________________
न्ये । संवदन्ते शुकाः। संप्रवदन्ते सारिकाः। सहोक्ताविति किम् । चैत्रेणोक्ते मैत्रो वदति ॥ ७९ ॥ विवादे वा ॥३।३। ८० ॥ विरुद्धार्थो वादो विवादः। व्यक्तवाचां सहोक्तौ विवादरूपायां वर्तमानादेः कर्तर्यात्मनेपदं वा भवति । विप्रवदन्ते विप्रवदन्ति वा मौहूर्ताः । परस्परप्रतिषेधेन युगपविरुद्धं वदन्तीत्यर्थः । विवाद इति किम् । संप्रवदन्ते वैयाकरणाः। *सह वदन्तीत्यर्थः। व्यक्तवाचामित्येव । *संप्रवदन्ति शकुनयः। नानारुतं कुर्वन्ति जातेशक्तिभेदात् । सहोक्तावित्येव ।
मौहतों मौहूर्तेन सह क्रमेण विप्रवदति । विरुद्धाभिधानमात्रमिह विवक्षितम् न तु विमतिपूर्वकम् । तेन विमतिलक्षणमप्यात्मनेपदं न भवति ॥८॥ • *अनोः कर्मण्यसति ॥ ३।३ । ८१ ॥ *व्यक्तवाचामित्येवानुवर्तते । व्यक्तवाचां संवन्धिन्यर्थे वर्तमानादनुपूर्वाद्वदेः कर्मण्यसति कर्तर्यात्मनेपदं भवति । * अनुः सादृश्ये पश्चादर्थे वा । अनुवदते चैत्रो मैत्रस्य । यथा मैत्रो वदति तथा चैत्रो वदतीसर्थः । अनुवदते आचार्यस्य शिष्यः। आचार्येण पूर्वमुक्त पश्चाददतीत्यर्थः। | कर्मण्यसतीति किम् । उक्तमनुवदति । व्यक्तवाचामित्येव । अनुवदति वीणा । *कथं वाचिकषडिको न संवदेते इति । मिथो विरुध्येते इत्यर्थः। *विमतिविवक्षायां भविष्यति । अकर्मकादित्यनुक्त्वा कर्मण्यसतीति निर्देश उत्तरत्र शब्दे खेऽङ्गे च कर्मणीति लाघवेन प्रतिपत्त्यर्थः ॥ ८ ॥ *जः॥३।३।८२॥ जानातेः कर्मण्यसति कर्तर्यात्मनेपदं भवति । सर्पिषो जानीते । मधुनो जानीते । कथमत्र जानातिरकर्मकः । उच्यते । नात्र सर्पिरादि ज्ञेयत्वेन विवक्षितम् किं तहि प्रवृत्तौ करणत्वेन । सर्पिषा मधुना वा करणेन भोक्तुं प्रवर्तत इत्यर्थः । अत एव 'अज्ञाने ज्ञः षष्ठी' (२१२।८०) इति षष्ठी । मिथ्याज्ञानार्थों वा जानातिः। सर्पिषि रक्तः प्रतिइतो वोदकादिप सर्पिष्टया ज्ञानवान् भवतीत्यर्थः । मिथ्याज्ञानं चाज्ञानमित्यज्ञानार्थत्वे पूर्ववदेव षष्ठी । अथ वा सपिःसंवन्धि ज्ञानं
-विवादे वा ॥-सह वदन्तीत्यर्थ इति । सहशब्देनापि सहोक्तावुक्ताया व्यक्तवाचामित्यनेनापि नावात्मनेपदम् ॥-संप्रवदन्ति शकुनय इति । व्यक्तवाकवे सति विवादविवक्षेति न घ्यङ्गविकलता । विवादाभावेऽपि परस्पर स्वरभेदात् विवादोऽप्यस्ति वा ॥-अनो: कर्म-॥-व्यक्तवाचामित्येवेति । पूर्वसूत्रे व्यक्तवाक्सहोक्तावित्येवमऽकरणात् । एकस्यैव अनुवर्तनार्थमेव हि भिन्नविभक्तिकनिर्देश ॥-कथं वाचिकपडिकावित्यादि । वागाशिस् वागाशीर्दत्त इति वा प्रकृति । अनुकम्पितो वागाशीर्वागाशीर्दत्तो वा 'अजातेनाम्न ' इतीके 'षड्वर्जकस्वर'-इत्यादिना आशीरा
दिलोप । एवमनुकम्पित पडङ्गलि षडालिदत्तो वा 'अजाते'-इतीके 'द्वितीयात्स्वरादूर्ध्वम्' इति इलिलोपे वाचिकषडिकाविति । ननु पडिक इत्यत्र पदसज्ञाया सित्येवेति नियमेन निवर्तितत्वाP पदान्तत्वाभावात् डत्व न प्राप्नोति । न च वाच्य 'स्वरस्य'-इति परिभाषया स्थानिनाकारेणासित्प्रत्ययस्य व्यवधान 'न सधि --इत्यस्यावस्थानात् । सत्यम् । ' पर्ज'- इत्यत्र षड्वर्जन ज्ञापयति
| नाऽत्र स्थानित्व प्रतिपत्ति । ननु ' प्रत्यय प्रकृत्यादे ' इति न्यायात् सित्येवेत्यस्याऽवकाशो न हि। सत्यम् । षड्वर्जन ज्ञापयति अवयवस्यापि नियमो भवति । वाचिक इत्यत्र 'चज कगम्' इति न भवति 2-मिथो विरुध्येते इति । यथा वाचिक इति निष्पद्यते तथा पडिक इति न सिध्यति । तथाहि 'द्वितीयात्स्वरादूर्ध्वम्-इति कृते न वाचिक इति न सिध्यति एकस्वरादूर्ध्व लोपे कृते पडिक
इति न इति महाभाष्यविचार ॥-विमतिविवक्षायामिति । शब्दपक्षे शब्दशब्दवतोरऽभेदोपचारेण ॥–श ॥-प्रतिहतो वेति । प्रतिपूर्वको हनिद्वषे वर्त्तते अकर्मकश्च तत कर्तरि क्तः । प्रति