________________
श्रीहॅमश ॥ २१ ॥
वचनम् । बहुवचनं प्रयोगानुसरणार्थम् ॥ १०० ॥ *उपमानं सामान्यैः ॥ ३ । १ । १०१ ॥ उपमीयतेनेनेत्युपमानम् । उपमानोपमेययोः साधारणो धर्मः सामान्यम् । उपमानवाचि नामैकार्थं सामान्यवाचिभिर्नामभिः सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । शस्त्रीव शस्त्री । शस्त्रो चासौ श्यामा च शखीश्यामा । शखोव श्यामेत्यर्थः । एवं न्यग्रोधपरिमण्डला । शरकाण्डगौरी । शुकहरिणी । कुमुदश्येनी । तडित्पशङ्गी । तित्तिरिकल्मापी । कुम्भकपाललोहिनी । मृगीव मृगी सा चासौ चपला च मृगनपला । एवं हंसगद्गदा । काकवन्ध्या । अत्र शख्यादयः शब्दाः श्यामादयश्च श्यामादिकं गुणमुपादाय यदोपमेये वर्तन्ते तदैकार्था भवन्ति । एवं च पुंवद्भावोऽपि सिद्धो भवति । उपमानमिति किम् । देवदत्ता श्यामा | सामान्यैरिति किम् । अग्निर्माणवकः । गौर्वाहीकः । * फालास्तन्दुलाः । पर्वता वलाहकाः । 'विशेषणं विशेष्येण - ( ३--१-९६ ) इत्येव समासे उपमानोपमेययोः साधारणधर्मप्रतीत्यन्ययानुपपश्यैव पूर्वनिपाते च सिद्धे उपमानं सामान्यैरेवेति *नियमार्थं वचनम् । तेनाग्निर्माणवक इत्यादौ विशेषणसमासोऽपि न भवति ॥ १०१ ॥ *उपमेयं व्याघ्राद्यैः साम्यानुक्तौ ॥ ३ । १ । १०२ ॥ उपमेयवाचि नामैकार्य सामर्थ्यादुपमानवाचिभिर्व्याघ्राद्यैर्नामभिः सह समस्यते साम्यानुक्तौ न चेदुपमानोपमेययोः साधारणधर्मवाची शब्दः प्रयुज्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । व्याघ्र इव व्याघ्रः पुरुषः स चासौ व्याघ्रश्व पुरुषव्याघ्रः । एवं पुरुषसिहः । पुरुषवृषभः । वृषभसिंहः । राज्ञी चासौ व्याघ्री च राजव्यानी । शुनी चासौ सिंही च वसिंदी । अत्रापि कर्मधारयात् पुंवद्भावः । साम्यानुक्ताविति किम् । *पुरुषव्याघ्रः शूर इति मा भूत् । * इदमेव च प्रतिषेधवचनं ज्ञापकम् प्रधानस्य सापेक्षत्वेऽपि समासो भवति । तेन राजपुरुषो दर्शनीय इत्यादि सिद्धम् । व्याघ्र सिंह ऋषभ वृषभ महिप चन्दन टक वराइ हस्तिन् कुञ्जर रुरु पृपत पुण्डरीक पलाविका क्रुञ्चा । बहुवचनमाकृतिगणार्थम् । तेन वाग्वज्रः मुखपद्मं पाणिपल्लवं कर किसलयं वदनेन्दुः पार्थिवचन्द्रः वानरश्वा कुचकुम्भस्तनकलशादयोऽपि भवन्ति । उपमानं सामान्यैरेवेत्यवधारणेन विशेपणसमासे प्रतिषिद्धे समासविधानार्थं वचनम् ॥ १०२ ॥ *पूर्वाप रप्रथमचरमजघन्यसमानमध्यमध्यमवीरम् ॥ ३ । १ । १०३ ॥ पूर्वादीनि नामान्येकार्थानि परेण नाम्ना सह समस्यन्ते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञथ भवति । पूर्वश्चासौ पुरुपच पूर्वपुरुषः । एवमपरपुरुषः । प्रथमपुरुषः । चरमपुरुषः । जघन्यपुरुषः । समानपुरुषः । मध्यपुरुषः । मध्यमपुरुषः । व्देषु पूर्वनिपात एव विशेषणस्य ॥ उपमान || समानस्य भान वर्णद्रादित्यात् व्यण् ॥ फालास्तन्डुला इति । फाला व दीर्घत्वाद्विशदत्वात् रसत्वाद्वा उपमेयमेतन्न पुन साधारणधर्मवाचि । न्यास परिमण्डलाच अनया रीत्या वाक्य कार्यम् । कुमुद ग तद् श्येनी च कुमुदश्येनी ॥ नियमार्थमिति । शीश्वामेत्यादी गुणमुपादाय प्रवर्त्तमानेन शस्त्र्यादिना श्यामादेविशेषणाच्यामशसीत्युक्तेऽपि साधारणधर्म्मप्रतीत्यभावादुपमानस्य समासे पूर्वनिपातेन सिं विधिराभ्यमाणो विध्यसभवान्नियमाथी भवति ॥ उपमेय - ॥ शब्दः प्रयुज्यत इति । यदा प्रकरणादिवशात्रियतसाधारणगुणप्रतिपत्तौ व्याघ्रादिशब्द शोर्यादी पुरुषायें एवं वर्त्तते तदा साम्यानुको सामानाधिकरण्ये सति समासो भवति । यदा तु गुणान्तरव्यवच्छेदाय विशिष्टसाधारण गुणप्रतिपत्तये शूगदिशब्द प्रयोगस्तदा साम्यानुक्तिग्रहणात्समासाभाव ॥ - पुरुषव्याघ्र शूर इति । नत्र या हर इति व्याघ्रपदस्य शूरपदापेक्षयापि समासो भविष्यति हि प्रतिषेधेनेत्याह ॥ इदमेव चेति ॥ - पलाविति । पतेरनि तस्याधिका पानिका पक्षिणी ॥ पूर्वापर - ॥ पूर्व्वपुरुष इत्यादि । दिवाचकत्वेऽपि सूत्रोपादानसामर्थ्यात् समास । न तु दिगधिकमित्यनेन निषेध ॥
Xxexexeex
영영
॥२१॥