________________
| क्रियेति किम् । द्रव्यव्यतिहारे माभूत् । चैत्रस्य धान्यं व्यतिलुनन्ति । *अत्र लुनातिरुपसग्रहात्मके लवने वर्तते । चैत्रेण यत् गृहीतं धान्यं पुरस्ताल्लवनेनोपमंगृहणन्तीत्यर्थः । अगतिहिसाशब्दार्थहस इति किम् । व्यतिगच्छन्ति । व्यतिसर्पन्ति । व्यतिहिंसन्ति । व्यतिघ्नन्ति । व्यतिजल्पन्ति । व्यतिपठन्ति । व्यतिहसन्ति । अनन्योन्यार्थे इति किम् । अन्योन्यस्य व्यतिलुनन्ति । इतरेतरस्य व्यतिलुनन्ति । परस्परस्य व्यतिलुनन्ति । *क्रियाव्यतिहागे व्यतिनैव द्योतित इत्यन्योन्यादिभिः तत्कर्माभिसंवध्यते अन्योन्यस्य केदारमिति । कर्तरीत्येव । तेन भावकर्मणोः पूर्वणैव स्यादनेन माभूत् । याद ह्यनेन स्पाचदा व्यतिगम्यन्ते ग्रामाः व्यतिहन्यन्ते दस्यव इत्यत्रागतिहिंसाशब्दार्थहस इति प्रतिषेधः स्यात् इति ॥ २३ ॥ निविशः॥३।३ । २४॥ निपूर्वा द्विशः कर्तर्यात्मनेपदं भवति । निवि
शते । न्यविशतेत्यटो धात्ववयवत्वान्न व्यवधायकत्वम् । मधुनि विशन्ति भ्रमरा इत्यादि तु निविशोरमबन्धादनम्त्वाच न भवति ॥ २४ ॥ *उपसर्गादस्योहो MERam३।३।२५ ॥ उपसर्गात्पराभ्यामस्यत्यहिभ्या कर्तर्यात्मनेपदं वा भवति । विपर्यया । विपर्यस्यते । समूहति । समूहते । संततं तिमिरमिन्दरु
दासे । *यशः समूहन्निव दिग्विकीर्णम् । अस्येति श्यनिर्देशोऽस्यसतिनिवृत्त्यर्थः । उपसर्गादिति किम् । अस्यति । ऊहते । अस्यतेरमाप्ते ऊहतेश्च नित्यं प्राप्ते उभयत्र
विभाषेयम् । अन्ये त्वकर्मकाभ्यामेवेच्छन्ति । प्रत्युदाहरन्ति च निरस्यति शत्रून् । समूहते पदार्थान् ॥ २५ ॥ *उत्स्वरायुजेरयज्ञतत्पात्रे ॥३।२।२६॥ * उदः स्वरान्ताच्चोपसर्गात्परागुनक्तेः कर्तर्यात्मनेपदं भवति 'अयज्ञतत्पात्रे' न चेयज्ञे यत्तत्पात्रं तद्विषयो युज्यों भवति । उद्युक्त। उपयुङ्क्ते । नियुङ्क्ते। उत्स्वरादिति र
किम् । संयुनक्ति। नियुनक्ति । अयज्ञतत्पात्र इति किम् । द्वंद्व यज्ञपात्राणि प्रयुनक्ति। यत्र तु यज्ञ एव न तु तत्पात्रम् , तत्पात्रमेव वा न यज्ञस्तत्र भवत्येव । यज्ञे मन्त्र रन्धनपात्राणि वा प्रयुङ्क्ते। यज्ञपात्राणि रन्धने प्रयुड़े। युणिच् समाधाविसस्येदित्त्वादात्मनेपदविधानमनर्थकम् ॥२६॥ परिव्यवात क्रियः॥३३॥२७॥ परिवि | अब इत्येतेभ्य उपसर्गेभ्यः पराक्रीणातेः कर्तर्यात्मनेपदं भवति । परिक्रीणीते। विक्रीणीते। अवक्रीणीते।सत्रिगितः फलवतोऽन्यत्र विधिः। उपसर्गादित्येव। उपरि क्री सगृहन्तीति द्रव्यमऽत्र व्यतिहियते न लवनक्रिया । न ह्यऽत्र व्यतिना लुनातिर्युक्तोऽपि त्वऽप्रयुक्तोऽपि गृह्णातिस्तस्य धान्य कर्म न क्रियेत्याह-लुनातिरुपसंग्रहात्मके इति । उपसग्रहस्य लघनपूर्व| कलाभस्यात्मा यस्मात् लवनात् कोऽर्थ लवनपूर्वक लानमित्यर्थ ॥-क्रियाव्यतिहार इति । लौकिके शब्दव्यवहारे लाघवाऽनादरादऽन्योन्यादिशब्दा उपसर्गाश्च क्रियाव्यतिहारद्योतनाय प्रयुज्यन्ते इति * न पौनरुक्त्यम् । अथ पीनरुक्त्य माभूत् अत्र तु क्रियाव्यतिहारस्य व्यतिनैव द्यौतितत्वात् क अन्योन्यादिशब्दा सपन्ध्यन्त इत्याह-क्रियाव्यतिहार इत्यादि । तत्कर्माभिसंबध्यते इति । अत्र
| क्रियाव्यतिहारो द्रव्यव्यतिहारथ वर्त्तते तत क्रियाव्यतिहारे प्राप्तम् ॥-निविश ॥ ने परो विश् ने सबन्धी विशित्यनन्तरानन्तरिसपन्धो वा विधेय ॥-उपसर्गा-॥ लेखया विमलविद्रुमभासाश्री संतत तिमिरमिन्दुरुदासे ॥ दष्टया कनकभङ्गपिशङ्ग्या मण्डल भुव इवादिवराह ॥१॥ श्रीडानते राजजनोपनीत संशय्य कृच्छ्रेण नृपे प्रपन ॥ वितानभूत वितत पृथिव्या यश समूहनिव
दिग्विकीर्णम ॥२॥-उत्स्वरा-॥ युजेरीदित्वात् फलवति सिनेऽफलवदर्थमिदम् ॥-युजिच् समाधाविति । न च वाच्य नियम। व्याख्यास्यतेऽयज्ञतत्पात्रविषय एवास्यात्मनेपदामिति यज्ञ| पात्रविषयेऽस्य प्रयोगाभावात् । कथचित्प्रयोगेऽपि वा नियमाद्विधि श्रेयानिति भाष्यकार ॥-परिव्यवा-||-अन्यत्र विधिरिति । अत एव व्यावृत्त्युदाहरणेषु सर्वत्र परस्मैपदम्