________________
श्री मश
॥५४॥
*नामित्यादयो द्रष्टव्याः ॥ १२८ ॥ अन् स्वरे ॥ ३ । २ । १२९ ॥ नञः स्वरादायुचरपदे परेऽन् इत्ययमादेशो भवति । न विद्यते अन्तोऽस्येति अनन्तो जिनः । एवमनादिः । अजानाभावोऽनजम् । न अश्वोऽनश्वः । अन् इति स्वरूपनिर्देशात् नलोपो द्वित्वं च न भवति ॥ १२९ ॥ * कोः तत्पुरुषे ॥ ३ । २ । १३० ॥ तत्पुरुषे समासे स्वरादावुचरपदे कुशब्दस्य कदित्ययमादेशो भवति । कुत्सितः अश्वः कदचः । कदुष्ट्रः । कदनम् । कदशनम् । तत्पुरुष इति किम् । कुत्सिता उष्ट्रा अस्मिन् कुष्टो देशः । स्वर इत्येव । कुब्राह्मणः ॥ १३० ॥ रथवदे || ३ |२ | १३१ ॥ रथवदयोरुत्तरपदयोः कुशब्दस्य कदादेशो भवति । कुत्सितो रथः कद्रथः । कुत्सितो रथोऽस्य कद्रथः । कुत्सितो वदोऽस्य कद्रदः । तत्पुरुष एवेच्छन्त्येके । अन्य कुरथो राजा कुपदो मूर्खः ॥ १३१ ॥ तृणे जातौ ॥ ३ । २ । १३२ ॥ कुशब्दस्य तृणे उत्तरपदे जातावभिधेयायां कदादेशो भवति । कुत्सितं तृणमस्याः कतृणा नाम रौहिपाख्या तृणजातिः । जाताविति किम् । कुत्सितानि तृणानि कुतृणानि ॥ १३२ ॥ *कत्रिः ॥ ३ । २ । ॥ १३३ ॥ कुशब्दस्य किशब्दस्य वा त्रिशब्दे उत्तरपदे कदादेशो निपात्यते । कुत्सितासयः के वा त्रयः कन्त्रयः । कुत्सितात्रयोsस्य के वा त्रयोऽस्य कत्रिः । किमो नेच्छन्त्यन्ये । किंत्रयः ॥ १३३ ॥ *काक्षपयोः ॥ ३ । २ । १३४ ॥ अक्ष पथिन् इत्येतयोरुत्तरपदयोः कोः का इत्ययमादेशो भवति । अक्षशब्दस्याकारान्तस्य कृतसमासान्तस्य चाविशेषेण ग्रहणम् । कुत्सितोऽक्षः पाशकादिः काक्षः । कुत्सितमक्षमिन्द्रियं काक्षम् । कुत्सितोऽक्षो यस्य काक्षो रथः । कुत्सितमक्षि अक्षं वाऽस्य काक्षः । कुत्सितः पन्थाः *कापथम् । कुत्सितः पन्था अस्मिन् कापयो देशः । साकोऽपि भवति । ककु कुत्सितः' अक्षः काक्षः । एवं कापथः । पथिशब्दनिर्देशात्चत्पर्यायेऽभ्युत्पन्ने पथशब्दे न भवति । कुत्सितः पथः कुपथः । कुपथं वनम् । अनीपदर्थार्थं वचनम् ॥ १३४ ॥ पुरुषे वा ॥ ३ ॥ २ । १२५ ॥ कुशब्दस्य पुरुषशब्दे उत्तरपदे कादेशो भवति वा । कुत्सितः पुरुषः कापुरुषः । कुपुरुषः । कुत्सिताः पुरुषा अस्मिन् कापुरुषो ग्रामः । कुपुरुषो ग्रामः । अनीपदर्थे विकल्पोऽयम् । ईषदर्थे तु परत्वादुत्तरेण नित्यमेव । तत्रापि विकल्प एवेति कचित् । ईपत्पुरुषः कापुरुषः कुपुरुषः ॥ १३१ ॥ *अल्पे ॥ ३ । २ । १२५ ॥ ईषदर्थे वर्तमानस्य कुशब्दस्योत्तरपदे परे कादेशो भवति । ईपन्मधुरं कामधुरं कालवणम् । *स्वरादावपि परखादीपदर्थे कादेश एव भवति ।
ल० तृ०अ०
॥ नागमिति । न रहति शोभाम् अच् न अमित या शिन्दा एते यथाकथचित् व्युत्पाया नानायाभिनिवेश कार्य ॥ को कत्तत्पुरुषे ॥ प्रतिपदोको तत्पुरुषो यते तेन कुपृथिवीमतीत कतीत प्रत्यन पदादेशो न भवति । अयेत्थ भणिष्यन्ति श्रितादित्यात्समासे सति प्रतिपदोक्तरामस्तीति । तदवि नायम्। यतो द्वितीयान्त श्रितादिभि सह समस्यते ततथ द्वितीयान्त सामान्य नाम न प्रतिपदे। समिति कदादेशो न भगति ॥ तृणे जाती ॥ कणशब्दो जातिवाची अनयास्तु वृत्तानो दर्श्यते कुत्सित गुणमस्या इनरूप ॥ - रौहिप इति । रोहति अरण्ये 'रुहेबिध' इति इप्रत्यय ॥ कत्रि | पाहित्य सिदे कीति करण हिमोऽपि परिग्रहार्थम् ॥ काक्ष | कापथमिति पथ संख्येति नपुंसकता, यहुनीहो त्वाश्रयति ॥ एवं कापथ इति । अत्र पुस्त्यमित्यमर गोष्व यदाह 'व्यध्वी विपथकापथो' लमते तु नपुंसकतामेव भवति ॥ - कुत्सितः पथः कुपथ इति भवति न तु कुकाम् ॥ अल्प ॥ - स्वरादावपीति ।
॥ ५४ ॥