SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ श्येन्यौ । एवं हरिण्यौ । रौहिण्यौ । वृक्षश्च वृक्षश्च वृक्षौ । वृक्षश्च वृक्षश्च वृक्षश्च वृक्षाः। स्यादाविति किम् । माता च जननी माता च धान्यरय । मातृमातारी। याता च देवरजाया याता च गन्ता यातयातारौ। अत्र ोकत्र मातरौ यातरावित्यन्यत्र मातारौ यातारौ इति * औकारे रूपं भिद्यते । अन्ये त यस्मिन्स्यादौ ये शब्दास्तुल्यरूपा भवन्ति तस्मिन् स्यादौ तेषां स्याद्यन्तरे विरूपाणामप्येक शेषो भवति । तेन मातृभ्यां मातृभिः मातृभ्यः मात्रोः मातृणां मातृषु इत्याद्यपि भवतीत्याहुः। • अपरे त्वत्रापि वहुवचने ताभिस्तैरित्याद्यनुप्रयोगवैषम्यान भवितव्यमेकशेषेण द्विवचनेन तु ताभ्यां तयोरित्यनुप्रयोगसाम्याद्भवितव्यमेवेत्याहुः। असंख्येय इति किम् । । *एकश्च एकश्च । द्वौ च द्वौ च । चत्वारश्च चत्वारश्च । द्वन्द्वोऽपि न भवसनभिधानात् । संख्येय इति कर्मनिर्देशात्संख्यानवाचिनो भवत्येव । विशतिश्च विशतिश्च विशती। नवतिश्च नवतिश्च नवतिश्च नवतयः । द्वन्द्वापवादोऽयं विधिः । तेनाकृतद्वन्द्वानामवैकशेपे वाक् च वाक् च स्वाचावित्यादि सिद्धम् । अन्यथा द्वन्द्वे कृते परत्वात्समासान्ते कृते बैरूप्यादेकशेपो न भवति ॥११९॥ अत्यदादिः ॥३।१।१२०॥ सदादि-नान्येन च सहोक्तौ त्यदादिरेबैकः शिष्यते । स च चैत्रश्च तौ। यश्च मैत्रश्च यौ । अयं च चैत्रश्च इमौ । कश्च मैत्रश्च को । स्पर्धे परमिति त्यदादीनां मिथः सहोक्तौ यद्यत्पाठे परंतत्तदेवैकं शिष्यते । स च यश्च यौ । यश्च एप च एतौ । अयं च एतौ। स च त्वं च युवाम् । त्वं च भवाश्च भवन्तौ । भवांश्च अहं च आवाम् । अहं च कश्च कौ। अहं च स च त्वं च वयम् । बहुलाधिकारात् कचित् *पूर्वमपि । सिद्धयति ॥ पादा इति । पादोऽहिश्लोकचतर्थाशरश्मिप्रत्यन्तगिरिषु ॥-मापो माने धान्यभेदे मूर्खत्वगदोषभिद्यपि ॥-औकारे रूपं भिद्यत इति । अयमर्थ । 'तस्वस'-इति सूत्रे तृग्रहणेनैव नप्वादिग्रहणे सिद्धे यत्नप्वादीना पृथगुपादान तदेव ज्ञापयति अत्र सूत्रे औणादिकानामेषामेव ग्रहणमिति जननीदेवरजायावाचिनोमार्टयानुशब्दयोरोणादिकयोरौकारे आर् न प्राप्नोति । द्वितीययोस्तु जन्तयोस्त| जद्वारा प्राप्नोतीति रूपभेद ॥ वाचावित्यादीति । अत्र समाहारविषयेऽप्येकशेषे वाग्शब्दात् द्विवचनमेव भवति । कुत 'क्लीपमन्येनैक च वा' इत्यत्र समाहारेतरेतरविवक्षया विकल्पेनकत्वे के सिद्धेऽप्येकग्रहणात । तेन विशेषाभावे सर्वत्र एकशेपे द्विवचनाद्येव भवति ॥ असख्येय इति कोपादानफलमाह -विशतिश्चेत्यादि । असख्येय इति कर्मप्रधानस्य निषेधो विशत्यादयस्तु न | सख्येयप्रधाना विशीतर्गाव इति सख्येयसमानाधिकरणा अपि भवन्ति । सख्येय सख्यानरूपमेवासाद्य तनिष्ठा एव सन्तो भवन्ति न सख्येयरूपनिष्ठा । अत एव विशतिर्गवामित्यसामानाधिकरण्यक्त् सा| मानाधिकरण्येऽपि गुणलिइसख्या एव नैकादिवत् सख्येयलिासख्या इत्यसख्येयवाचित्वादेकशेष ॥ रूपसाम्येऽप्यनेकशब्दस्य सहोक्तौ द्वद्व प्राप्नोतीत्ययमपि तदपवाद एवेत्याह-द्वंद्वापवादोऽयं विधि- Mas रिति ॥-एकश्च एकश्चेति । 'त्यदादि ' इत्यनेनापि न भवत्येकशेष । व्यावृत्तिवलात् । ननु अन्यस्य सख्यावाचिनो व्यावृत्तिश्चरितार्था भविष्यति । नैवम् । व्यावृत्तेर्व्यक्त्या व्याप्त्या वा प्रवृत्ते ॥ -त्यदादिः ॥ अन्येन चेति । सहोक्ताविति वर्तनात सहार्थस्य च द्वितीयमन्तरेणाभावात, द्वितीयो लभ्यते । स च विशेषानुपादानात् त्यदादिरन्यश्च गृह्यते इत्याह-त्यदादिनान्येन चेत्यादि । * | अन्यत्व च प्रत्यासत्तैस्त्यदाद्यपेक्ष्यमेव ॥ स च चैत्रश्चेति । ननु च त्यदादे सामान्यशब्दत्वाचैत्रोऽपि स चेति निर्देष्टु शक्यो न च तावित्युक्ते स च चैत्रश्चेति प्रत्यय फितु स च स चेति तत्र च | स्यादौ सरूपत्वात्पूर्वेणैव सिध्यतीति व्यर्थोऽस्योपन्यास । न व्यर्थ । स च चैत्रश्चेत्येवविवक्षाया द्वद प्रामोतीति । तथा हि-तच्छब्दो यदा चैत्रव्यतिरिक्तार्थपरामर्शति प्रकरणादिनाऽवगत तदा गौरली| वईबत्तचैत्राविति स्याद्वाक्यवत्तच्छब्दस्व वृत्तावप्यपेक्षा प्रतीयते इति द्वद्वनिवृत्तिप्रदर्शनायोऽस्योपन्यास इत्यदोष ॥-पूर्वमपीति । न केवल तावत् स्पर्द्ध यत्पर तच्छिष्यत इति कचिच पूर्वमपीत्यर्थ ।
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy