________________
*********
********
चायिका । *शालभञ्जिका। कस्याश्चित् क्रोडायाः संज्ञा । आजीवे, दन्तलेखकः । नखलेखकः। अवस्करसुदकः । रमणीयकारकः । दन्तलेखनादिरस्याजीवो गम्यते । क्रीडाजीवौ वाक्येन न गम्यते इति नित्यसमासा एते । क्रीडाजीव इति किम् । ओदनस्य भोजकः । पयसः पायकः । 'कर्मजा तृचा च' (३-१-८३) इति प्रतिषेधे प्राप्ते वचनम् ॥ ८१ ॥ *न कर्तरि ॥३।१।८२॥ कर्तरि विहिता या पष्ठी तदन्तं नामाकमत्ययान्तेन नाम्ना न समस्यते । भवतः शायिका। भवत आशिका । *भवतोऽग्रगामिका । कर्तरीति किम् । इक्षुभक्षिकां मे धारयसि । पयापायिकां मे धारयसि ॥ ८२ ॥ *कर्मजा तुचा च ॥३।१। ८३॥ कर्तरीसनवर्तते *तच्चाकस्य विशेषणम् । कर्मणि विहिता षष्ठो कर्मजा । तदन्तं नाम कर्तरि विहितो योऽकप्रत्ययस्तदन्तेन तुजन्तेन च नाम्ना सह न समस्यते ।
ओदनस्य भोजकः । सक्तूनां पायकः । अपा स्रष्टा । पुरां भेत्ता । कर्मजेति किम् । संवन्धपष्ठ्याः प्रतिषेधो माभूत् । गुणो *गुणिविशेषकः । गुणिनः संवन्धी विशेषक इत्यर्थः । कर्तरीत्येव । इक्षुभक्षिकां मे धारयसि । पयःपायिका मे धारयसि । कथं भूभर्ता बज्रभतेति । भर्तृशब्दो यः पतिपर्यायस्तेन संबन्धषष्ठ्या याजकादिपाठात् कर्मषष्ठया वाऽयं समासः । *क्रियाशब्दस्य तु तत्राग्रहणादनेन प्रतिषेधः । भुवो भर्ता । वज्रस्य भर्ता ।। ८३ ॥ *तृतीयायाम ॥३।१। ८४ ॥ कतरि या तृतीया तस्यां सत्यां कर्मजा षष्ठी न समस्यते । आश्चर्यो गवां दोहोऽगोपालकेन । साबिदं शब्दानामनुशासनमाचार्येण । तृतीयायामिति किम् । साध्विदं शब्दानुशासनमाचार्यस्य । साध्वी कटचिकीर्षा चैत्रस्य । कर्तरि पठ्यामपि न समास इति कश्चित् । विचित्रा मुत्रस्य कृतिराचार्यस्य । कर्तरीत्येव । साध्विदं शब्दानु| शासनमाचार्यस्य नः पुण्येन । कर्मजेत्येव । *मैत्रस्य संवन्धी कृतो मैत्रकृतश्चैत्रेण । कथं गोदोहो गोपालकेन । संबन्धषष्ठ्या भविष्यति ॥८४॥ *तृप्तार्थपूरणाव्य| यातशशत्रानशा ॥३।१।८५॥ तृप्ताथैः पूरणप्रत्ययान्तैरव्ययैरतृशन्तैः शत्रन्तैरानशन्तैश्च नामभिः षष्ठ्यन्तं नाम न समस्यते । तृप्ताः , फलानां तृप्तः ।
फलानां सुहितः । सक्तूनां पूर्णः । ओदनस्याशितः। पयसो घ्राणः। पूरण, तीर्थकराणां षोडशः । चक्रधराणां पञ्चमः शान्तिः । चक्रधराणां द्वितीयः सगरः।
वासुदेवानां तृतीयः स्वयंभूः । अव्यय, राज्ञः साक्षात् । *ग्रामस्य पुरस्तात् । चैत्रस्य कृता । मैत्रस्य प्रकृत्य । अव्ययीभावस्याप्यन्वर्थाश्रयणात्कचिदव्ययत्वम् । तेन a चैत्रस्योपकुम्भमित्यत्र समासो न भवतीति केचित् । अतृश्, रामस्य द्विषन् । रावणस्य द्विषन् । शत, चैत्रस्य पचन् । * अध्वगानां धावन्तः शोघ्रतमाः। चैत्रस्य
रछते अपि तु क्रीडाकारिणाम् । उच्यते । अस्या क्रीडाया भजनक्रियाकरणादुपचारात् सापि कर्वी भण्यते । शालशब्दोऽपि तालव्याद्यो वृक्षवाचकोऽस्ति ॥-न कर्तरि ॥-अग्रगामिकेति । कृत्सगतिAS कारकस्येति न्यायादग्रगामिति अस्यापि कृदन्तत्वम् ॥-कर्मजा-॥ तच्चाकस्येति । तृचोऽव्यभिचारात् । 'अफस्यापि ' ग्रह तृच्सन्निहितस्य ॥-गुणीत्यत्र शिखादित्वादिन् ॥-क्रियाशब्द
स्य त्विति ॥ निभौति भरणक्रियामात्रमुपादाय वर्तमानस्येत्यर्थ ॥ पतिपर्यायभर्तृशब्द औणादिकोऽभ्युत्पत्रोऽप्यस्ति ॥-तृतीयायाम् ॥-मैत्रस्य सबन्धी कृत इत्यत्र ओदनोऽन्यो वाऽर्थप्रकरणादिना निर्गत ॥-तृप्तार्थः-॥ तृप्तोऽर्थोऽभिधेयो येषाम् । पूरणेत्यत्र अभेदोपचारात्पूरणप्रत्यया गृह्यन्ते। सति तृप्तसुहितयो 'ज्ञानेच्छा'-इति पूणे कर्मणि क्त । आशिते शील्यादित्वात्क्त । | घ्राणे 'गत्यर्थ ' इति क्त ॥-ग्रामस्य पुरस्तादिति । अव्युत्पन्नमव्यय व्युत्पत्ती तु 'रिरिष्ट'-इति षष्ठया विधानात, समासो न प्राप्नोत्येव । अध्वगानामिति । अत्रापि सबन्धे षष्ठी न नि
*
*
*
***