SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ वी एवं महाराज्ञी । महती कीर्तिरस्य महाकीर्तिः । महास्तुतिः । महांश्चासौ करथ, महान् करोऽस्येति *महाकरः । एवं महाघासः । महाविशिष्टः । महान्तमात्मानं मन्यते महामानी । एवं महंमन्यः । खशि डाह्रस्वत्वे मांऽन्तः । *एकार्थ इति किम् । प्रकृष्टो महान् महत्तरः । महत्याः पुत्रो महतीपुत्रः । महत्याः पतिः महतीपतिः । अच्छेरिति किम् । अमहान् *महान् संपन्नो महद्भूतचन्द्रमाः । अमहती महती संपन्ना महद्भूता कन्या ॥ ७० ॥ न पुंवन्निषेधे ॥ ३ ॥ २ ॥ ७१ ॥ महतः पुंवन्निषेधविषये उत्तरपदे डा न भवति । महती प्रिया अस्य महतीप्रियः । महती मनोज्ञः ॥ ७१ ॥ * इव्यस्वरे दोर्घ आच्च ॥ ३ । २ । ७२ ॥ इच्प्रत्य- | यान्तेऽस्त्ररादावुत्तरपदे परे पूर्वपदस्य दीर्घ आकारथान्तादेशो भवति । वाहुषु च वाहुषु च मिथो गृहीत्वा व्यासक्तं वाहूवाहवि व्यासजेताम् । वाहावाहवि । एवं केशाकेशि । मुष्टिभिचमुष्टिभिश्च महृत्य कृतं युद्धं मुष्टोमुष्टि । मुष्टामुष्टि । एवं यष्टायष्टि । यष्टीयष्टि । दण्डदण्डि । दोर्घत्वात्वयोरकारान्तादन्यत्र विशेषः । दीर्घ*साहचर्यादात्वमपि स्वरान्तानामेव भवति । तेनेह न भवति । दोर्दोषि । धनुर्धनुषि । अस्वर इति किम् । अस्यसि । इष्विपवि ॥ ७२ ॥ *हविष्यष्टनः कपाले || ३ । २ । ७३ ॥ दविष्यभिधेयेऽनुशब्दस्य कपाले उत्तरपदे दीर्घोऽन्तादेशो भवति । अष्टसु कपालेषु संस्कृतम् अष्टाकपालं हविः । हविषीति किम् । अष्टानां कपालानां समाहारः अष्टकपालम् । पात्रादित्वात्स्त्रीत्वाभावः । कपाल इति किम् | अष्टपात्रं हविः ॥ ७३ ॥ *गवि युक्ते ॥ ३ । २ । ७४ ॥ अष्टनशब्दस्य गव्युत्तरपदे युक्तेऽभिधेये दोर्घोऽन्तादेशो भवति । अष्टागवं शकटम् । अष्टौ गावो युक्ता अस्मिन्निति त्रिपदे बहुव्रीहौ कृते उत्तरपदे परे द्वयोर्टिंगुः ' गोस्तत्पुरु ॥ महाकर इति । करादिष्वपि सामानाधिकरण्य ( सामानाधिकरण्ये परत्वादिति पाठान्तरम् ) फलत्वान्नित्यमस्य प्रवृत्ति दर्शयितुमाह-एकार्थ इति किमिति । नन्वेकार्थ इति किमर्थं जातीये चेति कृतेऽपि चकारेण उत्तरपदाकर्षणात् तेन च समासाक्षेपात लक्षणप्रतिपदोक्तपरिभाषया च ' सन्महत्परम' - इति प्रतिपदोक्तस्यैव समासस्य ग्रहणालाक्षणिके षष्ठीतत्पुरुषे न भविध्यति । नैवम् । षष्ठीतत्पुरुषवत्, महान् भागस्येत्यादौ बहुमीहावपि न स्यात् ॥ - महान् संपन्न इति । सपन्न इत्यर्थकथनम् । अमहान् महान् भूत इति तु दृश्यमऽन्यथा च्रभाव ॥ - इच्यऽस्व- ॥ - साहचर्यादिति । 'स्वरस्य ह्रस्वदीर्घप्लुता' इति न्यायादित्यर्थं ॥ हविष्य - ॥ प्रायोगिकस्य बहुसख्यार्थाभिधायकस्याऽटनइत्यनुकरणम् । तत प्रायोगिकस्यैकसख्यस्य शब्दस्याभिधायकमिति षष्ठयेकवचनम् । अनुक्रियमाणस्य स्वरूपविनाशप्रसङ्गात् 'अनोऽस्य' इत्यकारलोपो न भवति ॥ - अष्टाकपालमिति । अत्राष्टनो व्यञ्जनान्तत्वाव्यभिचाराद्दीर्घे परविधौ नलोपस्या (क्वचिदसत्त्वपीति पाठ स च प्रकटार्थ ) भावेऽपि दीर्घस्य स्वरधर्मत्वादकारस्योपान्त्यस्यापि स्वरापेक्षयान्त्यत्वाद्वा दीर्घेऽनेन ॥-गचि यु- ॥ अष्टौ गावो युक्ता अस्मिन् शकटे अष्टागव शकटमिति उक्त ततश्च अन्यपदार्थे शकटे अभिधेये किमिति समास क्रियते यतोऽ गावो युक्ता इति कथ न क्रियते यत इति कृतेऽपि युक्तोऽर्थो गम्यते । यतोऽष्टी गावो युक्ता कोऽथ गाव समद्धा इत्यर्थ इति युक्तोऽर्थोऽत्रापि गम्यते तत्कथमन्यपदार्थ क्रियते । उच्यते । प्रत्यासत्तिन्यायात् यदा तैर्गोभिर्युक्त वाच्य शकट भवति तदाऽनेनाकार इष्यते । यतस्तैर्गोभिर्युक्त शकटमेवासन्नमस्तीति प्रत्यासत्ति तार्ह कब गवीति किम् अटतुरगो रथ इत्यत्र विकलल व्यावृत्तेर्यतो युक्तोऽप्यथों नास्ति । उच्यते । अ तुरगा अस्य रथस्येत्यत्र विद्यते पष्ठी सा च योज्ययोजकसचन्येऽस्ति । ततथ योज्यास्तुग्गा सवद्धा कर्त्तव्या केन योजकेन देवदसलक्षणेन पर सहसामर्थ्याद्रथेनैवैति युक्तोऽथोऽस्तीति न द्वयाविकलल व्यावृत्ते । उपचारो त्यनेकधाडत आह
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy