________________
याः । अंशिनेत्येव । भिक्षाया द्वितीयं भिक्षुकस्य । भिक्षुकेण समासो न भवति । अभिन्नेनेत्येव । द्वितीयं भिक्षाणाम् । अग्रादिराकृतिगणः ॥ १६ ॥ कालो डिगो मेयः॥३।१।५७ ॥ *अंशाशिनिवृत्तौ तत्संबद्धं वेति निवृत्तम् । कालवाचि नामैकवचनान्तं द्विगौ च विषये वर्तमान मेयवाचिना नाम्ना समस्यते
तत्पुरुषश्च समासो भवति। मासो जातस्य मासजातः। मासजातौ । मासजाताः। मासजाता खो। एवं संवत्सरजातः। मासमृतः। संवत्सरमृतः। द्विगौ, एको मासो जातस्य * एकमासजातः । श्वे अहनी सुप्तस्य । यहसुप्तः । यहाध्यापितः। कथं यहजातः व्यहजातः। समाहारद्विगोर्जातेन काल इत्यंशेन समासेन भविष्यति । इह च यद्यपि
विग्रहे जातादि कालस्य विशेषणम् तथापि * शब्दशक्तिस्वाभाव्यात् समासो जातादिप्रधानस्तन समासे लिङ्ग संख्या च तदीयतदीयमेव भवति । काल इति किम् । द्रोणो धान्यस्य । काल इति चैकवचनं द्विगोः *अन्यत्र प्रयोजकम् । तेन मासौ मासा वा जातस्येत्यत्र न भवति । द्विगौ तु द्वौ त्रयो वा मासा जातस्य द्विमासजातः
त्रिमासजात इत्यपि भवति । द्विगुग्रहणं त्रिपदसमासार्थम् । अन्यथा नाम नाम्नेसनुवृत्तेद्वयोरेव स्यात् । चकारो द्विगुरहितकालपरिग्रहार्थः । मेयैरिति किम् । स्मा* सश्चैत्रस्य । जातादेरेव हि मेयखम् जन्मादेः प्रभृति जातादिसंबन्धिखेनैवादित्यगतेः परिच्छेदात् , न द्रव्यमात्रस्य । तान्तेनैव च मेयेन प्रायेणायं समास इष्यते ।
तेन मासो गच्छतः, वर्षमधीयानस्य, मासो गन्तुं वर्तते इत्यादौ न भवति । अयमपि षष्ठोसमासापवादो योगः ॥ ५७॥ *स्वयंसामी तेन ॥३।११५८॥ * स्वयं सामि इत्येते अव्यये तान्तेन नाम्ना सह समस्येते तत्पुरुषश्च समासो भवति । स्वयंधौतौ पादौ । स्वयंविलोनमाज्यम् । *आत्मनेत्यर्थः । *सामिकृतम् ,
सामिभुक्तम् । अर्घमित्यर्थः । समासे सत्यैकपद्यादेकविभक्तिस्तद्धिताद्युत्पत्तिश्च भवति । खायंधौतिः। सामिकृतिः। सामिकतापनिः। इसादि । तेनेति किम् । स्वयं * कृता । सामि भुक्खा ॥ ५८ ॥ द्वितोया खट्वा क्षेपे ॥३।१। ५९ ॥ खट्वा इत्येतनाम द्वितीयान्त क्षेपे गम्यमाने कान्तेन नाम्ना सह समस्यते
तत्पुरुषश्च समासो भवति । *क्षेपः समासार्थो न वाक्येन गम्यते इति *नित्य एवायं समासः । खट्वारूढः खद्वाप्लुतो जाल्मः । उत्पथपस्थित एवमुच्यते ।
खट्वा पल्यङ्क आचायाँसनं वा । अधोत्य गुरुभिरनुज्ञातेन हि खद्वारोढव्या । यत्त्वन्यथा खट्वारोहणं तदुत्पथप्रस्थानम् । उपलक्षणं चेह खट्वारोहणमुत्पथप्रस्था*॥-कालो द्वि-॥-अशांशिनिवृत्ताविति । कालमेयेरित्यभिनवार्थप्रहणात् । जातोत्तरपदानि मासजात इत्यादीनि पहुनीहावपि सिध्यन्ति । पर मासो मृतस्य मासमृत इत्यत्रान्यपदार्थासभवात् द्विगी मच ह्यासुप्त इत्यादाविति वचनम् ॥-शब्दशक्तिस्वाभाव्यादिति । अन्यथा मासो जाताया इति त्रीत्वविवक्षाया मासजाता इत्यत्र हस्वत्व स्यात् । पूर्वपदप्राधान्याच पवादाप् न स्यात् ॥-द्वे * अहनी सुप्तस्येति । द्वे इति चाहनी इति च नामद्वय सुप्तस्येति नाम्ना समस्यते । ततखिपदे समासे जाते सुप्त इत्युत्तरपदे परे 'सख्या समाहारे च'-इति द्विगुसज्ञाया द्विगुविषये द्वेरुत्तरपदनिमित्ते द्विगो भाविनि त्रयाणा तत्पुरुष ।-अन्यत्र प्रयोजकामिति । अन्यत्र चरितार्थमित्यर्थ । द्विगौ तु द्विवचनाद्यन्तमपि समस्यते इति भाव ॥-मासश्चैत्रस्येति । अत्र न मासचैत्रस्य परिच्छेदकत्वेन
सपन्धी कि तूत्सवास्पदत्वेनान्येन वा प्रकारेणेति ॥-स्वयंसामी-1-धौत इत्यत्र कर्मकर्तरि वा क्त । यत' करणशक्त कर्वशक्तेर्वा वाचक स्वयशब्द ॥-आत्मनेत्यर्थ इति । अत्र करणे 2 कर्तरि वा तृतीया ॥-सामिकृतमित्यन्न विशेषण विशेष्येण '-दत्यनेन कर्मधारयेणैव सिद्धयति पर यदृच्छया पूर्वापरभाव. स्यात्तदाधनार्थमिहोपादीयते ॥-द्वितीया खट्टा-॥-क्षेप समासार्थ