________________
* याति । रयस्य पश्चादित्यर्थः । एवम् *अनुपादातम् । क्रम आनुपूर्व्यम् । अनुज्येष्ठं प्रविशन्तु । ज्येष्ठानुक्रमेणेत्यर्थः । एवमनुवृद्ध साधूनचय । ख्यातिः
शब्दप्रथा । इतिभद्रबाहु । तद्भद्रबाहु । अहोभद्रबाहु । भद्रबाहुशब्दो *लोके प्रकाशत इत्यर्थः । युगपदेककालार्थ । सचक्र धेहि । चक्रेण सहककालं चक्राणि वा *युगपद्धेहीत्यर्थ । एवं सधुरं प्राजः। सहगर्थे, सवतम् । व्रतस्य सदृशमित्यर्थः । एवं सशीलम् । *सकिखि । सदेवदत्तम् । अव्ययीभावे सहस्य सभावः। *सपत् सिद्धिः । *सब्रह्म साधूनां संपन्नं ब्रह्मेत्यर्थः । सवृत्तं मुनीनाम् । सक्षत्रमिक्ष्वाकूणाम् । साकल्यमशेषता | सतृणमभ्यवहरति । न किचित् त्यजतीत्यर्थः। एवं सतुषम् । अन्तः समाप्तिः । सपिण्डैषणमधीते पिण्डैषणापर्यन्तमधोत इत्यर्थः । एवं *सषड्जीवनिकायमधीते । अत्र समाप्तिरसकलेऽप्यध्ययने प्रतीयत इति साकल्ये *अनन्तर्भावः । पूर्वपदार्थ इत्येव । समुद्धा मद्राः मुमद्रा' । अव्ययमिति किम् । समीपं कुम्भस्य ॥ ३९ ॥ योग्यतावीप्सार्थानतिवत्तिसादरये ॥३।१।४०॥ * एष्वर्थेष्वव्ययं नाम नाम्नैकार्थे पूर्वपदार्थे समस्यतेऽव्ययीभावश्च समासः। योग्यतायाम् , अनुरूप चेष्टते । रूपस्य योग्यां चेष्टां कुरुते । वीप्सायाम् , *प्रत्यर्थ शब्दा - अभिनिविशन्ते । अर्थमर्थ प्रतीत्यर्थः । एवं प्रतिपर्यायम् । वोप्सायां द्वितोयाया विधानात् वाक्यमपि भवति । अर्थमर्थ प्रतीति । अर्थानतित्तिः *पदार्थानतिक्रमः। * यथाशक्ति पठ । शक्तेरनतिक्रमणेत्यर्थः । एवं यथावलम् । नात्र *विन्यासविशेष इति क्रमाद्भेदः । सादृश्ये, सशीलमनयोः । शीलस्य सादृश्यमित्यर्थः । एवं सत्र
तमनयोः । सकिखि । किख्या सादृश्यमित्यर्थः । सगित्यनेनैव सिद्धे *सादृश्यग्रहणं मुख्यसादृश्यपरिग्रहार्थम् ॥ ४० ॥ *यथाऽथा ॥३।१।४१॥ थापत्य
यरहितं यथेत्येतदव्युत्पन्नमव्ययं नाम नाम्ना सहकार्ये नित्यं समस्यते पूर्वपदार्थेऽभिधेये स च समासोऽव्ययीभावः । यथारूपं चेष्टते । रूपानुरूपमित्यर्थ । *यथावृ. ॐ स्यात् तत्र चान्य इत्यधिकारात्समासान्तरप्राप्तावन्यत्वाभावात्तत्पुरुषो न स्यात् ॥-अनुपादातामति । अत्र पदातीना समूह पादाभ्यामतत्यचि वा पादात पादात ॥-लोके प्रकाशते इत्यर्थ इति ।। P अत्रेति तत्अहोअन्ययानि शब्द प्रद्योतयन्ति । अव्ययानामन्यत्रासत्ववृत्तिवेऽपि वृत्तिविषये निष्कौशाम्पिगतिखट्स, प्रकटो विकट इत्यादिवत्सत्त्ववृत्तिदर्शनात् ॥--युगपद्धेहीति । शब्दशक्तिस्वाभाच्याचान्य- | * पदार्थप्रधानोऽयम् ॥-सकिखीति । लोमशिका जीवविशेष. किखि । यस्य लोके लुकटीति प्रसिद्धि । यमगोत्र विशेषश्च ॥-संपत्सिद्धिरिति । सिदिरात्मभावनिप्पत्ति समृद्रिस्त्वऽन्यभावनिष्पत्तिरिति
सिद्धि समुदग्न्या ॥ ब्रह्मण सपत्-सत्रा॥-पिण्डो भक्तामिति पिण्डो भक्तमिष्यतेऽन्विष्यते कल्प्याकल्प्यविभागेन विचार्यतेऽस्मिन्निति 'इषोनिच्छायाम् ' इति व्युत्पते ॥-सषट्जीवनिकायमधीत * इत्यत्र जीवाना निकाया पट् जीवनिकाया यत्र पठितव्ये । अथवा पण्णा जीवाना निकायस्तत षट्जीवनिकायेनान्त षड्जीवनिकाय ग्रन्थमन्त कृत्वा न तु सकलमित्यर्थ ॥-अनन्तर्भाव इति । * * अत्र श्रुतस्कन्धादिन्यपदार्थ । स्वभावात्तत्प्रधानोऽय समास ॥-योग्यतावीप्सा-||-प्रत्यर्थमिति ‘वाऽभिनिविश' इति विकल्पेन कर्मण आधारसज्ञा । समासेन वीप्साया द्योतितत्वात्तन्निमित्ता द्विरु-* तिर्न प्रवर्तते । वाक्ये तु लक्षणादेरनेकस्यार्थस्य द्योत्यस्य सभवाद्विभक्तिमन्तरेण वीप्सा द्योतयितु न शक्येति ॥-पदार्थानतिक्रम इति । पदमुत्तरपद शक्त्यादिरूप तस्वार्थ सामर्थ्य तत्यानतिवृत्ति ॥ -विन्यासविशेष इति । मूर्तस्यानेकस्य पदार्थस्य नियतदेशाद्यपेक्ष व्यवस्थापन विन्यास स एव विशेष ॥ यदि सदृगित्येव कुर्यात्तदा सकिखि देवदत्त इति सामानाधिकरण्यमेव स्यादित्याह-सादश्यग्रहणमित्यादि । तेन देवदत्तस्य सकिखीति वैयधिकरण्यमपि सिद्धम् । सदृग्शब्दो हि धर्मिवाची सादृश्यशब्दस्तु धर्मवाची ॥ यथाऽथा | यथावृद्धमिति । अत्र क्रमोऽपि प्रतीयते तत्कथमुक्त