________________
******
*******
* अगिलागिलगिलगिलयोः ॥ ३ । २ । ११५ ॥ गिलान्तशब्दवजितात् पूर्वपदात्परे गिले गिलागिले चोत्तरपदे परे मोऽन्तो भवति । तिमिं गलती * तिमिङ्गिलः । एवं मत्स्यंगिलः । वालंगिलो राक्षसः । अपत्यंगिला शिशुमारी । तिमीनां गिलगिलः तिमिगिलगिलः । * गिलगिलशब्दे गिलशब्दो नोत्तरपदमिति गिलगिलोपादानम् । गिलशब्दस्य स्वरान्तस्य पर्युदासेन स्वरान्ताद्विधिस्तेन व्यञ्जनान्तान्न भवति । घूर्गिलः । अगिलादिति किम् । तिमिगिलं गिलति तिमिगिलगिलः । *गिलं गिलति गिलगिल इत्यत्र गिलगिलेति निर्देशादेव मोऽन्तो न संभवति । अगिलादिति तु निषेधो * गिलान्तस्यापि निवृत्त्यर्थः ॥ ११५ ॥ * भद्रोष्णात्करणे ॥ ३ । २ । ११६ ॥ भद्रशब्दादुष्णशब्दाच्च करणशब्दे उत्तरपदे मोडन्तो भवति । भद्रस्य करणं *भकरणम् । एवमुष्णंकरणम् ॥ ११६ ॥ *नवाखित्कदन्ते रात्रेः ॥ ३ । २ । ११७ ॥ रात्रिशब्दस्य खिद्वर्जितकृदन्ते उत्तरपदे मोडन्तो वा भवति । रात्रौ चरति रात्रिचरः । रात्रिचरः । रात्रिंचरी । | रात्रिचरी । रात्रात्रः रात्रिमटः रात्र्यटः । रात्रिमटति रात्रिमादः । रात्र्याटः । रात्रेः करणम् रात्रिकरणम् रात्रिकरणम् । खिद्वर्जनं किम् । रात्रिंमन्यमहः । 'खित्यनव्यय'(३-२-१११) इत्यादिना नित्यमेव भवति । कृदन्त इति किम् । *रात्रिसुखम् । अन्तग्रहणं किम् । रात्रिरिवाचरति किप् लुक् तृच् । रात्रयिता । इदमेवान्तग्रहणं ज्ञापकम् 'इहोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययस्यैव ग्रहण न तदन्तस्य । तेन ' कालात्तनतरतम - ( ३-२-२४ ) इत्यादौ प्रत्ययमात्रस्यैव ग्रहणं सिद्धम् । 'न नाम्येकस्वरात् खिति ' - ( ३-२-९ ) इत्यादौ वसंभवात्तदन्तग्रहणम् । केचित्तीर्थंकरः तीर्थकर इत्यत्रापि विकल्पमिच्छन्ति । तदर्थं नवाऽखित्कृदन्ते इति रात्रेरिति च योगो विभजनीयः ॥ ११७ ॥ * धेनोर्भव्यायाम् ॥ ३ ॥ २ ॥ ११८ ॥ धेनुशब्दाद्रव्याशब्दे उत्तरपदे मोडतो वा भवति । धेनुश्वासौ भव्या च धेनुंभव्या । धेनुभव्या । केचित्तु नित्यमिच्छन्ति ॥ ११८ ॥ अषष्ठीतृतीयादन्यादोऽर्थे ॥ २ । २ । ११९ ॥ अषष्ठ्यन्तादतृतीयान्ताच्चान्यचन्दादर्थशब्द उत्तरपदे दोsन्तो वा भवति । अन्यश्वासो अर्थश्च अन्योऽर्थोऽस्येति वा अन्यदर्थः । अन्यार्थः । अन्यस्मै इदम् अन्यदर्थम् । अन्यार्थम् । अन्यस्मिन्नर्थः अन्यदर्थः । अन्यार्थः । मिन्ध इति । इन्धन प्रयुङ्क्ते णिग्भावे अल् । इन्ध्यतेऽनेनेति वा 'पुनानि ' इति घ । इन्धयतीत्यचि वा । घत्रि तु 'दशनावोद - इति नलोप स्यात् ॥ अगिला ॥ - तिमिगिल इति बाहुलकात् ' नाम्युपान्त्य इति क । 'मूलविभुजादय ' इति वा ॥ - गिलगिलशब्दे इति । गिलगिल इत्येवरूपपाखण्डस्य विद्यमानत्वात् । नन्वऽगिलादित्यस्य गिलगिल इति प्रत्युदाहरण युक्तम् । अन्न गिल पूर्वपदमस्तीति । तिमिगिलगिल इत्यत्र तु न गिल पूर्वपद कितु गिलान्त शब्द इत्याह- गिलं गिलतीत्यादि । गिलगिलेति निद्देशादेव गिलगिले मोन्तो नास्तीति न तदर्थमगिलादित्यऽतस्तदन्तस्यैव प्रतिषेधार्थम् । अन्यथानर्थक्य स्वादिति ॥ - गिलान्तस्यापीति । अपिशब्द उक्तसमुचये न केवल गिलान्तस्याऽपिशब्दात् केवलादपि मोन्तो न भवतीति । अपिशब्दोऽवधा रणेऽन्यथा वर्जनानर्थक्यमिति तु न्यास । यद्वागिलस्येति विशेषणत्वात् तदन्तस्य निषेध । अन्यथोत्तरपदसन्निधापितपूर्वपदस्य केवलस्यैव निषेध स्यात् । यथा दिग्धपादोपहत । गिलस्य गिल गिल गिलति गिलगिल इत्यत्र तु आयन्तवदुपचारात् ॥ - भद्रोष्णा - |- भद्रकरणमिति । कृति करण क्रियतेऽनेनेति वा ततो भद्रोष्णयो कर्म्मषष्ठयन्तयो कृति ' इति समास ॥ - नवा खित्-॥ - -रात्रिसुखमिति । अत्र सुखशब्दोऽव्युत्पन्नो न हन्त इति मोन्तो न भवति ॥ - धनोर्भव्या- ॥ - धेनुभव्या इति । धेनोविशेषणत्वेन विवक्षितत्वात् विशेष्यत्वेऽपि वा धेनोर्भव्यायामिति भव्या