________________
श्री हेमश० ॥ ६३ ॥
अनुक्रामति । वृत्त्यादिष्वित्येव । *पराक्रामति । उपक्रामति । अन्ये तु परोपाभ्यां पगत् क्रमतेर्व्वत्याद्यर्थाभावेऽपीच्छन्ति । तेन पराक्रमते, उपक्रमते इत्यात्मनेपदमेव । वृत्त्यादिषु त्वन्योपसर्गपूर्वादपि पूर्वेण मन्यन्ते । निष्क्रमते । प्रतिक्रमते । न प्रतिहन्यते इत्यर्थः ॥ ४९ ॥ *वेः स्वार्थे ॥ ३ । ३ । ५० ॥ स्वार्थः पादविक्षेपः । तस्मिन्वर्तमानाद्वेः परात्क्रमेः कर्तर्यात्मनेपदं भवति । साधु विक्रमते गजः। स्वार्थे इति किम् । अश्वेन विक्रामति । विक्रामत्य जिनसधिः स्फुटतोत्यर्थः । *विक्रामति | राजा । उत्सहते इत्यर्थः ॥ ५० ॥ प्रोपादारम्भे || ३ | ३ | ५१ ॥ आरम्भ आदिकर्म । अङ्गीकरणं चेयन्ये । तस्मिन्वर्तमानात्मोपाभ्यां पराक्रमेः कर्तर्यात्मनेपदं भवति । प्रक्रमते, उपक्रमते भोक्तुम् । प्रारभते अङ्गीकरोति चेसर्थः । आरम्भ इति किम् । पूर्वेद्युः प्रक्रामति गच्छती सर्थः । अपरे रुपक्रामति समीपमागच्छती सर्थः । परोपादित्यनेनापि न भवति नृत्यादरर्थस्याविवक्षितत्वात् । अन्ये तु स्वार्थविषय एवारम्भे मन्यन्ते । तेनोपक्रमते प्रक्रमते पादाभ्या गन्तुमारभत इस इत्यत्रैव भवति । स्वार्थविषयारम्भादन्यत्र तु प्रक्रामति उपक्रामति भोक्तुमित्यत्र न भवति ॥५१॥ आङो ज्योतिरुद्वमे || ३ | ३।५२ ॥ आङः परात्क्रमेज्योंतिषा चन्द्रादोनामुद्गमे ऊर्ध्वगमने प्रधाने उपसर्जने वा वर्तमानात्कर्तर्यात्मनेपदं भवति । आक्रमते चन्द्रः । आक्रमते सूर्यः । उदयते इत्यर्थः । दिवमाक्रममाणेन केतुना । | अत्र दिवमिति कर्मणा योगादुद्गमनोपसर्जन व्याप्तिवचनः क्रमः । ज्योतिरुद्रम इति किम् । आक्रामति माणवकः कुतुपमवष्टभ्रातात्यर्थः । ज्योतिरिति किम् । धूम | आक्रामति उद्गच्छतोत्रर्थः। आक्रामति धूमो हम्येतलम् । उद्गच्छन् व्यामोतीसर्थः। उद्गम इति किम् । नमः समाक्रामति नष्टवर्त्मना स्थितैकचक्रेण रथेन भास्करः । अत्र व्याप्तिमात्रं विवक्षितम् न तूगमोपर्सजनव्याप्तिः । अन्ये तूपोपसर्जना व्याप्ति पश्यन्तोऽसाधुमेनं मन्यन्ते ॥ ५२ ॥ *दागोऽस्वास्यप्रसारविकासे || ३ | ३|५३ ॥ आङ्पूर्वाद्ददातेः कर्तर्यात्मनेपदं भवति न चेत्स्वास्यप्रसारणं विकासश्चार्थो भवति । विद्यामादत्ते । धनमादत्ते । अस्वास्यप्रसारविकास इति किम् । उष्ट्रो मुखं | व्याददाति प्रसारयतीत्यर्थः । कुलं व्याददाति । विपादिका व्याददाति विकसतीत्यर्थः । स्वग्रहणं किम् । व्याददते पिपीलिकाः पतङ्गस्य मुखम् । आङ इसेव | ददाति । फलवतोऽन्यत्रायं विधिः ॥ ५३ ॥ प्रच्छः || २५४ ॥ आपूर्व नौ प्रच्छेथ कर्तर्यात्मनेपदं भवति । आनुते शृगालः । उत्कण्ठितः शब्दं करोति । उत्कण्ठापूर्वके संशब्दे नोतेरयं विधिर्न सर्वत्र । आपृच्छते गुरून् । आपृच्छस्व प्रियसखम् । वियुज्यमानस्य प्रश्नेऽयं विधिः । आङ इव । नौति । प्रणौति । पृच्छति । परिपृच्छति ॥ ५४ ॥ गमेः क्षान्तौ || ३ | ३५५॥ क्षान्तिः कालहरणम् । तत्र वर्तमानागमयतेराङ्पूर्वकात् कर्तर्यात्मनेपदं भवति । आगमयते गुरून् कंचित् कालं
क्रामति ॥ - पराक्रामतीति । कोऽर्थ परावृत्त्या नन्वत्रापि पादविक्षेप एवं क्रमिर्वर्त्तते स च कर्तृकृत करणकृत पादविक्षेप इति न भवति ॥ -- विक्रामति
विक्रामतीति ।
शौर्य वा कुरुते ॥ उपक्रामति समीपे गच्छतीत्यर्थ ॥ वे स्वार्थे ॥ अश्वेन सत्यम् । गौणमुख्ययोरिति न्यायात् सर्वकारकप्रधानभूतकर्तकृत एव गृह्यते । करणकृतो वा भवतु । राजेति । परोपादेवेति नियमात् 'वृत्तिसर्ग - इत्यादिनापि न ॥ दागोऽस्वास्यप्र-- ॥ प्रसारण प्रयोजकव्या
अत्र तु
ल००अ०
॥ ६३ ॥