________________
XXXXXXXXXXX
न सिध्यन्ति । मृगक्षीरादयः प्रयोगतोऽनुसर्तव्याः ॥ ६२ ॥ कटुत्तिरतमरूप कल्पबुवचेलड्गोत्रमतहते वा इखश्व ॥ ३ । २ । ६३ ॥ ऋदिदुदिच्च परतः स्त्रीलिङ्गशब्दस्त रादिषु प्रत्ययेषु ब्रुवादिषु च स्त्र्येकार्थेषूत्तरपदेषु इस्वाऽन्तः पुंवच वा भवति । तर, पचन्तितरा । पचतरा । पचन्तीतरा । श्रेयसितरा। श्रेयस्तरा । श्रेयसीतरा । विदुषितरा । विद्वत्तरा । विदुषीतरा । तम, पचन्तितमा । पचत्तमा । पचन्तीतमा । श्रेयसितमा । श्रेयस्तमा । श्रेयसीतमा । विदुः षितमा | विद्वत्तमा । विदुषीतमा । रूप, पचन्तिरूपा । पचद्रूपा । पचन्तीरूपा । श्रेयसिरूपा । श्रेयोरूपा । श्रेयसीरूपा । विदुषिरूपा । विद्वद्भूया | विदुषी रूपा । कल्प, पचन्तिकल्पा । पचत्कल्पा । पचन्तीकल्पा । विदुषिकल्पा । विद्वत्कल्पा । विदुषीकल्पा । ब्रुव, पचन्ती चासौ ब्रुवा च पचन्तिवा । पचवा । पचन्तीबुवा | श्रेयसिबुवा । श्रेयोनुवा । श्रेयसीबुवा | विदुषिब्रुवा । विदवा । विदुषीबुवा । चेलट्, टिद्वचनं ङन्यर्थम् । पचन्ती चासौ चेली च पचन्निचली । पचञ्चेली । | पचन्ती चेली | श्रेयसिचेली | श्रेयश्रेली । श्रेयसीचेली । विदुपिचेली । विद्वच्चेली । विदुषीचेली । गोत्र, पचन्ती चासौ *गोत्रा च पचन्तिगोत्रा । पचगोत्रा । पचन्तोगोत्रा । श्रेयसिगोत्रा । श्रेयोगोत्रा । श्रेयसीगोत्रा । विदुषिगोत्रा । विद्वगोत्रा । विदुषीगोत्रा । मत, पचन्ती चासौ *मता च पचन्तिमता । पचन्ता । पचन्तीमता । श्रेयसिमता । श्रेयोमता । श्रेयसीमता । विदुषिमता | विद्वन्मता । विदुषीमता । हत, पचन्ती चासौ हता च पचन्तिता । पचद्धता । पचन्तीहता | श्रेयसिहता । श्रेयोहता । श्रेयसीहता । विदुषिता । विद्धता । विदुषीहता । एवं सुदतितरेत्यादि । ब्रुवादयः कुत्साशब्दा: 'निन्द्यं कुत्सनैः ? ( ३-१-१०० ) इति च समासः । ऋदुदिदिति किम् । कुमारितरा । किशोरितरा । किशोरितमा । एकार्य इत्येव । पचन्या हता पचन्तीहता । विदुष्या हता विदुषीहता । तदि किम् । पचत्पाशा । विद्वष्टृन्दारिका ॥ ६३ ॥ *ड्यः ॥ ३ । २ । ६४ ॥ उत्यन्तस्य परतः स्त्रीलिङ्गस्य तरादिषु प्रत्ययेषु ब्रुत्रादिषु चोत्तरपदेषु कार्येषु | इस्वोऽन्तादेशो भवति । गौरितरा । गौरितमा । नर्तकिरूपा । कुमारिकल्पा । ब्राह्मणिब्रुवा । गार्गिचेली । ब्राह्मणिगोत्रा । गार्गिमता । गौरिहता। *परत्वाद्यथाप्राप्तं पुंवद्भावं वाघते । य इति किम् । मद्रिकातरा । कारिकातमा । दत्तारूपा । सेनानीरूपा । ग्रामणीकल्पा । परतः स्त्रिया इत्येव । वदरीतरा । *आमलकीतरा । एकार्थ इत्येव । ब्राह्मण्या ear ब्राह्मगीता ।' नवैकस्वराणाम् ' ( ३-२-६६ ) इत्युत्तरत्र वचनादनेकस्वरस्यैवायं विधिः ॥ ६४ ॥ पद मृगोपदमिति कृते सेत्स्यति किमर्थमिदमित्याशङ्का ॥ मृगक्षीरादय इति । आदिशब्दात् मयूराण्डमित्यादि । एतच मृग्या क्षीरमिति कृते द्रष्टव्यम् ॥ ऋदुदि ॥ अत्र श्रेयशब्दात् कल्पप् नोदाहियते अतमयादेरिति वचनात् ॥ पचन्तितेति । हतशब्दस्य पापादित्वेऽपि सूत्रत्वाद्वाहुलकाद्वा समाप्त ॥ - चेलेति । चिलत बसने चिलति गुणान् इति लिहायच् ॥ गोत्रेति । अह पचामीत्येवरूपा गावाच जायत इति गोत्रा । ' आतोड' इति ढ ॥ मतेति । मन्यतेः सत्यर्थे ' ज्ञानेच्छा - इत्यादिना त' ॥ - कुमारितरेत्यादिषु 'घ ' इत्यनेन सूत्रेण हस्व ॥ थः ॥ - परत्वा दिति । दर्शनीयतरा विद्वद्वृन्दारिकेत्यादौ प्रभाव सावकाश । नर्स किरुपेत्यादौ तु कोपान्त्यत्वात्पुभावप्रतिषेधादय विधि गौरितरेत्यादौ तुभयप्राप्तौ 'स्पढ़ें पर. ' इति परत्वादयमेव विधिरित्यर्थ ॥ म मल्लि धारणे । आमलिषीष्ट पुष्पफलानीति 'तित्कृतौ नाम्नि' इति अक । अथवा अमण् आमयति श्लेष्मप्रधानमिति आमलकी । 'कीचक इति अकान्तो निपात्यते 'जातेरयान्त इति ' डी।
*********