SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ************ विलशयः । खेशयः । खशय । वनेवासी । वनवासी । अन्तेवासी । अन्तवासी । ग्रामेवासः । ग्रामवासः । बहुलाधिकारान्मनसिशयः कुशेशयमिति नित्यं लुवभावः । हृच्छयः चित्तशयः इत्यत्र तु नित्यं लुप् । अकालादिति किम् । पूर्वाह्णशयः । अपराह्णशयः । अव्यञ्जनादित्येव । भूमिशयः । गुहाशयः ॥ २५ ॥ * वर्षक्षरवराप्सरः शरोरोमनसो जे ॥ ३ । २ । २६ ॥ वर्ष क्षर वर अप् सरस् शर उरस् मनस् इत्येतेभ्यः परस्याः सप्तम्या जे उत्तरपदे वालुप् भवति । वर्षेः । वर्षजः । क्षरेजः। *क्षरजः । वरेजः । वरजः । अप्सुजम् । अब्जम् । सरसिजम् । सरोजम् । शरेजः । शरजः। उरसिजः । उरोजः । मनसिजः । मनोजः ॥ ॥ २६ ॥ द्युप्रावृड्वर्षाशरत्कालात् ॥ ३ । २ । २७ ॥ योगविभागाद्वेति निवृत्तम् । दिव्प्रभृतिभ्यः परस्याः सप्तम्या जे उत्तरपदे परे लुप् न भवति । दिविजः । प्रावृषिजः । वर्षासुजः । शरदिजः । कालेजः ॥ २७ ॥ अपो ययोनिमतिचरे ॥ ३ । २ । २८ ॥ अपशब्दात्परस्याः सप्तम्या यमत्यये योनिमतिचरेषु चोत्तरपदेषु लुब् न भवति । अप्सु भवः अपसव्यः । दिगादित्वाद्यः । अप्युयोनिः । अप्सुमतिः । अप्सुचरः ॥२८॥ *नेसिद्धस्थे ||३|१|२९ ॥ *इन्प्रत्ययान्ते सिद्ध स्थ इत्येतयोश्चोत्तरपदयोः सप्तम्या अलुप् न भवति । भवत्येवेत्यर्थः । इन् स्थण्डिले वर्तते स्थण्डिलवर्ती । एवं स्थण्डिलशायी । सांकाश्यसिद्धः । काम्पील्यसिद्धः । समस्यः । विपमस्थ । 'शयवासी ' - ( ३-२-२१ ) त्यादियोगद्वयविकल्पो 'प्राट् ' - ( ३-२-२७) आदियोगद्वयविधिरनेन प्रतिषेधश्च ‘तत्पुरुषे कृति ' ( ३-२--२० ) इत्यस्यैव प्रपञ्च । ते वै विधयः संगृहीता भवन्ति येषां लक्षणं मपञ्चचेति ॥ २९ ॥ *पष्ट्याः क्षेपे ॥ ३ । २ । ३° ॥ क्षेपे गम्यमाने उत्तरपदे परे पचा लुप् न भवति । चौरस्यकुलम् । दासस्यभार्या । वृषल्याः पतिः । क्षेप इति किम् । ब्राह्मणकुलम् । कथं चौरकुल दासभार्या वृषलीपतिः । तत्त्वाख्यानमेतन्न क्षेपः ॥ ३० ॥ पुत्रे वा ॥ ३ । २ । ३१ ॥ पुत्रशब्दे उत्तरपदे क्षेपे गम्यमाने षष्ठचा लुप् वा न भवति । दा स्याः पुत्रः । दासीपुत्रः । वृषल्याः पुत्रः । वृषलीपुत्रः । क्षेपे इसेव । ब्राह्मणपुत्रः । दासीपुत्र इति तु तत्त्वाख्याने । पूर्वेण नित्यं निषेधे प्राप्ते विकल्पः ॥ ३१ ॥ * पश्याग्दिशो हरयुक्तिदण्डे ॥ ३ । २ । ३२ ॥ पश्यद्वाग्दिक्शब्देभ्यः परस्याः षष्ठया यथासंख्यं हरयुक्तिदण्डेषूत्तरपदेषु लुब् न भवति । *पश्यतोहरः । ताम्यतीति ततीति क्रियते तदा अलुप् न भवति प्रत्ययाप्रत्यययोरिति न्यायात् । तेन पूर्व्वाह्णतन पूर्वाह्नतम पूर्वाह्नतर इत्याद्येव भवति ॥ - वर्ष - ॥ क्षरतीत्यचि क्षरे मेत्रे जात क्षरज । क्षरशब्देन जल मेघच उच्यते ॥ नेनसिद्ध - ॥ - इन्प्रत्ययान्ते इति । इहोत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविध्यभावे ज्ञापितेऽपि सामर्थ्यात्तदन्तविधि । इन्प्रत्ययो हि द्विविध कृत्तद्वितथ । तत्र कुद्वातोविधीयते तद्वितोऽपि प्रथमान्तादस्यास्त्युपाधिकस्तस्मात्सप्तम्यन्तात्तयोविधानासभवात्तदन्ते उत्तरपदे सप्तम्या अलुप् प्रतिषिध्यत इति ॥ - ते वै विधय इति । वैशब्दों हेत्वर्थं ततो वैइत्यस्य यत इत्यर्थ. । परानुग्राहक हि शास्त्र तत्र केचित्तीक्ष्णधियस्तान् प्रति संक्षेपेण प्रणयनम् । केचिन्मन्दधियस्तान् प्रति प्रपञ्च आरभ्यते ॥ -- षष्ठया क्षे ॥ अत्र पूर्वपदात् क्षेपे अलुप् इध्यते तेन भूपस्य जाल्मो भूपजाम इत्यत्र लुवेन भवति । एतत्तु व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायात् न्याय्यम् ॥ पश्यद्वार - ॥ पश्यतोहर इत्यत्र यदा पश्यता हर इति क्रियते तदा अलुप् भवति वा नवा । उच्यते । शब्दशक्तिस्वाभाव्यात्ममासस्याप्यगमकत्वे समासाभावात् लुगपि न प्राप्नोति । यदा तु अर्थात्प्रकरणाद्वा बकयों ज्ञायते तदा भवत्येवाऽलुप् ॥ अदसो - || अकन्प्रत्ययविषये उत्तरपदे इत्युक्त
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy