________________
ग्रहः। परिहारोऽन्यः । श्वीतंसः पक्षिवन्धनम् । वितंसोऽन्यः । उपसर्गस्यनि किम् । चन्दनसारः । खदिरसारः। मार्गमतिकान्तः अतिमार्गः । घनीति किम् । अवसायः । अवहारः। णप्रत्ययोऽयम् । *बहुलवचनादनुपसर्गस्यापि अघञ्यपि च भवति । दक्षिणापथः । उत्तरापथः । कचिद्विकल्पः । अन्धतमः । अन्धातमः । अन्धतमसम् | * अन्धातमसम् । कचिद्विषयभेदेन । अधीदन्तः । अधीकर्णः । अधीकण्ठः । अधीपादः । एते आधिक्ये । अन्यत्र अघिदन्त इत्यादि भवति । कचिदनुत्तरपदेऽपि विकल्पः । पूरुषः । पुरुषः । नारकः । नरकः । सादनम् । सदनम् । अतिशायनम् । अतिशयनम् । *काशशब्दे च वजन्ते विकल्पः । नीकाशः। निकाशः। प्रतीकाशः । मतिकाशः । *अजन्ते तुत्तरो विधिः॥८६॥ नामिनः काठशे ॥३।२।८७॥ नाम्यन्तस्योपसर्गस्य 'अच् ' (५-१ -४९ ) इत्यजन्ते काशशब्दे उत्तरपदे परे दीर्घोऽन्तादेशो भवति । निकाशते नीकाशः। विकाशते इति वीकाशः। अनूकाशः । प्रतीकाशः । बहुलाधिकारानिकाश इसपि । नामिन इति किम् । प्रकाशते इति प्रकाशः॥ ८७॥ *दस्ति । ३।। दा इत्येतस्य यस्तकारादिरादेशस्तस्मिन्परे नाम्यन्तस्योपसर्गस्य दीर्घोऽन्तादेशो भवति । नीत्तम् । वीत्तम् । परीत्तम् । परीत्तवान् । परीत्रिमम् । प्रणीत्रिमम् । द इति किम् । वितीर्णम् । तीति किम् । सुदत्तम् । नामिन इत्येव । प्रत्तम् । अवत्तम् ॥ ८८ ॥ *अपील्वादेवहे ॥३।२।८९॥ पोल्वादिवजितस्य नाम्यन्तस्य वहे उत्तरपदे परे दीर्घोऽन्तादेशो भवति । वहतीति वहम् । 'अच् (५-१-४९) इत्यच् । ऋषीणां वहम् ऋषीवहम् । मुनीवहम् । कपीवहम् । एवं नामानि नगराणि । घान्ते तु वहशब्दे ऋषीवहः । मुनीवहः । क
पीवहः । अपील्खादेरिति किम् । पीलुवहम् । दारुवहम् । चारुवहम् । नामिन इत्येव । पिण्डवहम् । काष्ठवहम् ॥ ८९॥ शुनः।३। ।९०॥ श्वर इत्येत a स्योत्तरपदे परे दीर्घोऽन्तादेशो भवति । शुनो दन्तः श्वादन्तः । एवं श्वादंष्टा । श्वाकर्णः । श्वाकर्दः । श्वाकूर्दः। श्वावराहम् । बहुलाधिकारात्कचिद्रिकल्पः । श्वापुRS च्छम् । श्वपुच्छम् । कचिद्विषयान्तरे । शुनः पदमिव पदमस्य *श्वापदम् व्याघ्रादिः । शुनः पदं श्वपदम् । कचिन्न भवति । श्वकल्पः । श्वमुखः ॥९० ॥
॥३।२। ९१॥ एकादयः शब्दा दशादिषु *उत्तरपदादिषु कृतदीर्घखादयो निपात्यन्ते । *एकोचरा दश, एक च दश च वा एकादश । अत्रैकस्य दाशब्दे उत्तरपदे दीर्घः। षडुत्तरा दश षट् च दश च वा षोडश । अत्र षषोऽन्तस्योत्वम् । उत्तरपददकारस्य च डकारः।
पड् दन्ता अस्य घोडन् । अत्र दन्तशब्दस्य दत्रादेशे कृते दस्य डत्वं षषोऽन्तस्योत्वम् । एवं घोडन्तौ । षोडन्तः । स्त्रियां तु षोडती । अन्ये तु दत्रादेशे कृते पो| ग्रहण न्याय्यम् ॥-वीतंस इति । भूषतसु० नोन्ते वितस्यते घन् ॥-अन्धातमसमिति । अमत्यन्येनाकृष्यमाण 'स्कन्धमिभ्या ध' अन्ध करोति णिज् । अन्धण् दृष्टद्युपतहारै अस्माद्वाऽच् । अन्ध च तत्तमच RS समवान्धात्तमसोऽत् समासान्त ॥-काशशब्दे चेति ॥-बहुलवचनादेवेति। यदि घत्रि विकल्प ताहि उत्तरो नित्यविधि क स्यादित्याह-अजन्ते त्विति ॥-दस्ति ॥ निदीयते स्म दासज्ञाना चतुर्णा
मन्यतमात् क्ते कृते ददित्यत्यापवाद 'स्वरादुपसर्गात्' इति दा इत्यस्य त् इत्यादेश । दागस्तु निदातुमारब्धम् 'आरम्भ क्त । 'निविस्वन्वयात् ' विकल्पेन त्त् ॥-अपील्या-॥ अत्र वहशब्दो ऽजन्तो घान्तश्च प्रयते लिहाच विशेषो वाच्य-॥-शुनः॥-श्वापदमित्यत्र याहुलकानपुसकत्वमऽन्यथा देहिनामत्वात्पुत्त्व स्यात् ॥-एकादश-॥-उत्तरपदादिष्विति । आदिपदावाप्रभृतिप्रत्ययाना ग्रह ॥-एकोत्तरा दशेति ।