________________
*EKKEEKREKKREKKKKKKEEKKEKKKKKAKEEKS
वीरपुरुषः । 'विशेषणं विशेष्येण '-( ३-१-९६ ) इत्यादिनैव सिद्धे स्पर्धे परमिति पूर्वनिपातस्य विषयमदर्शनार्थमद्रव्यवाचिनोरनियमेन पूर्वापरभावप्रमक्तौ | पूर्वनिपातनियमार्थ वचनम् । तेन पूर्वजरन् वीरपूर्वः *पूर्वपटुः । कथमेकवीर इसादौ वीरादेः परस्य स्पर्धे पूर्वनिपातो न भवति । *बहुलाधिकारात् ॥ १०३ ॥ | *श्रेण्यादि कृताद्यैश्व्य र्थे ॥३।१।१०४॥ श्रेण्यादि नामैकार्थ कृतायेनामभिः सह समस्यते *व्यर्थे गम्यमाने स च समासस्तत्पुरुपसंज्ञः कर्मधा| रयसंज्ञश्च भवति । अश्रेणयः श्रेणयः कृताः श्रेणिकृताः पुरुषाः। अनूका ऊकाः कृता ऊककृताः। राशिस्थानीकृता इयर्थः । एवं पूगकृताः । श्रेणिमताः। श्रेणिमिताः। श्रेणिभूताः। व्यर्थे इति किम् । श्रेणयः कृताः। किचित् निगृहीता अनुगृहीता वेत्यर्थः । व्यन्तानां व्यर्थस्य चिनैवोक्तत्वान्नानेन समासः। व्यर्थे हि समामेनाभिधेयेऽयं समासो भवति । गत्यादिसूत्रेण तु नित्यसमासो भवत्येव । श्रेणीकृताः । ऊकीकृताः। श्रेणि *उक पूग कुन्दुम कन्दम राशि निचय विशिष्ट निर्धन कृपण इन्द्र देव मुण्ड भूत श्रमण वदान्य अध्यायक अध्यापक ब्राह्मण क्षत्रिय पटु पण्डित कुशल चपल निपुण इति श्रेण्यादिः। कृत मत मित भूत उप्त उक्त समाज्ञात समाख्यात समाम्नात संभावित अवधारित अवकल्पित निराकृत उपकृत अपाकृत कलित उदाहुत उदीरित उदित दृष्ट विश्रुत विहित निरूपित आसीन आस्थित अवबद्ध । इति कृतादयः ॥ बहुवचनमाकृतिगणार्थम् । यत्र सामर्थ्य नास्ति तत्रेतिशब्दाध्याहारो द्रष्टव्यः। अनिर्धना निर्धना इत्युपकृता अचपलाश्चपला इत्यपाकृता अभूता भूता इति निराकृताः। *श्रेणिकृता इत्यादौ क्रियाकारक संबन्धमात्रं न विशेषणविशेष्यभाव इति वचनम् ॥ १०४ ॥ *क्तं ननादिभिन्नः॥३।१।१०५॥ *नादयो नमकाराः *तैरेव भिन्नैनामभिः सह क्वान्तं नाकार्य सामयांदनञ् समस्यते स च समासस्तत्पुरुषसंज्ञः कर्म-पूर्वपटुरिति । पूर्वशब्दो दिग्योगेन कालयोगेन वा द्रव्य विशिनष्टि । पटुशब्दश्च पटुत्वेन । तत्र विशेषणसमासे द्वयोरपि गुणवचनविशेषणत्वात् खजकुण्टादिवदनियमेन पूर्वनिपात स्यात्बहुलाधिकारादिति । अत्र सुधाकरस्त्वाह यद्यप्येकवीर इति शिष्टप्रयुक्तस्तथापि शिष्टप्रयोगात्साक्षात् स्मृतिरेव बलीयसीत्यसाधुरेवायमिति ॥–श्रेण्यादि-॥ एकशिल्पपण्यजीविना सघ श्रेणि । व्यर्थ प्रागतत्तत्त्वलक्षण स चेत् सस्य भवति न च्चिप्रत्यय ॥-व्यथै गम्यमाने इति । यद्यप्युत्तरपदार्थप्रधानोऽय समासस्तथाप्युपसर्जनतया च्योऽपि प्रतीयते । उपसर्जनमपि ह्यथा भवति ॥-ऊकेति । अवते 'विचिपुषि'-इति कित, क । कुके कुन्दुम । कन्दु स्वेदनिका मिमीते ले कन्दुम कान्दविक ॥-निचय समूह गन्धद्रव्य च ॥ ब्रह्म अणतीति कर्मणोणि पृषोदरादित्वादकारलोपे दीर्घत्वे च॥-यत्र सामर्थ्य मिति । अथ चपलापाकृता इत्यादी चपलादीना व्यर्थवृत्तीनामपाकृतादिभि सामर्थ्याभावात् कथ समास इत्याशङ्का ॥-श्रेणिकता इत्यादाविति । नन्यत्रापि विशेष्यभावोऽस्ति यत कृता के कर्मतापना श्रेणय तन यतो न हि श्रेणय एवविध विशेषण कितु अश्रेणय श्रेणय इति पश्चात् श्रेणय इत्युक्ते अश्रेणय इत्यपेक्षते इति श्रेणय इति न भवत्येव कितु करणक्रियापेक्षया कारकमेवेति क्रियाकारकसयन्ध एव । यतो यथा नीलोत्पल मिति नील एव विशेषणशब्दोऽस्ति तथात्र श्रेणय एवविधो न यतो अश्रेणय इत्यपेक्षते इति ॥-कं ना-॥ न हि ननादय पठपन्ते इत्यादिशब्द प्रकारवाचीत्याह-ननादयो नमकारा इति । विसमाप्तिवचनोऽन्न नञ् । तेन विसमाप्तिद्योतिनो नप्रकारा । विसमाप्तिश्च ईषनिष्पत्तिरीपदपरिसमाप्तिर्वा गादिभिन्नै रित्यत्र विनाप्येवकारेण तदर्थावगतिरस्ति | सावधारणाधिक्ये भिन्नशब्दस्य वर्तमानत्वात् । यथा देवदत्तो यज्ञदत्तात्स्वाध्यायेन भिन्न इति । अत्र स्वाध्यागनैव भिन्नी विशिष्टोऽधिक इति सर्वमन्यदास्यत्वादि तुल्यमिति प्रतीयते ॥-तैरेवेति । न प्रकृत्या