिच्छति नलोपं त्वविति परोक्षायामेव । तेन श्रेषतः ग्रेथतुः देभतुः नलोपाभावेऽपि श्रेन्थिथ ग्रेन्थिथ देम्भिथेत्येवेच्छाति ॥ २९॥ न शसदवादिगुणिनः ॥४।१।३० ॥ शसिदद्योर्वकारादीनां गुणिनां च धातूनां स्वरस्यैवं न भवति । विशशसतुः । विशशसिथ । दददे। दददाते। दददिरे । ववले । ६ ववलाते । ववलिरे । ववणतुः । ववणिय । विशशरतुः । विशशस्थि । विभयिथ । लुलविथ ॥ ३० ॥ हौ दः ॥ ४॥ १॥ ३१ ॥ दासंज्ञकस्य धातोही परेऽन्तस्यैकारादेशो भवति न चायं द्वि। देहि । धेहि । न च द्विरिति वचनात्कृतमापे द्वित्वं निवर्तते । तेन यङ्लुप्यपि देहीति भवति । हाविति व्यक्तिनिर्देशादिह न भवति । दत्तात् । धत्तात् ॥ ३१ ॥ देर्दिगिः परोक्षायाम्।। ४।१।३२ ॥ देङः परोक्षायां दिगिरित्ययमादेशो भवति न चायं द्विः । दिग्ये । दिग्याते । दिग्यिरे। अवदिग्ये । अवदिग्याते । अवदिग्यिरे ॥ ३२ ॥ डे पियः पीप्य् ॥ ४।१।३३॥ ण्यन्तस्य पिचते. परे पीप्य् इत्यमादेशो भवति नचायं द्विः। अपी प्यत् । अपीप्यताम् । अपीप्यन् । पिवतिनिर्देशात्पातेन भवति । अपीपलत्। लुप्ततिन्निर्देशावलुप्यपि न भवति । अपापयत् । ङ इति किम्। पाययति ॥ ३३ ॥ “अहिहनो हो घः पूर्वात् ॥ ४ ॥ १॥ ३४ ॥ हिहन् इत्येतयो(बोर्डवर्जिते प्रत्यये परे द्वित्वे सति पूर्वस्मात् परस्य हस्य घो भवति । प्रजिघाय । प्रजिघीपति । प्रजेघीयते । निपीतम् ॥–श्रन्थग्रन्थो-श्रथुर अथुड् इत्यनयोलाक्षणिकत्वान्न भवति । प्रकृतिप्रत्यययोधचनभेदान्न यथासत्यम् ॥-थे वा ॥ वर्तमानाथप्रत्यये स्वादे अना व्यवधानात्यायभाव इति परोक्षाया एवं थप्रत्ययग्रहणम् ॥-हौ दः ॥-यड्लुप्यपीति । प्रत्यासचेायात् यस्मिन्नेव प्रत्यये हित्वनेत्य च प्राप्त तस्मिन्नेव प्रत्यये न च द्विरिति प्रवर्त्तते । अत्र तु यनिमित्तक द्वित्वं कथ निवर्त्यते । उच्यते । व्यत्या प्रवृत्ते ॥- पिवः-॥-लुप्ततिन्निद्देशादिति । यत' सूत्रे पिबत्येकदेश पिवऽनुचके ॥-अड़े हिहनो-॥-जंघन्यते इति । कुटिल हन्ति । गत्यर्थात् '-इति यड्।