________________
सदप्यसद्विवक्ष्यते । यथा, इमे ब्रुमः । अवचनप्रतिषेधपरत्वेन प्रवृत्तेर्विवक्षितखात् । एवम् *अगमकलादिति बमो न बमोऽपशब्दः स्यादिति । तदाहु:--क्रियाप्रवृत्तावाख्याता कैश्चित् सार्थपरार्थता । असती वा सती वापि विवक्षितनिवन्धना' इति । केचित्तु णिग्वनितादीगितो धानोणिगर्थे एव प्रेरणाध्येषणविशेषे *प्रतिविधाननानि वर्तमानादात्मनेपदमिच्छन्ति । पचते । पाचयतीत्यर्थः । केशश्मश्रु चपते । वापयतीत्यर्थः । वेदो वैधयं विधत्ते। विधापयतीत्यर्थः । इत्यादि। यदाहु:-क्रीणीष्व वपते धत्ते मिनुते चिनुतेऽपि च ॥ आप्तप्रयोगा दृश्यन्ते येषु ण्यर्थोऽभिधीयते' इति । एतच्च श्रोत्रियमतमित्युपेक्ष्यते ॥ ९५ ॥
*ज्ञोऽनुपसर्गात् ॥३।३।९६ ॥ अविद्यमानोपसर्गाजानातेः फलवति कर्तर्यात्मनेपदं भवति । गां जानीते । अश्वं जानीते । अनुपसर्गादिति किम् । स्वर्ग * प्रजानाति । फलवतीत्येव । परस्य गां जानाति । अकर्मकात् पूर्वेण सिद्धे सकर्मकार्य वचनम् ॥ ९६ ॥ वदोऽपात् ॥३।३।९७॥ अपपूर्वाद्वदतेः फलवति
कर्तर्यात्मनेपदं भवति । एकान्तमपवदते । अपादिति किम् । वदति । फलवतीत्येव । अपवदति परं स्वभावतः ॥ ९७ ॥ *समुदाङो यमेरग्रन्थे ॥ ३।३/ ॥९८॥ समुदाङ्भ्यः पराद्यमेरग्रन्थविषये प्रयोगे फलवति कर्तर्यात्मनेपदं भवति । संयच्छते ब्रीहीन् । उद्यच्छते भारम् । आयच्छते वस्त्रम् । समुदाङ इति किम्। नियच्छति वाचम् । अग्रन्थ इति किम् । वैद्यश्चिकित्सामुद्यच्छति। चिकित्साग्रन्थे उद्यमं करोतीयर्थः । फलवतीयेव । संयच्छति उद्यच्छति आयच्छति परस्य वस्त्रम् । आङ्पादकर्मकात् स्वाङ्गकर्मकाच 'आङने यमहनः' (३-३-८६) इति सिद्धेऽन्यकर्मकार्थ वचनम् ॥ ९८॥ पदान्तरगम्ये वा ॥३।३।९९॥ अनन्तरसूत्रपञ्चकेन यदात्मनेपदमुक्तं तत्पदान्तराद्गम्ये फलवति करि वा भवति । वं शत्रु परिमोहयते परिमोहयति वा । स्वं यज्ञं यजते यजति वा । स्वं कटं कुरुते करोति वा । स्वमर्श्व गमयते गमयति वा । स्वं शिरः कण्डूयते कण्डूयति वा । स्वां गां जानीते जानाति वा । स्वं शत्रुमपवदते अपवदति वा । स्वान् ब्रोहीन संयच्छते संयच्छति वा ।। ९९ ॥ शेषात्परस्मै ॥३।३।१००॥ पूर्वप्रकरणेनात्मनेपदनियमः कृतः । परस्मैपदं तु अनियतमिति नियमार्थमिदम् । उपयुक्तादन्यः शेषः । येभ्यो धातुभ्यो येन विशेषेणात्मनेपदमुक्तं ततोऽन्यस्मादेव धातोः कर्तरि परस्मैपदं भवति । अनुबन्धोपसर्गार्थोपपदप्रस| यभेदाचानेकधा शेषः । अनुबन्धशेषात् , भवति । अत्ति । बोभवीति । दीव्यति । गोपायति । पणायति । पुत्रीयति । पुत्रकाम्यति । अश्वति । मन्तूति | उपसगशेषात् , प्रविशति । अधितिष्ठति । आगच्छति । विपश्यति । अर्थशेषात् , करोति । नयति । वदति । उपपदशेषात् , गृहे संचरति । साधुभ्यः संप्रयच्छति । यसस्कृतेन द्रव्यति यथान शब्दस्य फलवत्त्वमसदपि विवक्षितम् ॥-अगमकत्वादिति । यथा ऋद्वस्य राज्ञ पुरुष इत्यत्र समासो न भवतीति अगमकत्वात् बम विवक्षितार्थाप्रतिपादकत्वात् न मोऽपशब्द स्यात् लक्षणादिदोषदुष्ट इति न ब्रूम ॥-स्वार्थपरार्थतेति । फलवत्ताफलवत्तेत्यर्थ । स्वस्मै इयं परस्मै इय क्रियाप्रवृत्ति कर्मधारयात् स्वार्थपरार्थतो भावे तल् । मतान्तरेण पुवद्भाव । स्वमते तु ' त्वते गुण ' इति गुणवचनस्य भवति ॥-प्रतिविधाननाम्नीति । पूर्वेषा प्रयोजकव्यापारस्य प्रतिविधान इति सशा । ततो विधानमर्थात्प्रयोज्यव्यापार प्रतिगत प्रतिविधान तन्नाम यस्य णिगर्थस्य तस्मिन् ॥-शोऽनुप-1-पूर्वणेति । इत्यनेनेत्यर्थ ॥-समुदाङो-1-चिकित्साग्रन्थ इति । चिकित्साहेतुत्वात् ग्रन्थोऽपि चिकित्सा चिकित्स्यतेऽस्या इति वा