________________
Z
प्रयोगे द्वयं श्रूयते पच् इति प्रकृतिः अतिरिति च प्रत्ययः। अर्थोऽपि कश्चिद्गम्यते । विक्तित्तिः कर्तृत्वमेकत्वम् । पठतोत्युक्ते कश्चित् *शब्दो होयत कश्चिदपजायते कश्चिदन्वयी। पच् शब्दो हीयते पठ् शब्द उपजायते अतिशब्दोऽन्धयी। अर्थोऽपि कश्चिद्धीयते कश्चिदुपजायते कश्चिदन्वयी। विक्लित्तिहीयते पठिरुपजायते कर्तत्व
मेकत्वं चान्वयी । तेन मन्यामहे यः शब्दो होयते तस्यासावों योऽथों हीयते यश्च शब्द उपजायते तस्यासावयों योऽर्थ उपजायते यश्च शब्दोऽन्वयी तस्यासावर्थों भयोऽन्वयीति ॥ ननु च कृतिः करोत्यर्थः क्रिया तत्र युक्तं पचादीनां किं करोति पचति कि करोति पठतीति करोतीत्यर्थगर्भितत्वात् क्रियात्वम् अस्तिविद्यतेभवतीना
तु न युक्तम् , नहि भवति कि करोति अस्ति भवति विद्यते चेति । तदयुक्तम् । न करोत्यर्थः क्रियाशब्दस्य प्रवृत्तिनिमित्तमपि तहि कारकव्यापारविशंपः। *व्या
पारश्च व्यापारान्तराद्भिद्य ने इत्यस्त्याद्यर्थोऽपि क्रियैव । करोत्यर्थस्तु क्रियाशब्दस्य व्युत्पत्तिनिमित्तमेव । एवं सति क्रियासामान्यवचनाः कृभ्वस्तयः क्रियावि* शेषवचनास्तु पचादय इति सिद्धम् ॥ तथा. भावे घजित्युक्त्या कारः पाक इखादयोप्युदाहियन्ते । क्रियोपपदादातोस्तुमित्युक्त्वा योढुं धनुर्भवति द्रष्टु चक्षुर्ना
तमित्यायप्युदाहरणं युक्तम् । यदाहुः 'यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रथमपुरुषे प्रयुज्यते' इति । क्रिया च द्वेधा सिद्धमाध्यत्वभेदात् । तत्र सिद्धस्वभावोपसंहृतक्रमा *परितः परिच्छिन्ना *सत्वभावमापन्ना घनादिभिरभिधीयते । यदाह-कृदभिहितो भावो द्रव्यवत्प्रकाशते' इति । तुमादिभिस्तु सत्व
भावमनापन्नेति विशेषः। साध्यमानावस्था पूर्वापरीभूतावयवा *भूतभविष्यद्वर्तमानसदसदाद्यनेकावयवरूपाख्यातपदैरुच्यते । यदाह--पूर्वापरीभूतं भावमाख्या* तेनाचष्टे । यथा च पचतीत्यत्र पूर्वापरीभावस्तद्वदेव जायते अस्ति *विपरिणमते वर्धते अपक्षीयते विनश्यति भवति श्वेतते संयुज्यते समवैतीत्यादावपि । साध्यत्वाभि
क्रिया च कालश्च कारक च क्रियाकालकारकाणि तानि आदयो येषाम् । आदिशब्दादेकत्वादि । समष्टाश्च ते क्रियाकालकारकादयश्च ते च ते अनेकार्थाथ । न एकोऽनेक । अनेक च ते अर्थाश्च तान् | अभिदधातीति ॥-शब्दो हीयते इति । जहाति शब्द देवदत्त स एव विवक्षते नाह जहामि कितु स्वयमेव हीयते ॥-व्यापारविशेष इति । पचतीत्यादिषु हि तदस्ति इति धातुत्व, यत पच-18 * नीस्युक्ते न पठति न गच्छति न किचिदन्यद्यापारान्तर विधत्ते कितु पाकरूपविशेष एवं गम्यत इति । ननु तथापि अस्त्यादीनान प्राप्नोति क्रियात सत्ताया व्यापारविशेषाभावात् । यत सर्वोऽपि
धात्वयाऽस्त्यादिभिर्याप्त इत्यतो युक्तिमाह-व्यापारश्चेत्यादि । अयमोऽस्त्येवैतत् तथापि पाकादेविशेषात् सत्ताया अपि विशेषो ज्ञायते स्वरूपेण । न हि स एव पाक सैव सत्तेति । यथाऽनेकघटाच्छा.
दक एक पटस्तेष्वनुस्यूतोऽपि तेभ्यो भिद्यते । न हि स एव पट स एव घट इति । एष प्रकृतेऽपि तथा ॥-भावे घजीति । यथा क्रियाशब्दस्य न करोत्यर्थ प्रवृत्तिनिमित्त कितु कारकव्यापारवि * शेषस्तथा भावशब्दे च न भवत्यर्थ प्रवृत्तिनिमित्त अपि तु कारकव्यापार एवेत्यर्थ । यदाह हरि -आख्यातशब्दे भागाभ्या साध्यसाधनवतिता ॥ प्रकल्पिता यथा शासे स घत्रादिष्वपि क्रम ' ॥१॥ 'साध्यत्वेन क्रिया तत्र धातुरुपनिवन्धना ॥ सत्वभागस्तु यस्तस्या त घत्रादिनियन्धन ' ॥ २ ॥-तत्र सिद्धस्वभावेति । निद्धारणसप्तम्यन्तात् त्रप् । सिद्धसाध्यभेदयोर्मध्ये इत्यर्थ ॥-परित
परिच्छिन्नेति । निष्पन्नत्वात् सर्वात्मना ज्ञातत्यर्थ । परिनिष्ठितरुपा वेत्यर्थ ॥-सत्वभावमापन्नेति । अयमर्थ पाक इत्यादी प्रकृतिभाग साध्यरुपमऽर्थमाह प्रत्ययभागस्तु सत्वरूपताम् ॥-भूतभार |विष्यदित्यादि । सर्वेषा द्वन्द्वपूर्ण बहुव्रीहि पृथगर्थत्वात् । भूतभविष्यद्वर्त्तमानाश्च ते सदसन्तश्चेति कर्मधारयपूर्वो वा । आदिशब्दात प्रत्यक्षपरोक्षता ॥-विपरिणमते इति । विपरिणमति देवदत्त
E EEEEEXItem