________________
तिरथीनः ॥ १२४ ॥ * नञत् ॥ ३ । २ । १२५ ॥ नक्शब्द उत्तरपदे परेडकारो भवति । अचौरः पन्थाः । अमक्षिको देशः । अगशकं वर्तते । अमक्षिकं वर्तते । अहिंसा । अस्तेयम् । *नकारः किम् । पामनपुत्रः । उत्तरपद इति किम् । न भुङ्क्ते ॥ १२५ ॥ *त्यादौ क्षेपे || ३ |२| १२६ || साद्यन्ते पदे परतः क्षेपे गम्यमाने नव् अकारो भवति । अपचसि त्वं जाल्म । अकरोषि त्वं जाल्म । त्यादाविति किम् । *न पाचको जाल्मः । क्षेप इति किम् । न पचति चैत्रः । अ मा नो ना प्रतिषेध इत्यकारेण प्रतिषेधार्थीयेनैव सिद्धौ क्षेपे नत्रः श्रवणनिवारणार्थम् *अनुत्तरपदार्थं वचनम् || १२६ ॥ नगोऽप्राणिनि वा ॥ ३३२|१२७॥ अप्राणिन्यभिधेये नग इति निपात्यते वा । न गच्छतीति नगः पर्वतः । अगः पर्वतः । नगा वृक्षाः । अगा वृक्षाः । अपाणिनीति किम् । अगो वृषलः शीतेन । पूर्वेण नित्यमादेशे प्राप्ते विकल्पोऽयम् ॥ १२७ ॥ * नखादयः ॥ ३ । २ । १२८ ॥ नखादयः शब्दा अकृताकाराद्यादेशा निपात्यन्ते । नास्य खमस्तीति * नखः । न भ्राजते इति नभ्राट् किवन्तः । न पातीति नपात् शत्रन्तः । त्रिलिङ्गोऽयम् । निपातनात्तु नाभावः । न वेतीति नवेदाः । औणादिकोsस् । सत्सु साधुः सत्यः । 'साधौ' यः । न सत्यः *असत्यः । नासत्यौ । नासत्याः । न मुखतीति नमुचिः । औणादिकः किः । नास्य कुलमस्तीति नकुलः । कथं न न भ्राजते किंतु भ्राजत एवेति नभ्राट् । पृषोदरादित्वादेकस्य ननो लोपे भविष्यति । एवं न न पाति नपात् । न न वेत्ति नवेदाः। न न मुञ्चति नमुचिः। न न कुलमस्त्यस्य नकुलः । न न | खमस्त्यस्य नखः। न पुमान् न स्त्रोति नपुंसकम् । अत एव निपातनात् स्त्रीपुंसयो पुंसकादेशः । न क्षीयते न क्षरति वा नक्षत्रम् । औणादिके त्राटे क्षभावे निपात्यते । न क्रामति न क्रीणाति वा नक्रः । डप्रत्ययो निपातनात् । नास्मिन्नकं दुःखमस्ति नाकः। न विद्यन्ते शाः श्रियः छन्दांसि वास्य ननः। न अगः नागः। न विद्यते भागोऽस्य नभागः । *नारमञ्चति नाराचः। न आप्यत इति नापितः। *न मोयतेऽसाविति नमेरुः । नाभिनन्दति वधूमिति ननान्दा। नान्तरेण भवति । नान्तरीयकम्। न न चिकेति नाचिकेतः। अत एव निपातनात् कित् ज्ञापनार्थों जुहोत्यादौ द्रष्टव्यः । अस्माच्च नन्द्रयोपपदान्नाम्नि शव् प्रत्ययो भवति । बहुवचनमाकृतिगणार्थम् तेन *नास्तिकः, *नमः,
॥ नञत् ॥ अकार किमिति । ननु चादिषु निरनुसन्ध एव नत्र पठपता स एव चेहानुक्रियतामिति । सत्यम् निरनुपन्यपाठे पामनपुत्र इत्यादी 'नोहादे' इति विहितस्य नप्रत्ययस्याऽत्र ग्रहण स्यात् । यत प्रत्यवाप्रत्ययय प्रत्ययस्यैव ग्रहणमिति हि न्याय । तत सानुबन्धपाठो युक्त एव । न चानुक्रियमाणेऽप्यनुबन्धे वैणपुत्र इत्यत्र कथ न भवतीति वाच्य प्रत्ययस्यैव ग्रहणमिति हि न्याय । प्रत्ययत्रित्त्वस्य वृद्धी चरितार्थत्वान्निपातत्रित्त्वस्यानर्थक्यात्तस्यैव ग्रहणमिति ॥ - त्यादौ क्षेपे ॥ न पाचक इति । असमासोऽय नञ्समासस्य पाक्षिकत्वात् पाचक इति नोत्तरपदमिति पूर्वेणापि न भवति ॥अनुत्तरपदार्थमिति । त्यायन्तेन समासाऽभावत समासे च सति पूर्वोत्तरपदव्यवहारात् ॥ नखादय ॥ - नख इत्यत्र बहुत्रीही 'नत्रत्' प्राप्तोऽनेन निषिध्यते । उष्ट्रमुखादित्वात्समास । खन्यत इति कचित्' इति ॥ -असत्य इति । न नखादी कितु नासत्य इत्ययम्। अरीणा समूह आर ' षष्ठया समूह' अणु ॥ - नारमञ्चति । 'कर्म्मणोऽण्' । निपातनादञ्चैर्नलोप । आप्यण् लम्भने नत्र आप ॥ न मीयते ' शिशुमेरुनमेवीदय' मिगस्तु 'चीनीपीमिसिभ्यो रु' 'यतिननदिभ्यो दीर्घथ' ॥ - नान्तरीयकमिति नान्तरेणेत्यर्थकथन सप्तम्यन्तात्तु गहादित्वादीय । तत स्वार्थिक ॥ - नास्तिक इति । नास्ति पुण्य पाप चेति मतिरस्येति 'नास्तिकास्तिक - इति निपातनादेव सिद्रम् । यदा तु न आस्तिको नास्तिक इति क्रियते तदा गणपाठफलम् ॥ - नभ इति । न यमस्तीति क्विप् न भातीति वा 'मिथिरञ्च्युषि' इति
XXXX**X*X*XXXXX**X*X