________________
श्रीमश०
| वढत्वानि दम्भेर्नलोपश्च । मह्यां रौति मयूरः । रौतेरच्यन्तलोपो महीशब्दस्य मयूभावः । मह्यां शेते महिषः । ढः । अत्र पूर्वपदस्य इस्वलं शस्य च पत्वम् । पिशि- ल००अ० तमश्नाति पिशाचः । अत्र पिशितस्य पिशादेशः अश्नातेः शस्य चादेशः । शबानां शयनं श्मशानम् । पूर्वपदस्य इमादेशः उत्तरपदस्य च शानादेशः। ब्रुवन्तोऽस्यां सोदन्ति विषीदन्ति वृसी । अत्र डट् प्रत्ययः । पूर्वपदस्य वृभावः । ऊ खं बिलं वास्य उदूख लम् । उलूखलं वा। अत्र पूर्वपदस्योभाव उलूभावश्च उत्तरपदस्य खलादेशः। दिवि द्यौवौंक एषां दिवौकसः । अत्राकारागमः । अन्च इव तिष्ठति अश्वत्यः । कपिरिव तिष्ठति कपयोऽस्मिस्तिष्ठन्ति इति वा कपित्थः । दनि | तिष्ठति दधित्यः । मह्या तिष्ठति महित्यः । एषु तिगृतेः सकारस्य तकारः । मुहुः स्वनं लाति मुहुर्मुहुर्लसतीति वा मुसलम् । अत्र मुहुःशब्दस्य मुभावः । स्वन
शब्दस्य सभावः । पक्षान्तरे लसयोविपर्ययश्च । ऊों कर्णावस्येत्युलकः । अत्रोवंशब्दस्योलादेशः कर्णशब्दस्यांकादेशश्च । मेहनस्य खं तस्य माला मेखला । अत्र से मेहनखे हनस्य मालाशब्दे च माशब्दस्य लोपः । को जीर्यति कुञ्जरः । अत्र कुशब्दस्य मोऽन्तः । आश्वस्य विषमस्ति आशीविष । अत्राशुशब्दस्याशीभावः । वलं वर्धयति बलीबर्द' । अत्र बलस्येकारोऽन्तादेशो वर्धधकारस्य च दकार । मनस ईष्टे मनीपी । अत्र मनसोऽन्त्यस्वरादिलोपः ईशे शस्य च षः । विलं दारयतीति विडालः । अत्र बिलशब्दस्य ललोपः । उत्तरपदस्य डालादेशः। मृदमालीयते । डा, मृणालः । अत्र मुदो दकारस्य णकारः। असगालीयते । डा, मृगालः। अत्रादेर्लोपः । असृग्गलति वा सृगालः । अत्रासज आद्यन्तलोपः । पुरो दाश्यते पुरोडाशः। अत्रोत्तरपदादेर्डत्वम् । अश्वस्याम्बा बडवा । अत्राश्वस्याशो लोपः। ड् चान्तः । अम्बाशब्दे च मो लोपः । शकस्यान्धुः शकन्धुः । अत्र पूर्वपदान्तस्योत्तरपदादेवी लोपः । एवं कर्कन्धुः। अटतीत्यच् अटा । कुलानामटा कुलटा । अब् अवाक अटन्स्यस्मिन्निति बाहुलकात् 'नाम्नि' (५-३-१३०) इति घः । अवटः । हिनस्तीति सिहः । अत्र सकारहकारयोविपर्ययः । कृतकेन शलति *कृकलाशः। अत्र तकारस्य लोपः। शकारलकारयोस्तु विपर्ययः । भ्रमन् रौति डः भ्रमरः । अत्र तलोपः । एवंप्रकाराः शिष्टैः प्रयुक्ताः पृषोदरादयः । मयूरमहि| षादीनामुणादौ व्युत्पादितानामपीह व्युत्पादनमनेकधा शब्दव्यत्पत्तिज्ञापनार्थम् । बहुवचनमाकृतिगणार्थम् । तेन मुहूर्तमारग्वधोऽश्वत्थामनिलयनीत्यादयोऽपि | द्रष्टव्याः ॥ वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोः तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥ ५५ ॥ *वावाप्योस्तनिको-*
धाग्नहोर्वपी॥३।२।१५६ ॥ अवशब्दस्योपसर्गस्य तनिक्रीणात्योः परयोरपिशब्दस्य च धाग्नहोः परयोर्यथासंख्थं व पि इत्येतावादेशौ वा भवतः । वतंसः । अवतंसः । वक्रयः । अवक्रयः । पिहितम् | अपिहितम् । पिधानम् । अपिधानम् । पिदधाति । अपिदधाति । पिनद्धम् । अपिनद्धम् । धातुनियमं नेच्छ॥-आशीविष इति । यदापि आश्यतीत्यचि ततो गौरादित्वाडी । आश्या दृष्टाया विषमस्तीति । अथवा आशिषि दष्टाया विषमस्येति तदाऽप्यनेन निपातनम् ॥-तदर्थाऽतिशयनेति । स प्रसिद्धोऽधस्तदर्थ शदलक्षणस्तस्यातिशयो माधुर्यादिस्तेन योग यथा मयर इति । अत्र रिगेतेरवर्णार्थस्यातिशयेन योग ।-कृकलाश इति वा हलादि'-इति ण । कृक लासयतीति ये व्युत्पादयन्ति तन्मते दन्त्यसकार । महुरिवर्ति स्म 'गत्यर्थ इति क्त प्रत्यय । आरात् वध्यते 'स्थादिभ्य क'। तस्य ग । अश्व इव तिष्ठतीति मन् निलीयतेऽस्या अनट ॥-वावाप्यो-|| अ प्रपोदरादित्वादेवाऽनाप्यो पाक्षिके अकारलोपे वतप्त इत्यादि