________________
नन्यन्तरइत्वादवादेशे कृते व्यञ्जनान्तत्वादेव सिद्धं कि विदादिपाठाश्रयणेन । नैवम् । अन्तरङ्गानपि हि विधीन् बहिरङ्गाऽपि लुप् बाधते इत्युक्तम् । अन्यथा नदीकुकुटिकादिष्वप्यन्तरगत्वायत्वे सखलुप् प्रसज्ज्यतेति ॥ १८॥ प्राकारस्य व्यञ्जने ॥३।२।१९ ॥ राजलभ्यो रक्षानिर्देशः कारः । प्राचा देशे यः कारस्तस्य नाम्नि संज्ञायां गम्यमानायामध्यञ्जनात्परस्याः सप्तम्या व्यजनादावुत्तरपदे परे लुप् न भवति । मुकुटे मुकुटे कापणो दातव्यः +मुकुटेकापणः । एवं स्तुपेशाणः । हलेद्विपदिका । हलेत्रिपदिका । व्यञ्जन, पदिमापकः । समिधिमापकः । वृत्तौ वोप्साया दानस्य चान्तर्भाव । प्रागिति किम् । यथे यूथे देयः | पशु यूथपशुः । एवं यूथपः । उदीचां देशे कारोऽयम् न प्राचाम् । कार इति किम् । अभ्यहितेऽभ्यहिते देयः पशुः अभ्यर्दितपशुः । पाचां देशे कारादन्यस्य देयस्य नामैतत् । व्यञ्जन इति किम् । अविकटेऽविकटे उरणो दातव्यः अविकटोरणः । अविकटोऽविसमूह । अध्यञ्जनादित्येव । नध्यां नध्यां दोहो दातव्यः नधोदोहः । पूणैव सिद्धे नियमार्थोऽयं योगः । त्रिविधधात्र नियमः । प्राचामेव, कारस्यैव नाम्नि, व्यञ्जनादावेवेति । तथा च प्रत्युदाहृतम् ॥ १९ ॥ तत्पुरुषे | कति ॥३।२।२० ॥ अध्यञ्जनात्परस्याः सप्तम्याः कृदन्ते उत्तरपदे परे तत्पुरुपे समासे लब् न भवति । नाम्नीति निवृत्तम् । स्तम्बे रमते स्तम्बरमः ।
एवं कर्णेजपः । पात्रेसमितः । प्रवाहेमूत्रितम् । उदकेविशीर्णम् । अवतप्तेनकुलस्थितम् । व्यञ्जन, भस्मनिहुतम् । भस्मनिमीढम् । बहुलाधिकारात्कचिदन्यतोऽपि । RE गोषुचर । कचिनिषेधो न भवति । मद्रचरः। ग्रामकारकः । कचिद्विकल्पः । खचरः । खेचर । वनेचरः । वनचरः। पवेरुहम् । पङ्कहम् । सरसिरुहम् । सरोरुहम्।
दिविषत | शुमत् । कचिदन्यदेव । हृदयं स्पृशति हृदिस्पृक् । द्वितीयार्थेऽत्र सप्तमी । एवं दिविस्पृछ । तत्पुरुप इति किम् । धन्वनि कारका यस्य स धन्धकारकः ।
एवं कल्याणाभिनिवेशः । धर्मरुचिः । कृतीति किम् । अक्षशौण्डः । अक्षकितवः। अव्यञ्जनादित्येव । कुरुषु चरति कुरुचः । एवं रात्रिचरः । नदीचरः । कथं | परमे कारके उत्तमे कारके इति विग्रहे परमकारके उत्तमकारके तिष्ठतीसत्र सप्तम्या लुब् भवति । उच्यते । अन्तरङ्गत्वात्पथमान्तयोरेव परमोत्तमशब्दयोः कारकशब्देन समास इति ताभ्यां सप्तम्येव नास्ति । या कृतीति कृनिमित्ताया एव सप्तम्या लुप्प्रतिषेधः । इह तु तिष्ठत्यादिक्रियापेक्षेति लुए भवत्येव ॥ २० ॥
। २॥ २१॥ मध्यान्तशब्दाभ्यां परस्याः सप्तम्या गुरुशब्दे उत्तरपदे परे लुप् न भवति । मध्येगुरुः । अन्तेगुरुः । मध्यगुरुः अन्तगुरुरित्यप्यन्ये ॥ २१ ॥ *अमूर्धमस्तकात्स्वाङ्गादकामे ॥३।२ । २२ ॥ मूर्धमस्तकशब्दवर्जितात्खाङ्गवाचिनोऽयजनान्ताच्छब्दात्परस्याः सप्तम्याः Sस्ति इति अद्ध्यजनादिति व्यावृत्ति ॥--वनेकिंशुलका इति दर्शित ततय कि श्यतीति अध्वर्खादित्वाडिदुप्रत्यये किशु । लातीति दे किशुल स एव किशुलक ॥-प्राकार-॥ कुव॑न्त्यनेनेति
कर । 'पुनाम्नि घ' अ इति वा । तत प्रशायण-कारः ॥-मुकुटेकापणादिषु सर्वेषु 'नाम्नि ' इति स । स्तूपो राशि । शाण कर्पचतुर्भाग ॥ हले हले द्वौ द्वौ पादौ ददाति । *'सख्यादे पादादिभ्य ' इत्यकल् । नह्यतेऽनया ' नीदात् '-इति त्रट् ॥-मध्यान्ता-॥ अत्र समासविशेषस्यानुपादानात् यथा तत्पुरुषे लुक् न भवति तथा यहुमोढ़ावपि ॥ अमूर्द्ध-॥ शब्दप्रधा