________________
cexeKEEKE******
॥ ८४ ॥ *तपेस्तपःकर्मकात् ॥३।४ । ८५ ॥ तपेर्धातोरांन्तरवृत्तिवेन तपःकर्मकात् कर्तरि बिक्यात्मनेपदानि भवन्ति तथा। तप्यते तपः साधुः। तेपे तपांसि साधुः । तपिरत्र करोत्यर्थः । बिच् तु ' तपः कत्रनुतापे च' (३-४-९१) इति प्रतिषेधान्न भवति । अन्वतप्त तपः साधुः । तपेरिति किम् । कुरुते , तपांसि माधुः । तप इति किम् । उत्तपति सुवर्ण सुवर्णकारः । कर्मेति किम् । तपांसि साधू तपन्ति । दुःखयन्तीत्यर्थः ॥ ८५ ॥ *एकघातौ कर्मक्रिययैकाकर्मक्रिये ॥३।४। ८६ ॥ एकस्मिन्धातौ कर्मस्थक्रियया *पूर्वदृष्टया एका अभिन्ना संप्रत्यकर्मिका क्रिया यस्य तस्मिन्कर्तरि कर्मकर्तृरूपे धातोर्जिक्यात्म| नेपदानि तथा भवन्ति । * अकारि कटः स्वयमेव । क्रियते कटः स्वयमेव । क्रियमाणः कटः स्वयमेव । चक्रे कटः स्वयमेव । *अभेदि कुशूलः स्वयमेव । भिद्यते कुशुलः स्वयमेव । विभिदे कशूल: स्वयमेव । अत्र करोति कटम् भिनत्ति कशूलपित्यादौ यैव कटादिकर्मणां नित्तिद्विधाभवनादिका क्रिया सैव सौकर्यादविवक्षिते कर्तृव्यापारे स्वातन्त्र्यविवक्षायां तस्मिन्नेव धातावकर्मिका च । एवं चाकर्मवाद्भावेऽप्यात्मनेपदं भवति । क्रियते कटेन । भिद्यते। कशूलेन । एकघाताविति किम्। पचत्योदनं चैत्रः । *सिध्यत्योदनः स्वयमेव । कर्मक्रिययेति किम् । साध्वसिश्छिनत्ति, साधु स्थाली पचति इति करणाधिकरणक्रिययैकक्रिय माभूत् । एकक्रिययेति किम् । स्रवत्युदकं कुण्डिका । स्रवत्युदकं कुण्डिकायाः । अत्र विसृजति निष्कामतीति क्रियाभेदात् । गलन्त्युदकं वलीकानि । गलत्युदकं वलीकेभ्य इति ।
अत्रापि मुञ्चतीति पततीति क्रियाभेदात् नैकक्रियखम् । अकर्मक्रिय इति किम् । भिद्यमानः कशूल: पात्राणि भिनत्ति । अन्योन्यमाश्लिष्यतः । हन्त्यात्मानमात्मा । as एकस्य कर्मत्वं कर्तृत्वं च कथमिति चेत् । उच्यते-सर्वमपि हि कर्म स्वव्यापारे *स्वातन्त्र्यमनुभूय कर्तृव्यापारेण न्यकृतं सत् कर्मतामनुभवति । कर्तृव्यापाराविष
क्षायां तु स्वव्यापारे स्वातन्त्र्यात् कर्तृत्वमस्याव्यात्तमेव । यदाहुः-'निर्वृत्त्यादिषु तत्पूर्वमनुभ्य स्वतन्त्रताम् ॥ *कर्जन्तराणां व्यापारे कर्म संपद्यते ततः ॥१॥
*
**
*******
-तपेस्तप-1-अर्थान्तरवृत्तित्वेनेति करोत्ययेनेत्यर्थ ॥-पकधातौ-॥-पूर्वदृष्टयति । पूर्वस्मिन् काले दृष्टा तया सहाथै तृतीया ॥-अकारि कटः स्वयमेवेति । अकार्योत्कट देवदत्त । स एव विवक्षते | नाऽहमकार्पम् अकारि कट स्वयमेव । स्वयशब्दस्तृतीयाथै करणे कारके वर्त्तते ॥-अमेदि कुशूल: स्वयमेवेति । अभैत्सीत् अभिदता कुशूल देवदत्त द्विधा भवन्त द्वेधा अपीभवत् । स एव विवक्षते |* | नाऽहमभिदम् अभेत्स वा कितु स्वयमेवाऽभेदि ॥-सिध्यत्योदन स्वयमेवेति । नन्वत्र यथा धातुभेदस्तथा धातुभेदे क्रियाभेदोऽपि । नैवम् । एकाऽभिन्ना क्रियेत्येकधाताविति स्थिते द्रष्टव्यमिति न द्व्यहवैकल्यम् | |-निष्कामतीति क्रियाभेदादिति । विसर्ग विमर्जनमात्र निष्क्रमण तु विसर्गानन्तर गमनमिति विसर्जननिष्क्रमणयोभेद । अत्र विसृजति उदक कुण्डिका सा एवं विवक्षते नाह विसृजाम कितु स्वयमेव निष्फ्रामतीति विवक्षाया न भवति । यदा तु स्वयमेव विसृज्यते इति विषक्ष्यते तदा क्यादयो भवन्ति वा नवा । उच्यते । शब्दशक्तिस्वाभाव्यात्स्वयमेव विसृज्यत इत्यर्थो न प्रतीयते कितु निष्कामतीत्येव ।-भिद्यमानः कुशूल: पात्राणि भिनत्तीति । नन्वत्र व्यगविकलत्व व्यावृत्तेर्यत प्रथमो देवदत्तकर्तको द्वितीयस्तु कुशलकर्तृक इति साधनभेदाक्रियाभेदे धातुभेद । न । स्थाबादादऽत्र धातुभेदो नाश्रीयते अन्यथा सूत्रमिद निरर्थक स्यात् । यतोऽकारि कट स्वयमेवेत्यत्रापि इत्य धातुभेदसद्भावात् । तथाहि-प्रथम देवदत्तकर्तक कृग् पश्चात् कटकर्तक ॥-स्वातन्त्र्यमऽनुभूयेति । यत कट करोतीत्यादिषु स्वव्यापार जननादिलक्षणे कटादि कर्म स्वातन्त्र्यमऽनुभवति स्वातन्त्र्याच कर्तत्वम् ॥-कन्तराणां व्यापारे इति । स्वव्यापारे स्वातन्त्र्यात् कटादिकर्मण कर्तरूपादऽन्यो वरुटादि कर्ता कत्रन्तर तस्य
*
*