SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ श्लिषः ॥३।४।५६ ॥ श्लिपो धातोरनिटोऽद्यतन्यां सक् प्रत्ययो भवति। आश्लिक्षत्कन्या देवदत्तः। पुष्यादित्वादङिमाप्ते वचनम् । 'पुरस्तादपवादा अनन्तरान् विधीन वाधन्ते नोत्तरान् । इत्यङ एव बाधो न जिचः । आश्लेपि कन्या देवदत्तेन । अनिट इत्येव । श्लिपू दाह इत्यस्मात्सेटो माभूत् । अश्लपीत् । अधाक्षोदित्यर्थः ॥५६॥ *नासत्त्वाश्लेषे॥३।४।५७॥ श्लिपो धातोरमाण्याश्लेषे वर्तमानात्सत् प्रत्ययो न भवति । उपाश्लिपज्जतु च काष्ठं च । समाश्लिषद्गुरुकुलम् । *पृथग्योगात्पूर्वेणापि प्राप्तः प्रतिपिध्यते । व्यत्यश्लिक्षन्त काष्ठानि । असखाश्लेप इति किम् । *व्यत्यश्लिक्षन्त मिथुनानि ॥ ५७ ॥ कर्तरि ङः ॥ ३।४ । ५८ ॥ ण्यन्तात् श्यादिभ्यश्च कर्तरि अद्यतन्यां ङः प्रत्ययो भवति । णि, अचीकरत् । अचूचुरत् । “औजढत् । अचीकमत । कर्मक पि कतैव । अचीकरत कटः स्वयमेव । श्रि, अशिश्रियत् । द्रु, अदुवत् । तूं गतौ । असुनुवत् । कम् अचकमत । कर्तरीति किम् । *अकारयिपातां कटौ देवदत्तेन । कमिग्रहणम् 'अशवि ते वा' (३-४-४) इति यदा णिङ् नास्ति तदार्थवत् । डकारो ङित्कार्यार्थः ॥५८॥ धेश्वेर्वा ॥ ३ ॥ ४ ॥ ५९॥ धेश्विभ्यां कर्तर्यवतन्यां ङः प्रययो वा भवति । अदधत् । अधात् । अधासीत् । अशिश्चियत् । अश्वयीत् । अश्वत् । कर्तरीसेव । अधिषाताम् गावौ वत्सेन ॥ ५९॥ *शास्त्यसूवक्तिख्यातेरः ॥ ३ ॥ ४ । ६० ॥ एभ्यो धातुभ्यः कर्तर्यद्यतन्यामः प्रत्ययो भवति । शासक्, अशिषत् । व्यशिषत । अन्वशिषत स्वयमेव । असूच , आस्थत । अपास्थत । वचं ब्रूगक वा । अवोचत् । अवोचत । ख्यांक चक्षिक वा । आख्यत् । आख्यत । कर्तरीत्येव । अशासिषाताम् शिष्यौ गुरुणा। तिनिर्देशो यङ्लुवन्तनिवृत्त्यर्थः । अशाशासीत् । अवावाचीत् । अचाख्यासीत् । अस् इत्यूकारः किम् । असक् भुवि, असी गत्यादौ । आभ्यां माभूत् । अभूत् । 2 सिच तु अद्राक्ष व्यत्यक्षातामिति भवति ॥-नाऽसत्वा-॥ नन्वनन्तरस्य विधि प्रतिपेधो वेति न्यायादनन्तरस्य सकोऽपाधकत्वात्परस्मेपदविषयस्येय प्रतिषेधः प्रामोति । न तु क्रियान्यतिहारे ३ कर्तर्यात्मनेपदे प्रवर्तमानस्य 'हशिट' इत्यस्येत्याशा पाह-पृथग्योगादिति । यदि घनन्तरविहितस्येव प्रतिषेध स्यात्तदा श्लिषोऽसत्त्वाशेपे इत्येकमेव योग कुर्यात् ॥-व्यत्यश्लिक्षन्त मिथुनानीति । अत्र प्राच पूर्वस्मात्परो विधि प्राविधिरित्यऽकारस्य स्थानित्वात् 'अनतोऽन्तोऽदात्मने ' इत्यनेनादादेशो न भवति ॥-णिश्रिद्रु-॥-अचीकरदिति । ननु 'स्वरस्य परे' इति इस्वत्वस्य * स्थानित्वे लघोरऽभावात् सन्वद्भावो न प्राप्नोति । न । एतत्सूत्रसामर्थ्याद्भवति । यत ओणेदनुवन्धकरणव्याख्यानात पूर्व इस्वत्वे कृते स्थानिवद्भावो न, प्राविधावित्यस्य प्राचि पूर्वस्मिन् काले विधि* 5 प्राविधिरिति व्याख्यानाद्वा ॥-औजढदिति । अत्र परे द्विते ' हो धुट्पदान्ते' इत्यस्याऽसत्वे तदानितत्वात 'अधश्चतुर्थात्तथोध ' इत्यस्याप्यऽसत्त्वे णी यत् कृतमितिन्यायादऽझारस्य स्थानिये 'नामो द्वितीयात् ' इत्यनेन तेति द्विवचन तत्र यदा परे द्वित्ये 'हो धुट्पदान्ते ' इत्यस्य शासस्यासिविराधीयते तदा पुनरपि ' हो धुट्पदान्ते' इत्यादि प्रक्रिया क्रियते ततो 'दस्तड्डे ' इति ढलोपे पूर्वजकाराऽकारस्य दीर्घत्वे 'हस्व ' इत्यनेन हस्व ॥-अकारयिपातामिति । क्रियेते कटो देवदत्तेन तो देवदत्तेन क्रियमाणो यज्ञदत्तेन प्रयुज्यते स्म । यद्वा करोति कटी देवदत्त स एव विवक्षते ॐ नाह करोमि अपि तु क्रियेते कटौ स्वयमेव । ती क्रियमाणी कटो यज्ञदत्तेन प्रायुक्षाताम् ॥-शास्त्यसू-|| वक्तिख्यातीत्युक्ते चक्षिक्यूगोरपि ग्रहणम् । यत 'इकिस्तिन्' इति इति विषये वचः
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy