________________
लत० अ
श्रीहेमश तीर्थशृगालः । अनवस्थित एवमुच्यते । उपमया चात्र क्षेपो गम्यते । क्षेप इति किम् । तीर्थे काकस्तिष्ठति । बहुवचनमाकृतिगणार्थम् ॥ ९० ॥ *पात्रसमिते
*त्यादयः॥३।१।९१ ॥ पात्रेसमितादयः सप्तमोतत्पुरुषा निपात्यन्ते क्षेपे गम्यमाने । पात्र एव समिताः पात्रेसमिताः । एवं पात्रेबहुलाः । गद्देशूरः । गेहे
दाहो । *गेहेक्ष्वेडो । गेहेनौं । गेहेनर्ती । *गेहमेव विजितमनेन गेहेविजिती । 'इष्टादेः' (७-१-१६८) इतीनि 'व्याप्ये तेनः' (२-२-९९) इति सप्तमी । एवं गेहेविचिती । गेहेन्यालः । गेहेपटुः । गेहेपण्डितः । गेहेप्रगल्भः । गोष्ठेशूरः । गोष्ठेक्ष्वेडी । गोष्ठेनर्दी । गोष्ठेविजिती । गोष्ठेव्यालः । गोष्ठेपटुः । गोष्ठेपण्डितः। गोष्ठेमगल्भः । एषु अवधारणेन क्षेपो गम्यते । उदुम्बरे मशक इव उदुम्बरमशकः। एवमुदुम्वरकृमिः। कूपकच्छपः । कूपमण्डूकः । अवटकच्छप । अवटमण्डकः।
*उदपानमण्डूकः । अल्पदृश्चैवमुच्यते । नगरकाकः । नगरवायसः। नगर था। एतैः सदृशो धृष्ट उच्यते । उदुम्बरमशकादिषूपमया क्षेपो गम्यते । गेहेपेहो । पिण्डीॐ शुरः । य आवश्यकार्यमपि बहिर्न निर्गच्छति भोजन एव च संरभते स एवमुच्यते । अत्रावधारणेन निरुत्साहता तया च क्षेपो गम्यते । पितरिशूरः। मातरि
पुरुषः । यः सदाचारं भिनत्ति स एवमुच्यते । अत्र प्रतिषिद्धासेवनेन क्षेपो गम्यते । *गर्भधोरः । गर्भशूरः । गर्भमुहितः । गर्भवतः । गर्भेदृप्तः । योऽलीकाभिमानित्वादनुचितचेष्टः स एवमुच्यते । तत एव च क्षेपो गम्यते । कर्णेटिरिटिरिः । कर्णेचुरुचुरः । कर्णेटिरिटिरा । कर्णेचुरुचुरा । *चापलेनानुचितचेष्टोच्यते । टिरिटिरीति गत्यनुकरणम् चुरुचुर्विति वाक्यानुकरणम् । तत् करोति णिजन्तादप्रत्ययो निपातनसामर्थ्याच्चानो न भवति ॥ इतिशब्दः समासान्तरनिवृत्त्यर्थः । तेन परमाः पात्रेसमिताः, पात्रेसमितानां पुत्रः इत्यादिषु समासो न भवति । निपातनात् सप्तम्या अलुप् । बहुवचनम् *आकृतिगणार्थम् । तेन व्रणकृमिः गृहसर्पः गृह
॥-अनवस्थित इति । यथा काकादिस्तीर्थफलमजानन् अचिरस्थायी भवत्येव यो देवदत्तादि कार्याण्यारभ्य तेष्वनिर्वाहक स तीर्थाधारण काकादिनोपमीयमान क्षिप्यत इत्यस्ति क्षेपस्य गम्यमानतेत्याह अनवस्थितेत्यादि ॥-पात्रेस-|-गेहेक्ष्वेडीति । अिश्विदाड् इति धातौ दिवद. स्याने दिवड केचित् पठन्ति । गेहे एव वेडते ' ग्रहादिभ्यो णिन् । एवमप्रेतनद्वये ॥ोहमेव वि
जितमनेनेति । 'व्याप्ये तेन.' इत्यनेन क्तप्रत्ययान्तात् यस्तवित इन् तदन्तस्य व्याप्ये वर्तमानात्सप्तमी विहितेति प्रथमान्तेन विग्रह । यद्वा अर्थकथनमिद गेहेविजितीत्येव क्रियते ॥-गेहेविचिती कति । गेहमेव विचितं गवेषितमनेन । यथादृष्ट विचिन्वता तेन गवेषयतेत्यर्थ ॥-अवधारणेनेति । पात्रेसमिता इत्यत्र पात्रशब्देन पात्रसहचारिभोजन लक्ष्यते ततो भोजन एव समिता मिलिता. सन्ति 2 2न कार्यान्तरे इत्यवधारणात् क्षेपो गम्यते ॥-उदपानमण्डूक इति । उदक पीयतेऽस्मिन् 'नाम्न्युत्तर'-इति उदादेश ॥ भोजन एवेति । पिण्डीशब्द ख्यापयितव्योपलक्षणमित्युक्तं भोजन एवेति॥* गर्भधीर इति । गर्भ एव स्थैर्यादियुक्तो गर्भानि सृत्य तु चापलादिदोषयुक्त इत्यर्थ ॥-चापलेनान्विति । कणे किमपि जल्पित्वा जीवति नास्य विक्रमाद्गुण इति क्षेपो गम्यते ॥-आकृति
गणामिति । अत्र आकृति सादृश्य तत्प्रधानो गण आकृतिगण । अथवा आकृतिशब्देन जातिरुच्यते सा यथा सकला व्यक्तीप्निोति तद्वत् य प्रचुरशब्दविषय व्याप्नोति स जातिसादृश्यादाकृतिगण ॥सप्तम्या अलुविति । ननु पात्रेसमितेत्यादिकृत्प्रत्ययान्तेषु 'तत्पुरुषे कृति' इति शेषेषु 'अयजनात्-इत्यलुप् प्राप्तस्तत् कि निपाताश्रयेण । सत्यम् । ताभ्या बहुल सज्ञाया चालुबुक्तेत्याह-निपातनादिति ॥
॥१८॥