SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ गांमन्यः। नावंमन्यः। अथ श्रियमात्मानं मन्यते श्रियंमन्यं कुलमित्यत्र नपंसकलक्षणोऽमो लोपः कस्मान्न भवति । उच्यते । श्रीशब्दस्यात्मसमानाधिकरणस्य नपुंसके कि वृत्त्यभावादाविष्टलिङ्गलाच न भवति । अन्ये त्याहुः । यथा प्रष्ठादयः शब्दा धवयोगात् स्त्रियां वर्तमानाः स्वलिङ्गं विहाय स्त्रीलिङ्गमुपाददते तथा श्रीशब्दः कुले वर्तमानः स्वलिङ्गपरित्यागेन वर्तते ततो नपुंसकलक्षणं इस्वत्वममो लुप् च भवति । श्रिमन्यं कुलमिति । नचायं नपुंसकलक्षणस्य लोपस्यापवादः किंतु *ऐकायेंलक्षणस्योत्तरपदग्रहणात् । नामिग्रहणं किम् । शंमन्यः । ममन्यः । वाग्मन्यः । एकस्वरादिति किम् । हरणिमन्या । बुधमन्या। खितीति किम् । स्त्रीमानी 'मन्याणिन्' (५-१-११६) ॥ ९॥ *असत्त्वे उसेः॥ ३॥२॥१०॥ असत्त्वे विहितो यो ङसिः तस्योत्तरपदे लुप् न भवति । *स्तोकान्मुक्तः ॥ अल्पान्मुक्तः । कृच्छ्रान्मुक्तः । कतिपयान्मुक्तः । *अन्तिकादागतः । अभ्याशादागतः । सविधादागतः । दूरादागतः । विदूरादागतः। विप्रकृष्टादागतः॥ तेनासत्त्वे' (३-१--७४) इति समासः । असत्त्वे इति किम् । स्तोकभयम् । स्तोकापेतः । उत्तरपद इत्येव । निष्क्रान्तः स्तोकान्निस्तोकः ॥ १० ॥ *ब्राह्मणाच्छंसी ॥३२॥ ११ ॥ ब्राह्मणाच्छंसीत्यत्र ङसेल्वभावो निपात्यते । ब्राह्मणादन्थादादाय शंसति ब्राह्मणाच्छंसी । ब्राह्मणाच्छंसिनौ । ब्राह्मणाच्छंसिनः । रूढिवशाहत्विग्विशेष उच्यते । *उपात्तविषयमेव तदपादानं यथा कुमूलात्पचति । निपातनस्येष्टविषयत्वात्विग्विशेषादन्यत्र लुप् भवति । ब्राह्मणशंसिनी स्त्री ॥११॥ *ओजोऽञ्जःसहोम्भस्तमस्तपसष्टः ॥३।१।१२॥ एभ्यः परस्य टस्तृतीयैकवचनस्योत्तरपदे परे लुब् न भवति । *आजसाकृतम् । अञ्जसाकृतम् । सहसाकृतम् । अम्भसाकृतम् । तमसाकृतम् । तपसाकृतम् । तपसाप्राप्तम् । कथं * सततनैशतमातमन्यत इति । उत्तरपदस्य संवन्धिशब्दत्वायत्र पूर्वपदीभूतस्तमः शाब्दस्तत्रायं निषेधः । यत्र तु पदान्तरेण समस्तस्तत्र न प्रतिषेधः ॥ ट इति किम् | ओजसो भावः ओजोभावः । तमसो नेच्छन्त्येके । तपसोऽन्ये ॥ १२ ॥ | नन्वत्र “सप्तम्या आदि ' इति खिदादावुत्तरपदे इति प्राप्नोति । न । खिदादेरुत्तरपदस्यासभवादिति । ननु सियमन्यइत्यत्राऽलुपि सत्या 'कर्मणि कृत ' इति सूत्रेण षष्ठी का का न भवति यतोऽये कृत्प्रत्ययोऽस्ति । उच्यते । अत एवामोऽलुम्विधानात्यष्ठी न भवति । अन्यथा ह्यमोऽलुप् कय विधीयत इति ॥-न चायमिति । नन्वनेन निषेध प्राप्नोति तत्क-135 | थममोऽलुमित्युक्तमन्यैरित्याशङ्का ॥-ऐकार्थ्यलक्षणस्येति । अयमपवाद उत्तरपदे एव प्राप्तस्य याधक इत्यर्थ ॥-असत्वे-॥-स्तोकान्मुक्त इत्यादी 'स्तोकाल्पकृच्छ्र' इति पञ्चमी ॥* अन्तिकादागत इत्यादौ तु 'असत्वारादर्थ '-इति पञ्चमी भवति इत्यादि स्वयमह्यम् ॥-ब्राह्मणा-|-ब्राह्मणाद्ग्रन्थात् इति । ब्राह्मणप्रोक्तो बन्यो ब्राह्मण तेन प्रोक्तेऽण् । 'अणि' इति | निषेधेऽपि 'ब्रह्मण' इत्यनेन ब्राह्ममखमितिबदबान्त्यस्वरादिलोपो न भवति । 'वेदेनब्राह्मणमत्रैव' इति निर्देशात् । अत एव निद्देशाद्वा । ब्राह्मण श्रुताविति नपुसकत्वम् । ब्राह्मणाद्ग्रन्थादादाय शसतीत्येव ब्रह्म इति वाक्ये 'नताभीक्ष्ण्ये' इति णिन् प्रत्यय ॥-उपात्तविषयेति । अत्र हि आदानाहे शसने शतिर्वर्त्तते इत्यादानक्रियापेक्षमपादानमित्यादि ॥-ओजोञ्ज-1-ओजसाकृतमिति । ओ X जसा क्रियते स्म । एषु सर्वेषु कर्तरि पष्ठी न भवति 'क्तयोरसदाधारे' इति निषेधात् । तृतीया तु कर्तरि करणे बा । सर्वत्र ‘कारक कृता' इति समास ॥ 'तपनमण्टलदीपितमेकत सततनैशतमो| वृतमन्यत ॥ इसितभिन्नतमिस्रचय पुर शिवमिवानुगत गजचर्मणा ॥१॥-सततनैशतमोवृतमिति । निशाया भव 'निशाप्नदोपात' इतीकणो विकल्पाद्भवेऽण् । नैश च तत् तमश्च सतत च
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy