________________
*****
**X**X*XX*X**X**X*X*****
किम् । उष्ट्रयश्च उष्ट्राश्च *उष्ट्राः । छाग्यश्च छागाव *छागाः । व्यावृत्तौ सर्वत्र पूर्वेण पुरुषशेष एव भवति । तन्मात्रभेद इत्येव । *गोवलीवर्दम् । *अजाविकम् ॥ १२७ ॥ *लीबमन्येनैकं च वा ॥ ३ । १ । १२८ ॥ क्लीवं नपुंसकं नाम * अन्येनाक्लीवेन सहोक्तावेकं शिष्यते तन्मात्र भेदे क्लोवाक्लीवमात्र एव चेद्भेदो | भवति । तच्च शिष्यमाणमेकमेकार्थं वा भवति । अर्थस्यैकत्वे तद्विशेषणानामपि तथाभावः । शुक्लं च वस्त्रम् शुक्लश्च कम्बलः तदिदं शुक्लम् ते इमे शुक्ले वा । शुक्तं च वस्त्रं शुक्ल कम्बलः शुक्ला च शाटी तदिदं शुक्लं तानीमानि *शुक्लानि वा । क्लीवग्रहणं किम् । स्त्रीपुंसयोरपि शेषः स्यात् । अन्येनेति किम् । शुक्लं च शुक्लं च शुक्ले | शुक्लं च शुक्लं च शुक्ल च इमानि शुक्लानि । 'स्यादावसंख्येयः ' ( ३-१-११९ ) इत्येकशेषः । अनेन खेकशेषे विकल्पेनैकार्थत्वं प्रसज्ज्येत । तन्मात्र - भेद इत्येव । *महद्धिमं हिमानी । हिमं च हिमानी च हिमहिमान्यौ । महदरण्यमरण्यानी । अरण्यं च अरण्यानी च अरण्यारण्यान्यौ । अक्षाश्च देवनादयः अक्षाणि | चेन्द्रियाणि अक्षाक्षाणि । पद्मश्च नागः पद्मा च लक्ष्मीः पद्मं च जलजं पद्मपद्मापद्मानि । एषु प्रवृत्तिनिमित्तलक्षणार्थभेदोऽप्यस्तीति नैकशेषः ॥ १२८ ॥ * पुष्यार्थी पुनर्वसुः ॥ ३ । १ । १२९ ॥ एकशेषो निवृत्तः । एकमिसनुवर्तते । पुण्यार्याद्रे *नक्षत्रे वर्तमानात्परो भ एव वर्तमानः पुनर्वसुशब्दः सहोतौ गम्यमानाया सामर्थ्यात् व्यर्थः सन्नेक एकार्थो भवति । उदितौ पुष्यपुनर्वसू । अर्थग्रहणं पर्यायार्थम् । तिष्यपुनर्वसू । सिध्यपुनर्वसू । *समाहारे तु पुष्य पुनर्वसु । पुष्यार्थादिति किम् | आर्द्रा पुनर्वसवः। पुनर्वसुरिति किम् । पुष्यमधाः । भ इति किम् । पुष्यपुनर्वसवो माणवकाः । सहोक्तावित्येव । पुण्यः पुनर्वसू येषां ते पुष्यपुनर्वसवो उष्ट्रा इति । केचिदत्रोष्ट्रा न ग्राम्या इत्याहु । तथापि छागा इत्येतदर्थं प्राय इति वक्तव्यम् ॥ अजाविकमित्यत्र अविकशब्द उगादी व्युत्पन्नः ॥ - गोवलीवईमित्यत्र 'पशुव्यजनानाम् ' इति । गजाविकमित्यत्र तु ' गवाश्वादि ' इति चैकत्वम् ॥ - कीवम - ॥ ननु समाहारेतरेतरविवक्षायामेकत्वविकल्पो भविष्यति किमेकग्रहणेन । सत्यम् । इदमेकग्रहण ज्ञापयति यत् अन्यत्रैकशेषे समाहारविवक्षायामपि एकत्व न भवति । लीयापेक्षया अन्यत्वमित्याह — अन्येनाक्लीयेनेति । प्रक्रान्तेनैवैकशेषेणैकप्रयोगस्य सिद्धत्वादेक प्रयुज्यमान क्लीव विज्ञायते । तस्यैकत्व चार्यद्वारकमेव वाग्रहण चैकत्वेनैव सबध्यते न रखेकशेषेणेत्याह - तच्चेत्यादि ॥ - शुक्लानीत्यत्र च क्लीनाक्लीवार्थयोर्भेदात् 'समानाम् ' - इत्येकशेषाभाव ॥ - स्त्रीपुंसयोरपीति । क्लीवग्रहणमन्तरेण यथा क्लीबस्याक्लीवेन सहहॊक्तावेकशेषस्तथा स्त्रीपुसयोरपि स्त्रीपुसाभ्या सह वचने स्यादित्यर्थ ॥ - महदित्यादि । ननु च एतेषु प्रकृतेरेकत्वात् स्त्रीत्वादिलिङ्ग विशिष्टस्यैकस्यैवार्थस्याभिधानात् को भेद इत्याशङ्कयाह – एग्वित्यादि ॥ - पुष्यार्था - ॥ एकशेषो निवृत्त इति । भिन्नसूत्रकरणात इत्यर्थं । अन्यथा क्लीवमन्येनैक च वा पुष्यार्थाद्धे पुनर्वसुश्च नित्यमित्येकमेव योग कुर्यात् ॥ - भे नक्षत्रे वर्त्तमानादिति । एकस्याप्यावृत्त्या उभयस्यापि विशेष| णत्वम् ॥ - समाहारे त्विति । समाहारे त्वेकत्वानेकत्वयोर्नास्ति विशेष इति ॥ पुष्यपुनर्वसवो माणवका इति । पुष्पेण चन्द्रयुक्तेन युक्त काल 'चन्द्रयुक्तात् काले ' इत्यण् एव पुनर्व्वसुब्दादपि । ततो 'लुप्त्वप्रयुक्ते ' इति लुप् । एव कालवृत्तिभ्या पुष्ये जात पुनर्व्वस्वोर्जाताविति भर्तुसध्यादे ' इत्यण् ' बहुलानुराधा ' – इति तस्य लोप । तत पुष्यश्च पुनर्व्वसू चेति द्वद्व ॥— | पुष्यपुनर्वसवो मुग्धा इति । मुग्धा इति मुह्यन्ति जना एष्विति ' अद्यर्थाद्याधारे ' इति क्ते साध्य । ततो येषा पुष्यपुनर्व्वस्वादीना मुग्धाना कोऽर्थ मोहोत्पादकाना मध्ये पुष्य पुनर्व्वसू ज्ञायते | लोकैस्ते पुष्यपुनर्व्वसव मुग्धा इति । कर्त्तरि क्ते तु विपर्यासप्रतिपत्तार पुरुषा उच्यन्ते । तत पुनर्व्वस्वर्थस्यैकत्वेऽपि अन्यपदार्थतया पुरुषवहुत्वे सति बहुवचनमुपपयत एव । अत्रावयवेन ग्रह
K*****
********