SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ साधयन्ति, समानशब्दप्रयोगे तु समानधर्मा समानपक्षः समानजातीय इत्यायेव मन्यन्ते । कथं समानोदरे जातः सोदयः समाने तीर्थे वसति सतीर्थ्य इति । ' सोदर्यसमानोदयौँ' (६-३-१११) इति 'सतीयः' (६-४-७८) इति च निपातनाद्भविष्यतः॥ १४९ ॥ सब्रह्मचारो॥३।२।१५०॥ सब्रह्मचारीति निपात्यते । समानो ब्रह्मचारी समाने ब्रह्मण्यागमे गुरुकुले वा व्रतं चरतीति सब्रह्मचारी । निपातनादेव व्रतशब्दस्यापि लोपः ॥ १५० ॥ कदम दृक्दृशदक्ष इयेतेषूत्तरपदेषु समानस्य सादेशो भवति । समान हव दृश्यते सदृक् । सदृशः। सदृक्षः। दृशदक्षसाहचर्यात् टक्सक्मत्ययसहचरितकिवन्तस्यैव दृशो ग्रहणात् * al इह न भवति । समाना दृक् समानदृक् ॥ १५१॥ अन्यत्यदादेरा ॥३।२॥ १५२ ॥ अन्यशब्दस्य त्यदादेश्व दृक्दृशदृक्षेषुत्तरपदेषु आकारोऽन्तादेशो * भवति । अन्य इव दृश्यते अन्याहक् । अन्यादृशः । अन्यादृक्षः। एवं त्यादृक् । त्यादृशः । त्यादृक्षः । तादृक् । तादृशः । तादृक्षः। यादृक् । यादृशः । यादृक्षः। * अमूहक् । अमूदृशः । अमूदृक्षः। भवादृक् । भवाः । भवादृक्षः । त्वादृक् । त्वादृशः । त्वादृक्षः । मादृक् । मादृशः। मादृक्षः । एकादृक् । एकादृशः । एकादृक्षः। द्वाहक । द्वादृशः। द्वादृक्षः। युष्मादृक् । युष्मादृशः । युष्मादृक्षः। अस्मादृक् । अस्मादृशः। अस्मादृक्षः। कथं यत्परिमाणमस्य यावान् । एवं तावान् । एतावान् । 'यत्तदेतदो डावादिः' (७-१-२४९) इति डावती भविष्यति ॥ १५२ ॥ इदं किमीत्की॥३।२। १५३॥ इदंशब्दः किंशब्दश्च दृक्दृशदक्षेपूत्तरपदेष परेषु यथासंख्यमीकाररूप: कीकाररूपश्च भवति । अयमिव दृश्यते ईदृक् । ईदृशः। ईदृक्षः। क इव दृश्यते कोडक् । कीदृशः । कीदृक्षः । कथं इदं किंवा परिमाणमस्य इयान कियान् । 'इदंकिमोऽतुरिय किय 'चास्य' (७-१-१४८) इति भविष्यति ॥ १५३ ॥ *अनत्राः क्त्वो यप॥३।२।१५४॥ नजितादव्ययात्पूर्वपदाद्यत्परमुत्तरपदं तदवयवस्य क्त्वाप्रत्ययस्य यवादेशो भवति । प्रकृत्य । प्रहृत्य । *उच्चैःकृत्य । *नानाकृत्य। अनज इति किम् । अकृत्वा। अहुत्वा । परमकृत्वा । अनज इति नसदृशमव्ययं गृह्यत इति इह नोऽनव्ययाच न भवति । उत्तरपदस्येत्येव । अलं कृत्वा । खलु कृखा ॥ १५४ ॥ *पषोदरादयः॥ ३।२। १५५ ॥ पृषोदर इत्येवंमकाराः शब्दा विहितलोपागमवर्णविकाराः शिष्टैः प्रयुज्यमानाः साधवो भवन्ति । पृपदुदरमुदरे वास्य पृ. पोदरः । पृषत उदरं पृषोदरम् । पृषत उद्वानं अपृषोद्वानम् । एवं पृषोद्धारम् । अत्र तकारलोपो निपात्यते । जीवनस्य जलस्य मूतः पुटबन्धः जीमूतः। अत्र वनस्य लोपः । वारिणो वाहको बलाहकः । अत्र पूर्वपदस्य वः उत्तरपदादेश्च ल आदेशः । आध्यायन्ति तमिति *आढ्यः । अत्र ध्यस्य ब्यादेशः । कृच्छ्रेण दास्यते * नास्यते दभ्यते च खलि, दुष्टो दासो नासो दम्भ इति वा दूडासः। दुगासः। दूडभः । दुष्टं ध्यायति दृढ्यः । एष पूर्वपदस्य दुसो दूभावः उत्तरपदादेश्व डत्वण॥-अनज क्त्वो-॥-उकृत्येत्यत्र 'कृगोऽव्यय'-इति क्त्वा ॥-नानाकृत्यत्वा तु 'स्वाहतश्व्यर्थ' इत्यनेन ॥-परमकृत्येति । परम च तत् कृत्वा चेति कार्यम् । 'सन्महत्' इति 5 | समास । परम करण पूर्व वा । परमस्य करणमित्यत्र तु समासो न स्यात् । वप्तार्थपूरण' इत्यादावऽव्ययद्वारेण निषिद्धत्वात्षष्ठीसमासस्य ॥-पृषोदरा-॥-पृषोद्वानमिति । पै और शोषणे । | उद्वायत इति उद्वान पृषत उद्वान पृषोद्वानम् ॥-पृषोद्धारमिति । धृग् णिगि अच् । उपूर्वस्य गो णिगि अचि । यदा उद्धरमिति तदा धृगोऽणिगन्तस्य ॥-आढय इत्यत्र 'स्थादिभ्य क'
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy