________________
॥ १ ॥
श्री मश० ४ मोर्णुनविपति । *अरिरिपति । अरिरिपतीत्यत्र तु इट: कार्यित्वं न निमित्तत्वम् । ततो द्विलनिमित्तस्य स्वरादिप्रत्ययस्याभावात् प्राक् स्वरविधिरेव ॥ ४ ॥ न वदनं संयोगादिः ॥ ४ । १ । ५ ॥ स्वरादेर्धातोर्द्वितीयस्यावयवस्यैकस्वरस्य वकारदकारनकाराः संयोगस्यादयो न द्विर्भवन्ति । उब्जजिपति । अट्टिटिपते । अडिडिपति । उन्दिदिपति । इन्दिद्रीयिपति । औब्जिजत् । आत् ि| आडित् । औन्दिदत् । वदनमिति किम् । ईचिक्षिपते । संयोगादिरिति किम् । प्राणिणिषति ॥ ५ ॥ अयि रः ॥ ४ । १ । ६ ॥ स्वरादेर्धातोद्वितीयस्यावयवस्यैकस्वरस्य रेफः संयोगादिर्द्धिर्न भवति 'अयि ' रेफात्पर आनन्तर्येण यकारश्चेन्न भवति । अर्चिचिपति । प्रोर्णुनविपति | प्रोर्णोनूयते । मोर्णुनाव । प्रोर्णुनवत् । आर्चिचत् । अयीति किम् । अरार्यते । अर्यमाख्यातवान् | 'आरर्यत् । संयोगादिरित्येव । अरिरिपति ॥ ६ ॥ * नाम्नो द्वितीयायथेष्टम् ॥ ४ । २ । ७ ॥ स्वरादेन नो द्विर्वचनभाजो द्वितीयादारम्यैकस्वरोऽवयवो | यथेष्टं द्विरुच्यते । अशिश्वयिषति । अश्वीयियिषति । अवीविपिषति ||७|| 'अन्यस्य ||४|१|८|| स्वरादेरन्यस्य व्यञ्जनादेर्नाम्नो धातोर्द्विर्वचनभाजो एकस्वरोऽवयवो यथेष्टं प्रथमो द्वितीयस्तृतीयादिर्वाऽन्यतमो द्विरुच्यते । पुपुत्रीयिषति । पुतित्रीयिषति । पुत्री यियिपति । पुत्रीयपिपति । पुत्रीयन्तं प्रायुक्त अपुपुत्रीयव । अपुतित्रीयत् । *अत्रीयत् ॥ ८ ॥ कण्डादेस्तृतीयः ॥ ४ । २ । ९ ॥ कण्डुादेर्धातोर्द्विवचनभाज एकस्वरस्तृतीय एवावयवो द्विर्भवति । कण्डूयियिषति । आसूमियत् ॥ ९ ॥ * पुनरेकेषाम् ॥ ४ । १ । १० ॥ एकेषामाचार्याणां मते द्वित्वे कृते पुनर्द्वित्वं भवति । *सुसोपुपिपते । प्राणिणिनिपत् । बुवोभूयिषते । एकेषामिति किम् । सोपुपिषते । प्राणिणिपत् । बोभूयिषते ॥ १० ॥ यः सन्वेयः ॥ ४ ॥ १ ॥ ११ ॥ ईर्ष्यतेर्द्विर्वचनभाजो विः सन् वा द्विर्भवति । ईष्यविपति | ईष्यिपिपति ॥ ११ ॥ | हवः शिति ॥ ४ । १ । १२ ॥ जुहोत्यादयः शिति द्विर्भवन्ति । जुहोति । जुहत् । माक्तु स्वरे स्वरविधेरित्येव । जुवानि ॥ १२ ॥ चराचरचलाचलपतापत | वदावघनाघनपादूपदं वा ॥ ४ । १ । १३ ॥ एते शब्दा अचि कृतद्विर्वचना वा निपात्यन्ते । चरिचलिपतिवदिहन्तीनामजन्तानां द्वित्वं हन्तेर्हस्य घत्वं पूर्वस्य
कृते णत्वम् ॥ अरिरिपतीति । ऋक् ऋ प्रापणे ऋश् वा । अर्तुमऽरितुमरीतु वा इच्छतीति सनि आद्याभ्याम् 'ऋसिपूर्' इति मरास्तु 'इवृध ' - इत्यनेनेट् । अरिरीपतीत्येतत्तु हरा एव । अन्यथा 'वृतो नवा' इति दीर्घो न स्यात् ॥ - इटः कार्यित्वमिति । स्वरादित्वाद्वातोर्द्वितीयाशस्य इद्रूपस्य द्वित्वे चिकोर्पिते इट कार्यित्वमेवेत्यर्थं ॥ स्वरविधिरेवेति । गुणरूप इत्यर्थ | ॥ न वदनं ॥ सयोगादिरित्यस्य द किमीवे इति पुस्त्वम् ॥ अयि रः ॥ - आनन्तर्येणेति । सप्तम्या निर्दिष्टे पूर्वस्य तयानन्तरस्येवेति ॥ - आरर्यदिति । अन्न स्वरादेशोन्यस्योपरूपो द्वित्वे कायें स्वामी निमित्तापेक्षयापि प्राविधिरिष्यते ॥ नाम्नोद्वि ॥ 'गम्ययप' इति पचमी ॥ यथेष्टमिति । यो य इष्टथे 'योग्यताचीप्सा ' - इत्यनेनाव्ययीभाव ॥ - अन्यस्य ॥ द्वितीयादित्यधिकारो नेष्ट इति प्रथमो द्वितीय इत्यायुक्तम् ॥ अपुत्रीयियदिति । अगात इत्यनेन विपयेऽप्यकारलोपात्परनिमित्तत्वाभावे 'सारस्य परे ' इति स्थानियाभावात् यि इत्यस्य द्विम् । न इत्यस्य । एवमासूयियदित्यादिष्वपि ॥ पुनरे ॥ सुसोपुपिपते इति । भृशार्थे यड् ' स्वपेर्यपुडे च' इति यद् द्वित्व सोपुपितुमिच्छति सन् । अत इत्यनेन विपस्य लोपात् ' स्वरस्य परे ' इति स्थानित्वाभावे यो लुक् सिद्ध ॥ प्राणिणिनिपदिति । 'द्वित्वेऽप्यन्ते ' इत्यन द्विव्वे इति वचनात् द्वयोरेव गाव न तृतीयस्यापि ॥ - चराचर - ॥ -
1
च० अ०
॥ १