________________
मा०
लकः । एवं पीत्वास्थिरकः । भुक्त्वामुहितः। मोष्य विप्रयुक्तो भूत्वा पापीयान्निःस्नेहो भवति स *मोष्यपापीपान् । उत्पत्याकाशे भूत्वा या पाकला पाण्डुर्भवति *सोत्पत्यपाकला। निपस भूमौ निपतिता रोहिणी या रक्ता भवति सा निपत्यरोहिणी । निपद्य निषण्णा सती श्यामा जाता निषघश्यामा । अनिषण्णा श्यामा जाता निषण्णश्यामा । उदक चावाक् च उच्चावचम् । उच्चैश्च नीचैश्च उचितं च निचितं चेति वा उच्चनीचम् । आचितं चोपचितं च आचोपचम । आचितं च अवचितं च आचोवचम् । आचितं च पराचितं च अर्वाक् च परस्ताचेति वा आचपराचम् । निश्चितं च प्रचितं च निथप्रचम् । निष्कुषितं च निस्त्वचं च निश्चत्वचम् । न भवति किचन न कचिदुपयुज्यत इति अकिचनम् । नास्य कुतोऽपि भयमस्तीत्यकुतोभयम् । गतप्रत्यागतादयः' गतं च तत्सत्यागतं च गतप्रत्यागतम् । एवं *यातानुयातम् । महान्क्रयोऽल्पः क्रायिका क्रयावयवयोगात् क्रयः क्रयिकावयवयोगात् क्रयिका क्रयश्चासौ क्रयिकाच क्रयक्रयिका समुदायः । एवं पुटापुटिका । *फलाफलिका । मानोन्मानिका । एषु व्यवस्थितपूर्वोत्तरपदसमासः । 'शाकपार्थिवादयः' शाकप्रियः शाकभोजी शाकमधानो वा पार्थिवः पृथोरपयं शाकपार्थिवः । पृथिव्या ईश्वरः पार्थिवः इति वा तेन शाकपार्थिवः । *कुतपवस्त्रसौश्रुतः । सुश्रुतोऽपत्यं सौश्रुतः। कुतपसौश्रुतः। अजापण्यस्तौल्वलिः *अजातौल्वलिः । यष्टिपहरणो यो मौद्गल्यः यष्टिमौद्गल्यः । एवं परशुरामः । घृतप्रधाना रोटिः घृतरोटिः । एवमोदनपाणिनिः । *आणिमाण्डव्यः । बलाकाकौशिकः । *विदर्भीकौण्डिन्यः । सहस्रबाहुरर्जुनः सहस्रार्जुनः। व्यवयवा विद्या त्रिविद्या । एकाधिका दश एकादश । एवं द्वादश । षोडश । एकविंशतिः । द्वाविंशतिः ।
एकशतम् । द्विशतम् । दध्युपसिक्त ओदनो दथ्योदनः । एवं घृतौदनः । गुडमिश्रा धाना गुडधानाः। एवं तिलपृथुकाः । अश्वयुक्तो रथः अश्वरथः। एवं गजरथः। ॐ घृतपूणों घटः घृतघटः । अत्र शाकपार्थिवादिषु प्रियादेरुत्तरपदस्य लोपः । तृतीयो भागः त्रिभागः तृतीयभागः ज्यशः तृतीयांशः पद्भागः षष्ठभागः।
पडंशः षष्ठांशः त्रिदिवं तृतीयदिवम् त्रिविष्टपं तृतीयविष्टपमित्यादिषु पूरणप्रत्ययस्य वा लुग् भवति । तथा सर्वेषां श्वेततरः सर्वेश्चेतः । एवं सर्वमहान् । अत्र
* लात कप् प्रत्यय ॥-पीत्वास्थिरक इत्यत्र तु निपातनात् क ॥-भुक्त्वासुहित इत्यत्र यो यत्किचिदशित्वा तप्तो भवति स एवमुच्यते ॥-उत्पत्यपाकला लताविशेष । एव सर्वत्राप्यभ्यू
ह्यम् ॥-प्रोष्यपापीयानिति । प्रवसते वित्व ययादेशे वृति 'घस्वस ' इति परवे । निपद्यश्यामान्तेषु स्नात्याकालकादिवैकार्थ्याभावात् 'अव्यय प्रवृद्धादिभिः' इति नियमात् क्त्वाप्रत्ययस्याव्ययस्य स मासाप्राप्तावनेनाय समासो निपात्यते ॥-निपण्णश्यामेति । 'विशेषणम्' इति समासे पूर्वनिपातेऽनियम स्यात् ।-निश्चत्वचमित्यत्र त्वचशब्दोऽकारान्तोऽप्यस्ति ।-अकिंचनामति । नत्र
स्वाद्यन्तेन समास आरभ्यमाण समुदायस्यानामत्वात् स्याद्यन्तलाभावानसमासाप्रवृत्तावनेन समास ॥-गतप्रत्यागतमित्यत्र एकदेशस्य प्रत्यागतत्वात् । एव पूर्व वात पश्चादनुयातमितिक यातानुयातम् ॥ फलाफलिकेत्यत्र एषु सर्वेष्वत एव निपातनात् पूर्वपदस्य दीर्घत्वम् । अत्रावयवधर्मेण समुदायव्यपदेशात् सामानाधिकरण्यात विशेषणसमाससितावत्र पाठस्य फलमाह-एप्वि
त्यादि । शाकप्रिय इत्यत्र ॥ कुत्सित तपतीत्यचि कुते सौत्रात् 'भुजिभृति'-इत्यपे वा कुतप मृगाजिन । गोरोममय केचित् कम्बल कुतष विदुस्तद्रास यस्य ||-अजातौल्वलिरित्यत्र तुलण् * उन्माने णिजन्तात् 'तुल्वलादय ' इति किति वलप्रत्यये णिज्लोपे निपातनाद्गुणाभावे तुल्पलस्तस्यापत्यम् 'अत इन्॥- आणिमाण्डव्य इत्यत्र आणिशब्द आटिपर्यायादिषु वर्तते ॥-विदर्भी
॥२५॥