________________
॥ चतुर्थोऽध्यायः॥ द्विर्धातुः परोक्षा प्राक्तु स्वरे स्वरविधेः॥४।१।१॥परोक्षायां डे च प्रत्यये परे धातुर्भिवति । धातोरवस्थितस्य द्वितीयमुच्चारणं क्रियते इत्यर्थः ।। | स्वरादौ तु द्विवचननिमित्ते प्रत्यये स्वरस्य कार्यात् मागेव द्वित्वं भवति । पपाच । पपाठ । इयाज । आर । अचकमत । धातुरिति किम् । माशिश्रियत् । 'वेत्तेः कित्' । (३-४-५१) इति वचनादामि परोक्षाकार्य न भवति । दयांचवे । विदांचकार । परोक्षाङ इति किम् । अदात् । प्रागिति किम् । निनाय । निनयिथ । निन्यतः। चक्रतुः। पपौ । पपतुः। जग्मतुः। अदधत् । एवमादिषु वृद्ध्यादेः स्वरविधेः पूर्वमेव द्वित्वं सिद्धं भवति । स्तर इति किम् । दिदीर्वान् । शिशीर्वान् । जेघीयते । देध्मीयते । जेगीयते । स्वरविधेरिति किम् । श्चि, शुशाव । तितवनीयिपतीत्यत्र तु स्वरविघर्विचननिमित्तप्रययाजन्यत्वान्न ततः प्राग द्वित्वम् । जग्ले मम्ले इति अनिमित्तकमात्वम् । अधिजगे इति विषये आदेशः। प्राक्तु खरे स्वरविधेरिति आद्विवचनमधिकारः। अन्यथा हि *आटिटत् इत्यादि न सिध्यति ॥ १॥ आद्योऽश एकस्वरः ॥४॥२२॥ *अनेकस्वरस्य धातोराय एकस्वरोऽवयवः परोक्षाङे प्रत्यये द्विभवति । जजागार। अचकाणत् । पूर्वेण सर्वस्य द्वित्वे प्राप्ते वचनम् ॥ २॥ सन्यङञ्च ॥ ४।१।३॥ सन्नन्तस्य यङतस्य च धातोराद्य एकस्वरोऽवयवो विर्भवति । तितिक्षते । चिकीर्षति । पापच्यते । लोलूयते । पष्ठीनिर्देश उत्तरार्थः । चकारः पूर्वोक्त| निमित्तसमुच्चयार्थ उत्तरार्थ एव । तेनोत्तरत्र परोक्षाङे सन्नन्तयङन्तानां च यथासंभवं द्वित्वं सिद्धम् ॥ ३॥ "स्वरादेर्दितीयः॥४।१।४॥ स्वरादेर्धातोर्विचनभाजो द्वितीयांश एकस्वरो विर्भवति न त्वाद्यः । अटिटिषति । अशिशिषति । अटाट्यते । अशाश्यते । प्राक्तु स्वरे स्वराविधरिसेव । आटिटत् । आशिशत । 'प्रोणुनाव ।
द्विर्द्धातुः-॥-पपाचेति । अत्र पुनरपि द्विवचन न भवति । द्विरिति वचनात् ॥-निनायेति । 'स्वरस्य परे'-इत्यनेनापि सिद्धम् । नैवम् । कालापेक्षाया स्थानित्वाऽभाव ॥शुशावेति । अत्र हि स्वरव्यञ्जनकार्य ' वा परोक्षायडि' इति वृत् 'दीर्घमवोऽन्त्यम्' ।-तितवनीयिषतीति । नुक् वृत्तीत्यतोऽनडन्तात् क्यनि सनि 'अन्यस्य'-इति द्वित्वम् ॥ स्वरविधेरिति । गुणरूपस्येत्यर्थ ॥-आटिटदित्यादि न सिध्यतीति । प्रागेव गेर्लोपे सति ॥-आद्योश-॥-अनेकस्वरस्येति । एकस्वरस्यैकस्वरेऽशे द्विरुक्ते न किञ्चिदऽस्य फलम् । यद्वा एकस्वर इति सवन्धिशब्द सामर्थ्यांदऽनेकस्वर धातुमाक्षिपति । एतत्सूत्र विना अचकाणदित्ययं विनश्यति । तथा अजूघुणादित्यापि न तु जजागार इति ॥-सन्यङश्च ॥-पष्ठीनिर्देश इति । नन्वऽत्र सनि यडि च निमित्तभूते एकस्वरस्य द्वित्वम् तत कथ सप्तमी नादायीत्याह-उत्तरार्थ इति । तेनोत्तरेण प्रतीपिपतीत्यादि सिद्धम् । दर्शितोदाहरणाऽपेक्षया चेदमुक्त यावता यड्लुपि योभवतीत्यादिष्विहापि फलमस्ति । किञ्च चकार उत्तरार्थ एवेत्यत्रैवकारेण पष्ठीतिनिर्देशस्य इहार्थत्वमपि ज्ञायते ॥-स्वरादे-॥-प्रोणुनावेति । अत्र द्वित्वरूपे परे कार्ये णत्वशास्त्रस्याऽसत्त्वात् द्वित्वे
caroinecraterencetreena