________________
धानात् । अनेकस्वरादिति किम् । *पपाच । कचित्तु प्रत्ययान्तादेकस्वरादपीच्छति । गौरिवाचचार गवांचकार । गवांवभूव । गवामास । एवं स्वाचकारेत्यादि । अनुग्रहणं विपर्यासव्यवहितनिवृत्यर्थम् । तेन चकारचकासाम् ईहादेवदत्तश्चक्रे इत्यादि न भवति । *उपसर्गस्य तु क्रियाविशेषकत्वात् व्यवधायकत्वं नास्ति । | तेन 'उक्षां प्रचकुर्नगरस्य मार्गान्' इत्यादि भवत्येव ॥ ४६ ॥ दयायास्कासः || ३ | ४ । ४७ ॥ दय् अय् आस् काम् इत्येतेभ्यो धातुभ्यः परस्याः परोक्षायाः स्थाने आमादेशो भवति आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । दयाचक्रे । दयांवभूव । दयामास । पलायाचक्रे । पलायाबभूव । | पलायामास । आसांचक्रे । आसांवभूव । आसामास । कासांचक्रे । कासांवभूव । कासामास ॥ ४७ ॥ *गुरुनाम्यादेरनृच्छ्रर्णोः ॥ ३ । ३ । ४८ ॥ गुरुनामी आदिर्यस्य तस्माद्धातोर्ऋच्छृणुवर्जितात्परस्याः परोक्षायाः स्थाने आमादेशो भवति आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु मयुज्यन्ते । ईहांचक्रे । ईहांवभूव । ईहामास । उञ्छाचकार । व्युच्छाचकार । उब्जांचकार । गुरुग्रहणं किम् । इयेष । नामिग्रहणं किम् । आनर्च । आदिग्रहणं किम् । निनाय । *व्यपदेशिवद्भावाद्भवति । अयाचक्रे । अयांवभूव । अयामास । ईपतुः ईपुः इत्यत्र सनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न भवति । नृच्छ्र किम् । आनच्छे | मोर्णुनाव । अत एव ऋच्छप्रतिषेधात्संयोगे परे पूर्वो गुरुरिति विज्ञायते ॥ ४८ ॥ जायुषसमिन्धेर्नवा || ३ | ४ । ४९ ॥ जाट उप | सम्पूर्व इन्ध इत्येतेभ्यो धातुभ्यः परस्याः परोक्षायाः स्थाने आमादेशो वा भवति आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । जागराचकार । जागरांवभूव । जागरामास । जजागार । ओषांचकार । उवोष । समिन्धाचक्रे । समीधे । सम्ग्रहणं किम् । इन्धांचक्रे । प्रेन्धांचक्रे । सोपसर्गादिन्धेराम् न भवत्येवेति कचित् । अन्ये तु परोक्षायामिन्धेरामन्तस्यैव प्रयोग इत्याहुः । समोऽन्यत्रापि इन्धेराम्विकल्प इत्यन्यः । इन्धांचक्रे ईधे इति ॥ ४९ ॥ * भीहीभृहोस्तिव्वत् ॥ ३ । ४ । ५० ॥ भीहोभृहु इत्येतेभ्यो धातुभ्यः परस्याः परोक्षायाः स्थाने आमादेशो वा भवति स च तिब्वत् आमन्ताच्च परे कृभ्यस्तयः परोक्षान्ता अनुप्रयुज्य - न्ते । विभयांचकार । विभयावभूव । विभयामास । विभाय । जिह्याचकार । जिहाय । विभरांचकार । बभार । जुहवाचकार । जुहाव । *जुहवांचक्रे । जुहुवे ।
|| धातुग्रहणाभावे उपसर्गपूर्वादेरपि स्यात् ॥ - लोलूयांचक्रे इति । ' आम कृग' इति नियमादाम परात् कृग एवात्मनेपद न स्वस्तिभ्याम् ॥ पपाचेति । द्विर्वचने कृते खनेकस्वरत्वेऽपि | संनिपातैति न्यायान्न भवति । विहितविशेषणाद्वा । ययनेकस्वराद्विहितो भवति ॥ उपसर्गस्य त्विति । ननु कर्त्राद्यऽपि क्रियाया विशेषक भवतीति तस्याप्यव्यवधायकत्व प्राप्नोति । नैवम् । क्रियाया एव विशेषकमित्यवधारणस्य विवक्षितत्वात् । कर्त्रादि च यथा क्रियाया विशेषक तथा द्रव्यस्यापीति । तथा त पातया प्रथममासेति कथचित्समर्थ्यते । प्रथममित्यस्य क्रियाविशेषणत्वात् । प्रभशया यो नहुष चकारेति स्वतिदुष्टम् ॥ - गुरुनाम्यादे - || गुरुग्रहण नामिनों विशेषण न घातो धातुविशेषणे हि इयेष इत्यत्रापि स्यात् ॥ व्यपदेशिवद्भावादिति । धातुषारायणकृता तु | व्यपदेशिवद्भावो नेष्ठस्तन्मते ईये इत्येव भवति ॥ - भीहीभृहो - ॥ - जुहवांचके इति । अत्र 'क्य शिति' इति क्यों न भवति । शितीति सामान्योक्तेऽपि क्यस्य भावे कर्मणि च विधाना