________________
ग्रहणार्थः । नकारः सन्यडन्श्चेत्यत्र विशेषणार्थः ॥५॥ *कितःसंशयप्रतीकारे॥३॥8॥६॥ कितो धातोः संशये प्रतोकारे च वर्तमानात् स्वार्थे सन् प्रत्ययो भवति । विचिकित्सति । संशेते इत्यर्थः । व्याधि चिकित्सति । प्रतिकरोतीत्यर्थः । निग्रहविनाशौ प्रतीकारस्यैव भेदौ तेनात्रापि भवति । क्षेत्रे चिकित्स्यः पारदारिकः । निग्राह्य इत्यर्थः । चिकित्स्यानि क्षेत्रे तृणानि विनाशयितव्यानि इत्यर्थः । संशयप्रतीकार इति किम् । केतनम् । केतयति ॥६॥as
शानदानमानवधानिशानार्जवविचारवरूप्ये दीर्घश्चेतः॥३181७॥ शान्दान्मान्वध् इत्येतेभ्यो यथासंख्यं निशाने आर्जवे विचारे वैरूप्ये च वर्तमानेभ्यः स्वार्थे सन् प्रत्ययो भवति दीर्घश्चैषा द्विवचने सति पूर्वस्येकारस्य । शीशांसते । शीशासति । दादासति । दीदासते । मीमासते । बीभत्सते । अर्थनिKI देशः किम् । अर्थान्तरे माभूत । निशानम् अवदानम् । *अच् । अवमानयति । बाधयति ॥ ७ ॥ *धातोः कण्डादेर्यक ॥ ३ ॥ द्विविधाः क-12
डादयः घातको नामानि च । कण्डादिभ्यो धातुभ्यः स्वार्थे यक्मत्ययो भवति । कण्डूयति । कण्डूयते । महीयते । मन्तूति । धातोरिति किम् । कण्डः। कण्डौ । *कण्डः । *यकः कित्त्वाद्धातोरेवायं विधिः । धातुग्रहणम् *उत्तरार्थमिह सुखार्थं च ॥ कण्ड्ग , गकारः फलवति 'ईगितः' (३।३ । ९५) इत्यात्मनेपदार्थः । | महीङ् हणीङ्वेङ् लाङ्'ङकार आत्मनेपदार्थः । मन्त वला असु वेट लाट । वेदलाद् इत्यन्ये । लिट् लोट् उरस् उपस् इरस तिरस् इयस् इमम् अस् पयस् र संभूयस् दुवस् दुरज भिषज् भिष्णुक् रेखा लेखा एला बेला केला खेला खल इत्यन्ये । गोधा मेधा मगध इरध इषुध कुपुम्भ सुख दुःख अगद गद्गद गद्गदडित्येके । तरण वरण उरण तुरण पुरण भरण वरण भरण तपुस तम्पस अरर सपर समर इति कण्डादिः॥ ८॥ * व्यञ्जनादेरेकस्वरा शाभीक्ष्ण्ये यड़वा बी ॥३॥४॥९॥ गुणक्रियाणामधिश्रयणादीना *क्रियान्तराव्यवहिताना *साकल्येन संपत्तिः *फलातिरेको वा भृशखम् । प्रधानक्रियाया विक्लेदादेः क्रियान्तराव्यवधानेनावृत्तिराभीक्षण्यम् । तद्विशिष्टेऽर्थे वर्तमानाद्धातोव्यर्जनादेरेकस्वराधङ्मत्ययो वा भवति । भृशं पुनःपुनों पचति पापच्यते । जाज्वल्यते । अथा॥-कित संशय-॥ अनवधारणात्मक प्रत्यय सशय । प्रतीकारो दुःखहेतोनिराकरणम् ॥-निग्रहविनाशाविति । अन्यनिग्रहविनाशयोरपि सन्नभिहित तत्नमते कथमित्याशङ्का-शान-॥ निन्दित| रूपा विरुप तस्य भावी वाप्यम् । नन्वत्र इग्रहण किमर्थ दीर्घ इति सामान्योक्तावपि सनि इत एव सभवः । सत्यम् । अत्रेदिति ग्रहणाऽभावे सनि प्रथममेवाऽकारस्य दीर्घ स्यात् । शान्दानो साहचर्यात मानिम्बादिह्यते न तु चुरादि । निश्यतीत्यचि निशानम् । अवद्यतीत्यचि अवदानम् । शोंच तक्षणे दोच् च्छेदने अनयोरऽनडन्तयोरिद रूपद्वयमिति कश्रिदाशकेत तद्व्युदासार्थमाह
अजिति ॥-धातो कण्ड्वा -॥-कण्ड इति । बदा कण्इमिच्छन्ति क्यनि क्विपि तल्लोपे जति सयोगात्' इत्युचादेशे कण्डुव इति भवति ॥ यकः कित्त्येति । कित फल 'नामिनो | गुण' इत्येवमादीनि तानि च धातोगेव गौणमुख्ययोरिति न्यायात मुख्यो धातुरेव । नामापि धातो सकाशाद्भवति । उक्त च-नाम च धातुजमाह ॥-उत्तरार्थमिति । यदा तु 'दीर्घमियड्' K-इत्यादि कित्त्वफल तदा धातुग्रहणमत्रापि सार्थम् ॥-व्यञ्जनादे-॥-क्रियान्तराऽव्यवहितानामिति । विरोधिभि मगमनादिभि अविरोधिभिस्तूच्यासादिभिर्भवत्येव ॥-साकल्येन संपत्ति
रिति । सामस्त्येन ढौकनमित्यर्थ ॥-फलातिरेको वेति । फलसमाप्तावपि क्रियानुपरति ॥-प्रधानक्रियाया इति । पचौ विक्लेद प्रधानक्रिया । ता कधि समाप्य क्रियान्तरमनारभ्य पुनस्ता