________________
भोजी भिक्षुः । तथा कर्णवेष्टकाभ्यां न शोभते अकार्णवेष्टकिकं मुखम् । 'शोभमाने ' ( ६-२-१०२ ) इतीकण् । वत्सेभ्यो न हितोऽवत्सीयो गोधुक् । ' तस्मै हितः' ( ७-१-३५ ) इतीयः । वधं नार्हत्यवभ्यो ब्राह्मणः । ' दण्डादेर्य : ' ( ६-४-१७८) इति यः । संतापाय न शक्त असांतापिकः सदुपदेशः । ' तस्मै यो | गादेः शक्ते' ( ६-४-९४) इतीकण् । अन्य इत्येव । न विद्यन्ते मक्षिका यत्र सोमक्षिकाकः । मक्षिकाणामभावोऽमक्षिकमिति ॥ ५१ ॥ * पूर्वापराधरोत्तरमभिन्नेनांशिना ॥ ३ । १ । ५२ ॥ अंश एकदेशस्तद्वानंशी | पूर्वादयः शब्दाः सामर्थ्यादेशवाचिनोऽशिना समस्यन्ते अभिन्नेन 'न चेत्सोंऽशी भिन्नः प्रतीयते ' तत्पुरुषश्च समासो भवति । *पूर्वः कायस्य पूर्वकायः । एवम् अपरकायः । अधरकायः । उत्तरकायः । पूर्वादिग्रहणं किम् । दक्षिणं कायस्य । अभिनेनेति किम् । *पूर्व छात्राणामामन्त्रयस्य । *प्रसज्यप्रतिषेधः किम् । पूर्वं पाणिपादस्य । अत्र हि समाहारस्यैकत्वेऽपि पाणिः पाद इति भेदप्रतीतेर्न भवति । पर्वग्राम इत्यादौ तु न |ग्रामशब्दात्प्रासादादिभेदप्रतीतिः । *अंशिनेति किम् । पूर्वो नाभेः कायस्य ॥ ५२ ॥ सायाहूनादयः ॥ ३ । १ ५३ || सायाह्लादयः शब्दा अंशिना तत्पुरुषेण साधवो भवन्ति । *सायमः सायाहः । मध्यमह्नः मध्याह्नः । मध्यं दिनस्य मध्यंदिनम् । मध्यं रात्रेः मध्यरात्रः । *उपारताः पश्चिमरात्रगोचरात् |इत्यादयः । बहुवचनमाकृतिगणार्थम् । पूर्वे पञ्चालाः उत्तरे पञ्चालाः इतिवत्समुदायवाचिनामंशेऽपि मवृत्तिदर्शनात् सामानाधिकरण्ये सति कर्मधारयेणैव सिद्धम् । - अकाण्णवेष्टकिकमित्यादिषु नत्र शुभिकियचैव सन्धान्नाकारस्य वृद्धि एव सर्वोदाहरणेषु ज्ञातव्यम् ॥ नन्विद सूत्र विनाप्यत्राह्मण इत्यादयो विशेषणमित्यनेन कर्मधारयेऽपि सेत्स्यन्ति यतो नन् विशेषणं ब्राह्मणो विशेष्यमिति । उच्यते । पूर्वापरभावनियमार्थं वचनम् । यत्र द्वी गुणशब्दी भक्त तत्रा नियमेन पूर्वनिपात । यथा अखज । नत्र निषेधमात्रे वर्त्तते खजशब्दोऽपि गुणमात्रे इत्यनिय | मेन प्राप्नोतीति वचनम् । प्रसङ्ग कृत्वा प्रतिषेध प्रसज्यप्रतिषेध 'अव्यय प्रवृद्धादिभि स 'हृता गुणैरस्य भवेन वा मुनेस्तिरोहिताश्चित्प्रहरन्ति देवता ॥ कब त्वमी सततमस्य सायका भव न्यनेके जलधेरिवोर्मयः ॥ १ ॥ किगते ॥ अनेके इति । अत्र न एक इति कृत्वा विशेष्यलिङ्गख्या चाश्रित्य अनेक इत्यपि समर्थ्यते उत्पलेन । कचिकशब्दस्यान्यार्थस्य एकशेपादेक इति | साधयित्वा पश्चान्नञ्समास मन्यते ॥ - पूर्वापराध- ॥ पूर्व कायस्येति । पूर्वो भाग कस्मान्नान्यादे कस्य कायस्येति सन्धाद्दिक्पचमी कायशब्दान्न भवति ॥ - पूर्व छात्राणामिति । बहुवचनात् भेदप्रतीति । छात्राणा संबन्धिन कस्मादपि छात्रात्पूर्वमित्यर्थ ॥ प्रसज्यप्रतिषेध किमिति । यद्यत्राभिन्नेन भवतीति पर्युदाल स्यात्तदा समाहारस्यैकत्वादत्रापि समात स्यात् । भिन्नेन न भवतीति प्रसज्यप्रतिषे तु विज्ञायमाने समाहारद्वद्वस्य भेदपूर्वकत्वात भेदनिमित्त प्रतिषेधोऽपीति समासाभाव ॥-अशिनेति किमिति । ननु नाभेर्य पूर्वी भागो व्यवस्थित स कायस्य शोभनो रिक्तो वेत्यायथोऽत्र विवक्षितस्तत्र पूर्वस्य कायापेक्षत्वेनासमर्थत्वादेव नाभ्या सह समासो न प्राप्त किमशिवर्जनेन । सत्यम् । यद्यपि कायापेक्षत्व पूर्वस्य तथापि प्रधानसापेक्षत्वेऽपि वृत्तिर्भवतीति असत्यशिनेत्यस्मिन्नवधिभूतया नाभ्या समास सभाव्येत अमुना कायेनाशिना सह समासो यथाभिवानमस्ति तत प्रवर्त्तते पूर्वकाय नाभेरिति ॥ सायाह्रादय ॥ स्यतेर्धनि औणादिको वा सायशब्द मान्तमव्यय वा ॥ - सायमन इति । ननु सायमशब्देनाऽहरन्त उच्यते इत्युक्तार्थत्वात्सायमद इति विग्रहेऽनुशब्दस्य प्रयोगो न प्राप्नोति । सत्यम् दिनान्ते यानि कार्याणि क्रियन्ते तान्यप्युपचारात्सायमशब्देनोच्यन्ते । तत संदेह किं कार्याण्यभिधीयन्ते उत दिनान्त इत्यहनशब्द प्रयुज्यते । सूत्रसामर्थ्यात् वा तस्मात्त्वदिनान्त एवं लभ्यते ॥ उपारता: पश्चिमरात्रगोचरादपारयन्त पतितु जवेन गाम् ॥