________________
चेह पठ्यते । देवदेयम् । ब्राह्मणदेयम् । वरपदेया कन्या । इह न भवति ब्राह्मणाय दातव्यम् ॥ ७१ ॥ तदर्थार्थेन ॥३॥ ७२॥ *तस्याश्चतुझं अर्थो यस्य स तदर्थः । चतुर्थ्यन्तं नाम तदर्थेनार्थशब्देन नाम्ना सह समस्यते तत्पुरुषश्च समासो भवति । पित्रे इदं पित्र) पयः। महदर्थं धनम् । उदकार्थो घटः । आ. | तुरार्था यवागूः । ' उर्थो वाच्यवत्' इति वाच्यलिङ्गता । नित्यसमासश्चायम् । चतुर्यैव तदर्थस्योक्तत्वात् अर्थशब्दापयोगे वाक्यासभवात् । *समासस्तु वचनाद्भव
ति । तदर्थेत्ययविशेषणं किम् । पित्रेऽर्थः । मात्रेऽर्थः । तदर्थं धनमित्यर्थः ॥ ७२ ॥ पञ्चमी भयाद्यैः ॥ ३ । १ । ७३॥ पञ्चम्यन्तं नाम भयाद्यैर्नामभिः as सह समस्यते तत्पुरुषश्च समासो भवति । वृकाद्भयम् वृकभयम् । एवं वृकभीतः । भयभोता । भय भीत भीति भी भीरु भीलुक निर्गत जुगुप्सु अपेत अपोढ मुक्त
पतित अपत्रस्त इति भयादयः। आकृतिगणश्चायम् । तेन द्वीपान्तरानीतः स्थानभ्रष्टः तात्परः तपरः इसादि सिद्धम् । बहुलाधिकारादिह न भवति । प्रामादालतितः भोजनादपत्रस्तः ॥ ७३ ॥ तेनासत्त्वे ॥३।१।७४ ॥ असत्वे वर्तमाना या पञ्चमी तदन्तं नाम क्तमत्ययान्तेन नाम्ना सह समस्यते तत्पुरुपश्च समासो भवति । स्तोकान्मुक्तः । अल्पान्मुक्तः । कृच्छ्यान्मुक्तः । कतिपयान्मुक्तः । दूरादागतः । विप्रकृष्टादागतः । अन्तिकादागतः । अभ्याशादागतः । कुन्छाल-* ब्धम् । 'असत्वे उसेः' (३-२-१०) इसलुप् । तेनेति किम् । स्तोकान्मोक्षः । असत्वे इति किम् । स्तोकात् वद्धितः । स्तोकाद्रव्यादित्यर्थः । एवमल्पात् प्रवृ. द्धम् । समासे तद्धिताद्युत्पत्तिः फलम् । स्तौकान्मुक्तिः इसादि ॥ ७४॥ पर शतादिः॥३।१ । ७५ ॥ परःशतादिः पञ्चमोतत्पुरुषः साधुर्भवति । शतात्परे परम्शताः । सहस्रात्परे पर सहस्राः । लक्षालक्षाया वा परे परोलक्षाः। परशब्दस्य पूर्वनिपातः सकारागमश्च निपातनात् । परशब्देन समानार्थः परमशब्दः सकारान्तोऽप्यस्तीत्वन्ये ॥ ७९ ॥ *षष्ठययत्नाच्छेपे ॥ ३ ॥ १ ॥ ७६ ॥ शेषे या षष्ठो तदन्तं नाम नाम्ना सह समस्यते तत्पुरुषश्च समासो भवति । *अयनात, न चेत् स शेषो 'नाथः' (२-२-१०) इसादेयत्नाद्भवति | राज्ञः पुरुषः राजपुरुषः । यतिकम्बलः । राज्ञो गोक्षीरं राजगोक्षीरम् । राजगवीक्षीरम् ॥ ऋद्धस्य राज्ञः पुरुषः, जिनभद्रगणेः क्षमाश्रमणस्य भाष्यमिसादौ सापेक्षखान्न भवति । कथं देवदत्तस्य गुरुकुलम्, जिनदत्तस्य दासभार्येति । सापेक्षत्वेऽपि गमकत्वाद्भवति । अयत्नादिति किम् । सर्पिषो नाथितम् । मातुः स्मृतम् । सर्पिषो दयितम् । मातुरीशितम् । एधोदकस्योपस्कृतम् । चौरस्य रुग्णम् । चौरस्योजासितम् । शतस्य द्यूतम् । शतस्य द्यूतश्चैत्रः। कटकरणस्यायुक्तः। शेष इति किम् । सर्पिषो ज्ञानम् । रुदतः प्रत्रजितः । *मनुष्याणां क्षत्रिय शूरतमः। गवां कृष्णा संपन्नक्षीरतमा । अध्वगानां भवति समासादाशिषोऽनवगमादिति ॥-आत्मनेपदमिति । पचत इत्येवमादीनामात्मा स्वभावस्तदर्थ पद ते आतेइत्यादि आत्मनेपदम् । तिवाद्यवयवापेक्षया प्रकृतिप्रत्ययसमुदाय पचतीत्यादिलक्षण परोऽर्थ| स्तदर्थ तिवादिक पद परस्मैपदम् ॥ तदर्था-||--तस्याश्चतुथ्यो अर्थों यस्येत्युष्ट्रमुखादित्वाद्ध्यधिकरणो बहुनीहिस्ततस्तदर्थश्वासावर्धश्चेति कर्मधारय । यद्वा तस्या अर्थस्तदर्थस्तस्मिन् अर्थस्तेन 2 तदर्थेन ।-समासस्त्विति। पियर्थ इत्यादिसमासे अर्थशब्दप्रयोग इत्यर्थ ॥-पष्ठषय-||-अयत्नान्न चेदिति । तुल्यायोगे यत्नजाया अपि षष्ठया समासो भवति । तुल्यार्थाना याजकादिदृष्टे ॥
-गमकत्वादिति । अवश्यसापेक्षत्वादित्यर्थ ॥-मनुष्याणामित्यादिषु त्रिषु योगेष्वपादानपञ्चमीप्रसक्ती 'सप्तमी चाविभागे' इति षष्ठी ॥-असामादिति । तत्व भूयादिति सापेक्षतात् ॥