________________
ल०० अ०
श्रीडैमा चरतीति सहचरः कुरण्टकः । सह दोव्यतीति सहदेवः कुरुः । *सहदेवा ओपधिः । सह जायते सहजन्या अप्सराः ॥ १४४ ॥ *अदृश्याधिके ।। ३।२।१४५|| ॥ ५५ ॥ 5 अदृश्यं परोक्षम् अधिकमधिरूढम् । तदाचिनोरुत्तरपदयोरन्यार्थे समासे सहशब्दस्य सादेशो भवति । अदृश्ये, साग्निः कपोतः। सपिशाचा वात्या । सराक्षसीका
| विद्युत् | समुशलो चोहिकंसः । अधिके, सद्रोणा खारी । समापः कापिणः । सकाकणीको मापः । 'सहस्य सोऽन्यार्थे ' (३-२-१४३ ) इत्यनेनैव सिद्धे निसार्थ वचनम् ॥ १४५ ॥ *अकालेऽव्ययीभावे ॥ ३ । २ । १४६ ॥ सहशब्दस्याकालबाचिन्युत्तरपदेऽव्ययीभावसमासे सादेशो भवति । ब्रह्मणः संपत् सब्रह्म साधनाम् । एवं सहतं सुविहितानाम् । सक्षत्रं यदूनाम् । सपत्ताचव्ययीभावः । युगपचक्रेण चक्राणि वा धेहि सचक्र घेहि। एवं सधुरं पाजः । योगपद्येऽव्ययोभावः । तृणैः सह सतृणमभ्यवहरति । एवं *समूलघातं हन्ति । साकल्येऽव्ययीभावः । षड्जीवनिकामन्तमवसानं कृत्वाधीते सपड्जीवनिकमधीते श्रावकः ।
एवं सलोकविन्दुसारमधीते पूर्वधरः । अन्त इत्यव्ययीभावः । अकाल इति किम् । सहपूर्वा शेते । सहापराई भुके । अयमपि साकल्येऽव्ययीभावः । अव्ययीभाव AS इति किम् । सहयुध्वा ॥ १४६ ॥ ग्रन्थान्ते ॥ ३।२।१४७ ॥ ग्रन्थस्यान्तो ग्रन्थान्तः । तदाचिन्युत्तरपदेऽव्ययीभाव समासे सहशब्दस्य सादेशो भव
ति । कलामन्तं कृत्वा सकलं ज्यौतिपमधीते । एवं सकाष्ठम् । समुहूर्तम् । कलादिशब्दाः कालविशेषवाचिनोऽपि तत्सहचारिपु ग्रन्थेषु वर्तन्त इति ग्रन्थान्तवाचिas त्वमुत्तरपदस्य । अन्त इत्यव्ययीभावः। कालार्थ आरम्भः ॥ १४७ ॥ नाशिष्यगोवत्सहले ॥ ३ ॥२॥४८॥ आशिषि गम्यमानायां गवादिवर्जित उत्तरपदे as परे सहशब्दस सादेशो न भवति । खस्ति राज्ञे सहराष्ट्राय । सस्ति गुरवे सहशिष्याय । भद्र सहसंघायाचार्याय । आशिषोति किम् । सपुत्रः सहपुत्र आगतः। IAS अगोवत्सहल इति किम् । स्वस्ति भवते सगवे । सहगवे । सवत्साय । सहवत्साय । सहलाय । सहहलाय ।। १४८॥ समानस्य धर्मादिषु ॥३।२।१४९॥ | समानशब्दस्य धर्मादिपूत्तरपदेषु सादेशो भवति । समानो धर्मोऽस्य सधर्मा । समानो वा धर्मः सधर्मः । समाना जातिरस्य सजातोय । समानं नामास्य सनामा । समानं नाम सनाम । धर्म जातीय नामन् गोत्र रूप स्थान वर्ण वयम् वचन ज्योतिस् जनपद रात्रि नाभि वन्धु पक्ष गन्ध पिण्ड देश कर लोहित कुक्षि वेणि इति धोदयः । बहुवचनमाक्रतिगणार्थम् । अन्ये तु धर्मादिप वचनान्तेषु नवम विकल्पमिच्छन्ति । सधर्मा, समानधर्मा। सजातीयः । समानजातीयः। सनामा, समाननामा । सगोत्रः । समानगोत्र:। सरूपः । समानरूपः । सस्थानः । समानस्थानः । सवर्ण: । समानवणः । सवयाः । समानवयाः सवचनः । समानवचनः । अपरे तु नामादिषु बन्धुपर्यन्तेषु द्वादशस्वेव समानस्य सभावं नित्यमिच्छन्ति अन्येष तु नेच्छन्त्येव । सधर्मसपक्षादिशब्दास्तु सहाशब्देन समानपर्यायेण कृतसादेशेन
हदेवा ओषधिरिति । लिहायच् ॥-सह जायते सहजन्या अप्सरा इनि । ' भव्यगेयजन्य'-इत्यादिना कर्तरि प्यण् । 'न जनध' इति वृद्ध्यभाव ॥-अदृश्याधि-॥-वीहिकस * इति । कस इति पायर्यादिवत् मानविशेषस्य नाम तत्परिमाणपरिछिमीहिमध्यगतस्य मुसलस्य आवृतत्वादश्यता ॥-अकाले----समुलघातमित्यत्र मूलाना साकल्प समूली PS नन 'नथ समूलात् ' णम ॥-पदजीवनिकामिति । पद सख्या जीवा तानियत कायति । अथवा जीच्यतेऽनयाऽनटि साथ के पण्णा प्राणिना जीवनिका पट्जीवनिका । *