________________
XXXXXX
र्णम् धवाश्वकर्णाः । तृण, कुशकाशम् कुशकाशाः । मुञ्जवल्वजम् मुज्जवल्वजाः । धान्य, तिलमापं तिलमाषाः । व्रीहियवम् व्रीहियवाः । मृग, रुरुपृषतम् रुरुपृषताः । ऋश्यैणम् ऋश्यैणाः । पक्षिन्, *इंसचक्रवाकम् हंसचक्रवाकाः । तित्तिरिकपिञ्जलम् तित्तिरिकपिञ्जलाः । एकस्यापि पदस्य बहुत्वे भवति । लक्षश्चन्यग्रोधाश्च प्ल क्षन्यग्रोधम् लक्षन्यग्रोधाः, लक्षौ च न्यग्रोधाच लक्षन्यग्रोधम् लक्षन्यग्रोधा इत्यादि । बहुत इति किम् । प्रक्षश्च न्यग्रोधश्च लक्षन्यग्रोधौ । *पुक्षौ च न्यग्रोधौ च, लक्षश्च न्यग्रोधौ चेति वा लक्षन्यग्रोधाः । स्वैरित्येव । लक्षयवाः । गोपृपताः । आरण्याः पशवो मृगा इति मृगाणामपि पशुत्वात् पशुविकल्पेनैव सिद्धे मृगाणामिहोपादानम् *अमृणैश्वहुत्त्रे चैकत्वाभावार्थम् ॥ १३३ ॥ सेनाङ्ग क्षुद्रजन्तूनाम् || ३ | १ | १३४ ॥ सेनाङ्गानां क्षुद्रजन्तूनां च बहुत्वे वर्तमानानां स्वैर्द्वन्द्व एक एकार्थों नित्यं भवति । पृथग्योगादेति निवृत्तम् । सेनाङ्गम् अश्वाथ रथाश्वाश्वरथम् । रथिका श्वारोहम् । हस्त्यश्वम् । विकल्पमिच्छन्ति । हस्त्यश्वम् हस्त्यश्वाः । क्षुद्रजन्तवोऽल्पकायाः प्राणिन आनकुलमिह स्मर्यन्ते । * यूकालिक्षम् । यूकामत्कुणम् । दंशमशकम् । शतश्वश्वोत्पादकाच शतशूत्पादकम् । कीटपिपीलिकम् । बहुत्व इत्येव । सादिनिपादिनौ । अश्वरथौ । यूकालिक्षे । स्वैरिव । हस्तिमशकाः ॥ १३४ ॥
केचित्तु सेनाङ्गानां पशूनां पशुलक्षणं
तरुरिति सामान्येनोक्तेऽपि तरुविशेषा गृह्यन्ते । तेन तरवथ वृक्षाचेति धवाश्थ वृक्षाश्चेति वा कृते इतरेतरयोग एव ॥ - प्लक्षाचेत्यादि । ननु वृत्तौ वत्तिपदार्थानामभेदेकत्वसख्याया एव भावात् कथमंत्र बहुत्वम् । नैवम् । यत्र सख्या भेदप्रतिपत्तौ निबन्धनमस्ति तत्र वतिपदान्यपि तमेव सख्या भेदमुपाददते । बहुत्वपरिग्रहे चात्र एकवद्भावो नियन्धन तत्रैव तस्य भावादित्यदोष ॥ - हंसचक्रवाकमित्यत्र चक्रवाकमित्यत्र चक्र इति वाक आख्या यस्य । अथवा वचन वाकचक्रस्यैव वाको येषा ते चक्रवाका ॥-प्लक्षौ च न्यग्रोधौ चेति । तरुतृणादीना द्वद्वावयवानामेव बहुत्व इति विशेषणात् द्वद्वस्य यहुत्वेऽपि न समाहार ॥ अमृगैरबहुत्वे चेति । यदा ग्राम्यपशूनामरण्यपशुभि सहोक्तिर्भवति तदा माभूदित्यर्थ ॥ - सेनाङ्गक्षुद्र - ॥ अत्रापि सेनाङ्गत्वादिना स्वत्वम् । एषु बहुवचनविचिदन्यत्वख्यापनार्थमित्युपाध्यायसप्रदाय ॥ पृथभ्योगादिति । अन्यथार्थस्य समानत्वात् पूर्वेणैकयोग स्यादित्यर्थ । अत्र यथाश्वरथमिति भवति तथा हस्त्यश्वारोहमिति न स्वकीयत्वाभावात । न च वाच्य सेनाङ्गत्वेन स्वत्वमिति । यतो सेनाङ्गेष्वपि आरोह्याणामारोयेणारोहकाणामारोह केण च स्वत्वमिष्यते । अत्र च न तथेति । एवं प्राणितूर्याद्वाणामित्यत्रापि तूर्याहेषु वा| याना वाद्येन वादकाना वादकेन च स्वत्व दृश्यम् ॥ केचित्वित्यत्र जयादित्य । इद तु 'पशुव्यञ्जनानाम्' इति सूत्रे बहुवचनात्सगृहीतम् ॥ - क्षुद्रजन्तव इत्यत्र क्षुद्रशब्दोऽनेकार्थं । क्वचिदङ्गहीने शीलहीने । शीलहीनेऽत्र वर्त्तते यथा 'क्षुद्राभ्य एरण्या' इति । अत्र हि शीलहीना अग्रहीनाच खियो विज्ञायन्ते । कचित्कृपणे वर्त्तते यथा क्षुद्रो देवदत्त । क्वचिदल्पपरिमाणे । यथा क्षुद्रास्तन्दुला इति । तत्रेह प्रतिषेधविषये आरम्भौपयोगात, क्षुद्रा प्राणिन एवं प्रतिपाद्यन्ते इति जन्तुग्रहणमतिरिच्यते । तस्मात्तदुपादानसामर्थ्यादल्पपरिमाणा प्राणिविशेषा क्षुद्रजन्तुशब्देनोच्यन्ते इत्याह- क्षुद्रजन्त इति । क्षुद्रजन्तुरनस्थि स्वादववा क्षुद्र एव य ॥ शत वा प्रसृतियेपा केचिदा नकुलादपि ॥१॥ क्षुद्रजन्तुरका कालो येषा स्व नास्ति शोणितम् ॥ नाजलियत्सहस्रेण केचिदा नकुलादिति ॥२॥ द्वे अप्येकायें ॥ | आनकुलमिह स्मर्यन्ते इत्यत्र नकुलादारभ्य ये ही काया वा नकुलादयस्ततोऽव्यपचितपरिमाणाश्च यावत, कुन्थव इति क्षुद्रजन्तव शिटे स्मर्यन्ते ॥ - यूकालिक्षमित्यत्र 'ऋजिऋषि ' - इति
******************************