________________
कलविङ्कः आखनिकबकः इत्यादयो गृह्यन्ते ॥ ९१ ॥ * तेन || ३ | १ | ९२ ॥ सप्तम्यन्तं नाम कान्तेन नाम्ना सह समस्यत क्षेपे गम्यमाने तत्पुरुषश्च समा भवति । भस्मनिहुतम् । प्रवाहेमूत्रितम् । उदकेविशीर्णम् । निष्फलं कृतमेवमुच्यते । अवतप्तेनकुल स्थितम् । कार्येष्वनवस्थितत्वमुच्यते । सर्वत्रोपमानेन क्षेपो गम्यते । *नित्यसमासाश्चैते पात्रेसमितादयश्च ॥ ९२ ॥ * तत्राहोरात्रांशम् || ३ | १ | ९३ ॥ * पृथग्योगात्क्षेप इति निवृत्तम् । तत्रेत्येतत्सप्तम्यन्तं नाम हरवयवा रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन नाम्ना सह समस्यन्ते तत्पुरुषश्च समासो भवति । तत्रकृतम् । तत्रभुक्तम् । पूर्वाह्णे कृतं पूर्वाहृणकृतम् । एवमपराह्णकृतम् । पूर्वरात्रकृतम् । अपररात्रकृतम् । तद्धिताद्युत्पत्तिः समासफलम् । तात्रकृतिः । तत्राडोरात्रांशमिति किम् | घंटे कृतम् । कथमन्यजन्मकृतं कर्मेति । 'कारकं कृता' ( ३--१-६६ ) इति तृतीयासमासोऽयम् । अहोरात्रग्रहणं किम् । शुक्लपक्षे कृतम् । पक्षी मामांशः । अंशग्रहणं किम् । अहनि भुक्तम् । एतत्तु ते दिवा वृत्तं रात्रौ वृत्तं तु द्रक्ष्यसि । कथ रात्रिवृत्तम् संध्यागर्जितमिति । बहुलाधिकारात् । तेनेत्येव । तत्र भोक्ता | पूर्वाह्नणे भोक्ता || ९३ || *नाम्नि || ३ | १ | ९४ ॥ सप्त नाम्ना समस्यते नाम्नि संज्ञाविषये समदायश्चेत्संज्ञा भवति स च समासस्तत्पुरुषसंज्ञो भवति । अरण्येतिलकाः । अरण्येमापकाः । *वनेकशेरुकाः । *वनेवल्वजाः । *कूपेपिशाचिकाः । वनेहरिद्र्काः । पूर्वाह्नस्फोटकाः । अपराह्णेस्फोटकाः । तथा स्तूपेशाणः । मुकुटेकार्षापणः । हलेद्विपदिका । *सप्तम्या अलुप् । नित्यसमा - सोऽयम् | नहि वाक्येन संज्ञा गम्यते ॥ ९४ ॥ *कुद्येनावश्यके ॥ ३ । १ । ९५ ॥ सप्तम्यन्तं नाम 'य एच्चातः ' ( १-१-२८) इति कृद्यप्रत्ययान्तेन नाम्ना समस्यते आवश्यकेऽवश्यंभावे गम्यमाने तत्पुरुषश्च समासो भवति । *मासेऽवश्यं देयम् *मासदेयम् । एवं संवत्सरदेयम् । पूर्वाद्गेयम् । मातरध्येयम् । ग्रामदेयम् । नगरदेयम् । कृदिति किम् । मासे पित्र्यम् । य इति किम् । मासे स्तुत्यः । मासे पाच्यर । *मासे दावव्या भिक्षा । संवत्सर कर्तव्यमिति तु बहुलाधिकारात् । आवश्यक इति किम् । मासे देया भिक्षा ॥ २५ ॥ * विशेषणं विशेष्येणैकार्थं कर्मधारयश्च ॥ ३ । १ । ९६ ॥ विशिष्यते ऽनेकप्रकारं - तेन - ॥ - नित्यसमासाश्चैते इति । वाक्यस्य aियाकारकसयन्धमात्रप्रत्यायकतया क्षेपप्रतिपादने सामर्थ्याभावात् समासस्यैव तत्र सामर्थ्यात् ॥ तत्राहोरा - ॥ पृथग्योगादिति । तत्राहोरात्राश च तेनेति चकारादन्यत् नाम ॥ तत्रेति सप्तम्यन्तमिति । सप्तमी साधर्म्यात्रप् प्रत्ययोप्यत्र सप्तमी साधर्म्य पुनखपोऽधिकरणार्थता यथैव त्वधिकरणार्थप्रत्यायनाय सप्तमी प्रयुज्यते तथा पीति ॥ - नानि ॥ अरण्येतिलका इति । तिलप्रकारा मापप्रकारा 'फोण्यादे ' इति क । कशेरुकवल्बज वृक्षविशेषौ तृणे च ॥-पिशाचिका भहारिका ॥ - सप्तम्या अलु विति । अरण्येतिलका इत्यादिषु ' अव्यञ्जनात्' इत्यनेन स्तूपेशाण इत्यादिषु तु 'प्राकारस्य ' इत्यनेन ॥ कृधेना ॥ मासेवश्यमिति । 'यभावो भावलक्षणम्' इति सप्तमी मासे गते देयमिति हि मासादिभावो लक्ष्यते इति अथवा मासाद्यैकदेशे मासादिशब्द इत्याधार एवं सप्तमी । अन्यथा उपचार विना समग्रेऽपि मासे देयमिति यदि विवक्ष्यते तदा 'कालाध्वनोर्व्याप्तौ ' इति द्वितीया स्यात् ॥ - मासदेयमिति । मासस्य पूरके त्रिंशत्तमे दिने देयमित्यर्थ । अयमपि नित्यसमासो यतो न समासे अवश्यशब्दस्याप्रयोग इति न्यास 'तत्पुरुषे कृति' इत्यलुपुप्राप्ती बाहुलकात्सप्तम्या लोप । निरनुरन्धन्यायात क्यप्यणोहणाभावे मासे स्तुत्येत्यादी न समास ॥-मासे दातव्या भिक्षेति । अर्थवद्ग्रहण इति न्यायात् कृत्तव्यप्रत्ययैकदेशस्य यकारस्य न ग्रहणम् ॥-विशेषणं