________________
हो
नावो धनमस्य अर्धतृतीयानावधनः । समाहारे, *पञ्चानां पूलानां समाहारः पञ्चपूली । एञ्चानां राज्ञां समाहारः पञ्चराजी। एवं पञ्चकुमारि । दशकुमारि P अध्यर्धानां पूलानां समाहारः अध्यर्धपूली। *अर्धपञ्चमपूली । समाहारे चेति किम् । अष्टौ प्रवचनमातरः। विशेषणं विशेष्येण'-इत्यादिनापि न भवति । निय
मार्थत्वादस्य । एकस्य समाहारायोगादपूपेन समासे कथमेकापूपी । एकस्याप्यनेकपर्यायोपनिपातिनोऽनेकत्वसंभवे समाहारोपपत्तेः। द्विगुश्चेति चकारः कर्मधारयतत्पुरुषसंज्ञा*समावेशार्थः । अनाम्नीति किम् । पञ्चर्षीणामिदं पाञ्चर्षम् । एवं दाशार्हम् । अत्र द्विगुत्वेऽनपत्यप्रत्ययस्य लुप् स्यात् । *अयंग्रहणमुत्तरत्र द्विगुश्चेत्यस्याननुवृत्त्यर्थम् । द्विगुपदेशाः 'द्विगोः समाहारात् ' (२-४-२२) इत्यादयः ॥ ९९ ॥ *निन्धं कुत्सनैरपापाद्यैः ॥३।१।१०० ॥ निन्धवाचि | नामैकार्थे पापादिवजितैः कुत्सनौर्नन्दाहेतुभिः सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । वैयाकरणश्वासौ खसूची च वैयाकरणखसूची। asl यः शब्दं पृष्टः सन्निष्पतिभत्वात् खं सूचयति स एवमुच्यते । वैयाकरणखसूचिरित्यन्ये । याज्ञिककितवः । अयाज्ययाजनात्तृष्णापरः। मीमांसकदरूढा RE नास्तिकः । क्षत्रियभोरुः । भिक्षुविटः । मुनिखेटः । ब्राह्मणचेलः । ब्राह्मणवः । राक्षसहतकः। ब्राह्मणजाल्मः । तापसापशदः। *काण्डीरकाण्डपृष्टः। ग्राम्यधृष्टः।
मनिधतः । कविचौरः । *आरक्षितस्करः । पापण्डिचाण्डालः । निन्द्यमिति किम् । वैयाकरणश्चौरः । प्रत्यासचेनिन्धशब्दप्रवृत्तिनिमित्तकुत्सायामयं समास इष्यते।
न चात्र चौर्येण वैयाकरणत्वं कुत्स्यते किं तहि तदाश्रयो द्रव्यम् । वैयाकरणत्वं तदुपलक्षणमात्रम् । तेनात्र विशेषणसमासो भवति । चौरवैयाकरणः। कुत्सनैरिति as किम् | *कुत्सितो ब्राह्मणः । बहुलाधिकाराद्विशेषणसमासोऽप्यत्र न भवति । भवतीत्यन्ये । कुत्सितब्राह्मणः । अपापाचैरिति किम् । पापवैयाकरणः । अणकवैया
करणः । प्रवृत्तिनिमित्तमेव कुत्स्यते । एवं पापकुलालः । अणकनापितः । हतविधिः । दग्धदेवम् । दुष्टामात्याः । क्षुद्रतापस इत्यादि । विशेष्यस्य पूर्वनिपातार्थ | द्यर्थमुत्तरग्रहण कर्त्तव्यमेव अन्यथा द्विगुविषयाभावात् 'कालो द्विगी च मैयै ' इति समासाऽप्रवृत्ति स्यादतो न वाच्य तद्वितविषयेऽप्येषु समासो भविष्यतीति ॥-पञ्चानां पूलानां समाहार इति। समाहार समूह इति सामूहिकप्रत्यय प्राप्नोति । न । समासेनैव तस्योक्तत्वात् । ननु समाहारसमूहयोरेकार्थत्वात्तद्रित इत्येव समासो भविता कि समाहारग्रहणेन | अब तद्वितोत्पत्ति प्राप्नोतीति चेत् उत्प
द्यता द्विगुत्वात् 'द्विगोरनपत्ये'-इति लुप् भविष्यति इति न काचिद् हानिरिति । सत्यम् । परिमाणात्तद्वित' इति नियमात् पश्चपूलीत्यादौ 'द्विगो समाहरात्' इति डोर्न स्यात् । तथा पञ्चकुमारि Rs इत्यादौ ‘डयादगौणस्य'-इति डयादेलोप स्यात् । पञ्चगवमिति ‘वाञ्चलेरलुक ' इत्यधिकृते 'गौस्तत्पुरुषात् ' इत्यट् न स्यात् ॥-अर्द्धपञ्चमपूलीति । सज्ञातद्धितोत्तरपदेषु नित्यसमास । समा
हारे तु विकल्पस्तत्र वाक्यमपि हि भवति । पञ्चाना पूलाना समाहार इति ॥-समावेशार्थ इति । तेन गोस्तत्पुरुषात्पञ्चसर्वविश्वादित्यादि सिद्धम् ॥ अयंग्रहणामिति । यद्ययमिति सूत्राशो न स्यात्ततो यथा कर्मधारयश्चेत्यनुवर्तते तथा द्विगुश्चेत्यप्युत्तरत्रानुवर्ततेति वक्ष्यमाणा अपि समासा द्विगुसज्ञा स्यु । तत परमा नौ परमनौरिति ‘नाव ' इति समासान्त स्यात् । समाहारे दिक्शब्दो | न सभवति । समाहारो हि मूर्तीना युगपत्कालाना सभवति इति समाहारोदाहरण दिग्शब्देन न दर्शितम् । पश च ते मावश्चेत्यपि कृते समासान्तविषयेऽपि कृते समासान्तविषये समासो भवत्येव । तत पञ्चगवा इत्यादयोऽपि ॥-निन्द्यं--काण्डीरकाण्डपृष्ट इति । शवाजीव काण्डस्पृष्ट ॥ आरक्षीत्यत्र 'ग्रहादिभ्यो णिन्'-कुत्सितो ब्राह्मण इति । नहि ब्राह्मण कुत्सनवचन । अपि तु कुत्स्य एवेति व्यावृत्तिवलान समास । ब्राह्मणश्चासौ कुत्सितश्चेत्यपि कृते कुत्सितशब्दस्य पापाद्यङ्गीकारादनेनापि न समास । पापवैयाकरणाणकवैयाकरणयो. पूर्वनिपाते कामचार शेषेषु जातिश