________________
*********
*************
*मगत आचार्य: प्राचार्यः। एवं *प्रान्तेवासी । प्रवृद्धो गुरुः प्रगुरुः । प्रकृष्टो वीरः प्रवीरः । संगतोऽर्थः समर्थः । विरुद्धः पक्षो विपक्षः प्रत्यर्थी पक्षः प्रतिपक्षः प्रतिबद्धं वचः प्रतिवचः। उपश्लिष्टः पतिरुपपतिः। उपपन्नोऽनुकूलः प्रतिकूलो वा नायकः, उपनायकः। अनुनायकः । प्रतिनायकः। अयादयः, अतिक्रान्तः खवाम् अतिखवः । उद्गतो वेलाम् उद्वेलः। प्रतिगतोक्षं प्रत्यक्षः । अनुगतः प्रतिगतो वा लोमानि *अनुलोमः प्रतिलोमः। अभिप्रपन्नो मुखमभिमुखः। अवादयः, अवकुष्टः कोकिलया अवकोकिलः। परिणद्धो वीरुद्भिः परिवीरुत् । संनद्धो वर्मणा संवर्मा । अनुगतमर्थेनान्वर्थं नाम । संगतमक्षेण समक्षम् वस्तु । वियुक्तमर्थेन व्यर्थं वचः । संगतमर्थेन समर्थ पदम् । पर्यादयः, परिग्लानोऽध्ययनाय पर्यध्ययनः । उद्युक्तः संग्रामाय उत्संग्रामः । शक्तः कुमार्यै अलंकुमारिः । शक्तः पुरुषेभ्यः अलंपुरुषीणः । अलंशब्दस्य चतुर्थ्यन्तेन वाक्यमपीच्छन्यन्ये । अलं जोविकायै अलंजीविकः । अलं कुमार्यै अलंकुमारिः । निरादयः, निष्क्रान्तः कौशाम्ब्या निष्कौशाम्विः । अपगतः शाखायाः अपशाखः। अन्तर्गतोऽङ्गुल्या *अन्तरङ्गुलो नखः । उक्रान्ता कुलादुकुला कुलटा । एवमुद्रेलः समुद्रः । उच्छास्त्रं वचः । उत्सूत्रो न्यायः । उच्छृङ्खलः कलभः । अपगतमर्थादपार्थं वचः । एवमपक्रमं कार्यम् । बहुलाधिकारात् षष्ठ्यन्तेनापि । अन्तर्गतो गार्ग्यस्य अन्तर्गाभ्यः । एवमन्तरगुलो नखः । सप्तम्यन्तेनापि । प्रतिष्ठितमुरसि प्रत्युरसम् । गतार्था इति किम् । वृक्षं प्रति विद्योतते विद्युत् । साधुर्देवदत्तो मातरं प्रति । अन्य इत्येव । प्राचार्यको देशः । बहुवचनमाकृतिगणार्थम् ॥ ४७ ॥ * अव्ययं प्रादिभिः ॥ ३ । १ । ४८ ॥ अव्ययं नाम वृद्धादिभिर्नामभिर्नित्यं समस्यते स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । *पुनःमवृद्धं वहिः । पुनरुत्स्यूतं वासः । पुनर्निष्क्रान्तो रथः। पुनरुक्तं वचः। पुनर्नवं वयः । पुनःशृतं पयः । स्वर्यातः । *अन्तर्भूतः । प्रातः सवनम् । उच्चैर्घोषः नीचैर्गतम् । अधस्पदम् ।
*अनद्वापुरुषः । असशक्तः पुरुषः । प्रायश्चित्तम् | सबस्क्रीः । प्राग्वृत्तम् । पुराकल्पः । वःश्रेयसम् । श्वोवसीयसम् । इति । बहुवचनमा कृतिगणार्थम् ॥ ४८ ॥ * स्युक्तं कृता ॥ ३ । १ । ४९ ॥ कृत्मत्ययविधायके सूत्रे उसिना पञ्चम्यन्तेन नानोक्तं स्युक्तम् । तत् कृदन्तेन नाम्ना नित्यं समस्यते स च समासो ऽ
- प्रगत आचार्य इत्यत्र वाक्ये प्रादेयतत्व गम्यमानप्रादेशप्रगतार्थस्य वाचकत्व प्रार्थत्वाद्गतस्य प्राचार्यो देश इति न भवति ॥ प्रान्तेवासीति । अन्ते वसतीत्येव ती 'नताभीक्ष्ये णिन् 'शयवासिवासेषु' – इत्यलुप् ॥ - अनुलोम इति 'प्रत्यन्वव इति अत् समासान्त 'नोपदस्य – इत्यन्त्यस्वरादिलोप ॥ - अन्तरगुल इति । ' सख्याव्ययादङ्गुले ' इति ॥ प्रत्युरसमिनि । 'प्रत्युरस ' इत्यत् समासान्त ॥ अव्ययं प्र - ॥ पुनःप्रवृद्धमिति । कालवाचकात्पुन शब्दात् 'कालाध्वभाव ' इति विकल्पेन द्वितीया सप्तमी वा सर्वत्र । पुन प्रवर्द्धते प्रवृद्धमिति तस्याप्यत्ययत्वादनेनैव नित्यसमासत्वात्ममुदायस्यैवाय पर्यायो भवति । एवमुत्तरेष्वपि । श्रति श्रायति वा पय स्वयमेव तद् श्रयद्वा चैत्रेण प्रयुज्यते स्म तत अन्तर्भूत इत्यत्र अन्तशब्देन मध्यस्थोऽप्युच्यते तदा प्रथमा ॥ - अधस्पदमिति । अथस्थाने पदमित्येव कार्य न त्वधस्तादिति तस्याप्यव्ययत्वात् । अनिर्णयोऽनद्वा तेन पुरुष न विद्यते द्वा सशयोऽस्येति व्युत्पत्वाद्वा धर्मी उच्यते । न अद्वा अनद्वा सशयित पुरुष सतशय पुरुषो वा अनद्वापुरुषः ॥ भ्रातृपुत्रकस्कादित्वात्सत्वे - सद्यस्की ॥ निसच श्रेयम इति श्वश्रेयसम् ॥ - श्वोवसीयसमिति । वसुशब्दान्मती ईयमि विन्मतो ' इति मत्लोपे शोभन वमीय श्वसो नमीयस । अत् ॥ - इस्युक्तं ॥ कृदन्तेनेति । प्रत्यासत्त्या तत्सूत्रविहितनेन ॥ - आप प्राप्तावि
स्मेति कार्य न तु भूय पुन श्रप्यते स्म ॥ -