________________
भवति । विद्याः शिक्षते । ज्ञातुं शक्नुयामितीच्छतीत्यर्थः । जिज्ञासायामिति किम् । शक्तुमिच्छति शिक्षति। शिक्षि विद्योपादाने इत्यनेनैव सिद्धे आमनपयोगार्थ
वचनम् । तेन शिक्षांचक्रे इति भवति न तु शिक्षांचकारेति। केचित्तु शकेः सन्नन्तस्यात्मनेपदमनिच्छन्तः शिक्षतेरेव जिज्ञासायामात्मनेपदमन्यत्र च परस्मैपदमिच्छन्ति *॥७॥ माग्वत् ॥ ३।३।७४॥ सनः 'प्राक्' पूर्वो यो धातुस्तस्मादिव सन्नन्तात्कर्तर्यात्मनेपदं भवति । यत्पूर्वस्य धातोरनुबन्धेनोपपदेनार्थविशेषेण वात्मनेपदं
दृष्ट तत्सन्नन्तादतिदिश्यते । अनुबन्धेन, शीङ् शेते, शिशयिषते । एधि एधते, एदिधिषते । लोलूयते, लोलूयिषते । श्येनायते, शिश्येनायिषते । उपपदेन, निविशते. निविविक्षते । अश्वेन संचरते, अन्वेन संचिचरिषते । अर्थविशेषेण, शास्त्रेऽस्य क्रमते बुद्धिः, चिक्रंसते उभयेन । आक्रमते चन्द्रः आचिकंसते । यत्पुनः समययधातुनिमितं तन्नातिदिश्यते । शिशित्सति । मुमूर्षति । अत्र हि न शदिम्रियती एव निमित्ते किं तर्हि शिदाशीरद्यतन्योऽपि । *अनुबन्धादिनिमित्तमापि यद्विशेषविधानवाधया मान दृष्टम् तन्नातिदिश्यते । यथानुकरोति अनुचिकीर्षति। पराकरोति पराचिकीर्षति । तिजादीनां बर्थविशेषेषु केवलानामप्रयोगात् *सन्नन्तसमुदायार्थमेव *अनुवन्धविधानम् । तेन तितिक्षते, जगप्सते, मीमांसते इत्यादौ पागदृष्टमापि आत्मनेपदमनुबन्धसामर्थ्यात् भवति । यथा कुस्मिचित्रङ्महीङ्हणीडामनुबन्धो णिक्यन्यगन्तसमुदायार्थः । विकुस्मयते । चित्रीयते । महीयते । हुणीयते । *अवयवे वा कृतं लिङ्गं समुदायस्य विशेषकं भवति यं समुदायं सोऽवयवो न व्यभिचरति । यथा गोः सक्थनि कर्णे वा कृतं लिङ्गं 'चिह्नम्' गोरेव विशेषकं भवति न गोमण्डलस्य । सन्नन्तं च समुदाय तिजादयोऽर्थविशेषेषु न व्यभिचरन्ति णिगन्तं पुनर्व्यजिचरन्ति । ननु सन्नन्तमपि व्यभिचरन्ति तेजयति, गोपायति, मानयतीति । नैवम् । अर्थविशेषेषु न व्यभिचार इत्युक्तत्वात् । 'गुपतिजो गहक्षिान्तौ' | (३।४।६) शानदानमान्वधानिशानार्जवविचारवैरूप्ये'-(३।४।९) इति हि वक्ष्यते इति ॥७४॥ आमः कपः॥३।३।७५ ॥ आमः परादनप्रयुज्यमानात्करोतराम एव प्राग्यो धातुस्तस्मादिव कर्तर्यात्मनेपदं भवति । जवति न भवति चेति विधिप्रतिषेधावतिदिश्यते । यथोशोरवन्मनेषु यवाः सन्ति न सन्तोति । ईहांचक्रे, ईक्षांचक्रे इत्यफलवत्यपि नवति । विजयांचकार, जागरांचकारेति फलवत्यापि न जवति । यत्र तु पूर्वस्मादुभयं तत्र फलवत्यफलवति चोभयं भवति । | विभरांचक्रे, विभरांचकार । पाचांचक्रे, पाचयांचकार । कृग इति किम् । कगतेरेव यथा स्यादिह माभूत् । ईक्षामास । ईलांबभूव ॥ ७ ॥ भुज्यर्थेन युक्त इत्यर्थ ॥-विद्या. शिक्षत इति । आत्मनेपदेनैव जिज्ञासाया अवगमात् जिज्ञ सितुमिति न प्रयुज्यते ॥-आमनुप्रयोगार्थमिति । यद्यद. सूत्र न व्यधास्यत तदा शकेर्धातो सत्र न्तस्य ‘आम कृग ' इति आम परात् कृग आत्मनेपद नाऽभविष्यत् तत शिक्षाचक्रे इति न स्यात् । शिक्षेस्त्वामोऽसभव एव एकस्वरत्वात् ॥-प्राग्वत् ॥-अनुबन्धादिनिमित्तमपीति । | आदिपदात् 'गन्धनावक्षेप'-इत्यादिना कृगो धातोर्गन्धनाद्यर्थनिमित्त 'परानो कृग' इत्यादिविशेषविधानवाधित सत् प्राग् न दृष्ट तदपि नाऽतिदिश्यते ॥-सन्नन्तसमुदायार्थमेवेति । अर्थविशेषेषु लिइदमेव फलमन्यत्र त्वनाद्यपीति एवकारार्थ ॥-अनुवन्धविधानमिति । न च वाच्य क्षान्त्याद्यर्धाभावे अनुबन्धादात्मनेपद भविष्यतीति । एषामऽर्थान्तरेऽपि त्यादयो नाभिधीयन्ते इसि भणनात् ।
'इडितो व्यजनाद्य'-इत्यादौ चरितार्थमिति चेत् । न । तदा ‘भूषाक्रोध'-इत्यादौ स्वरूपेण ग्रहण कुर्यात् कि व्याप्तिपरेणाऽनुपन्धेन ॥-अवयवे वा कृतमिति । भवत्वऽनप्रत्ययेऽनुवन्धस्य