________________
रथम् प्रमृगम् प्रदक्षिणम् । कालभावलक्षणेऽन्यपदार्थेऽपीत्यन्ये । प्रक्रान्तमहर स्मिन् माहूणम् । प्रगता रथा अस्मिन् रथम् । प्रनष्टा मृगा अस्मिन् प्रमृगम् । प्रकृता | दक्षिणा अस्मिन् प्रदक्षिणम् । अन्यत्र प्रगता मृगा अस्मात् ममृगो देशः । देशेऽप्यन्ये । उत्तरपदार्थप्राधान्ये तु तत्पुरुष एव । माहूणः मरथः प्रमृगः प्रदक्षिणा | ahaar aisa इति वा एकान्तम् । देशेऽन्यपदार्थेऽपीसन्ये । * एवं मान्तं समपक्षम् समानतोर्थम् समानतीरम् । *तथा संप्रत्य संमन्यप्रदक्षिणानि यथासंख्यं वर्तमानावर्तमानवामेषु । तथा युद्धे इजन्तं च । केशाकेशि दण्डादण्डि द्विदण्ड द्विमुसलि । 'तिष्ठदु ' – इत्यत्रेतिशब्दः स्वरूपपरिग्रहार्थः । तेनेह समासान्तरं न भवति । परमं तिष्ठद्भु तिष्ठद्भु प्रियमस्येति वाक्यमेव भवति । अत एव प्रदक्षिणसंप्रतिभ्यां सह नञ्समासेन सिद्धावप्रदक्षिणा मंप्रत्योः पाठः । इजन्तस्य च तिष्ठदुग्वादिपाठ: 'इच् युद्धे' ( ७-३-१४ ) इत्यनेने जन्तस्य समासान्तरमतिषेधार्थ, द्विदण्डचादेरव्ययीभावार्थश्च । अन्य तु परपदेनैव समासं प्रतिषेधन्ति तन्मते परमतिष्ठदु *आतिष्ठङ्गु जपन् सन्ध्यामित्यादयोऽपि साधवः । तिष्ठद्ग्वादिराकृतिगण । तेन ममव्यम् अपसव्यम् *यत्मभृति तत्प्रभृति इतःप्रभृति इत्यादि सिद्धम् ॥ ३६ ॥ *नित्यं प्रतिनाल्पे ॥ ३ । १ । ३७ ॥ अल्पेऽर्थे वर्तमानेन प्रतिना नाम्ना नाम नित्यं समस्यतेऽव्ययीभावश्व समासो भवति । शास् *शाकप्रति । सुपस्य मात्रा सूपमति । अल्प इति किम् । वृक्षं प्रति विद्योतते विद्युत् । नित्यग्रहणं वाक्यनिवृत्त्यर्थम् । तेनान्यत्र समासो वाक्यं च भवति ॥ ३७ ॥ | *संख्याक्षशलाकं परिणा द्यूतेऽन्यथावृत्तौ ॥ ३ । १ । ३८ ॥ संख्यावाचि नामाक्षशलाके च द्यूतविषयेऽन्यथावर्तने वर्तमानेन परिणा नाम्ना सहकार्थ्यं नित्यं समस्यन्तेऽव्ययीभावश्च समासो भवति । वर्तने चैषां कर्तृत्वात्तृतीयान्तत्वम् । अक्षशलाकयोस्त्वेकवचनान्तयोरेवेप्यते । पञ्चिका नाम द्यूतं पञ्चभिरक्षैः शलाकाभिर्वा भवति । तत्र यदा सर्वे उत्ताना अवाञ्च वा पतन्ति तदा पातयितुर्जयः । अन्यथापाते पराजयः । एकेनाक्षेण शलाकया वा न तथावृत्तम् यथा पूर्व जये एकपरि । द्विपरि । त्रिपरि । परमेण चतुष्परि । पञ्चम् त्वेकरूपेषु जय एव भवति । अक्षेणेदं न तथा वृत्तम् यथा पूर्व जये अक्षपरि । शलाकापरि । संख्यादीति किम् । पाशकेन न तथा वृत्तम् । परिणेति किम् । अक्षेण परिवृत्तम् । द्यूत इति किम् । रथस्याक्षेण न तथा वृत्तम् । अन्यथावृत्ताविति किम् । प | ॥ प्राह्णमिति । 'नपुंसकाद्वा' इति विकल्पेनाति प्राप्तहादेश ॥ - एव प्रान्तमिति । प्रगतत्वमन्तस्य प्रगतोऽन्त प्रगतोऽन्तोऽस्मिन्निति वा । समय समानत्व वा पक्षस्य तीर्थस्य तीरस्य eta fear दर्शनीयम् । एव प्रान्तमिति स्वमत परमत चेहापि द्रष्टव्यमित्येवशब्दार्थ ॥ तथा संप्रतीत्यादि । सभूतिरिदानीं न सभूतिरिदानी न प्रकृष्टत्व दक्षिणत्वस्य न प्रगत दक्षिणेनेत्यादिवाक्यानि । तथा द्वी दण्डी] अस्मिन्प्रहरणे द्वे मुसले प्रहरणमस्य द्विदण्ड्यादि । इन् ॥ प्रसव्यमित्यादि । प्रगतत्त्व सव्यस्य सव्याद्वैति वाक्यम् । यस्मात्प्रभृति इति वाक्य यत्प्रभृत्यादिषु । इतिकरणाच कृतापसव्यादिषु समासो न भवति । यत्र च दृश्यते तत्र चिन्तनीयम् ॥ - आतिष्ठद्गु इति । तिष्ठद्गु आ इति स ॥ नित्य प्रति-॥ - शाकप्रतीति । पूर्वार्थ इत्यधिकारेऽप्यसभवादस्योत्तरपदार्थ प्रधान एate समास । अथवाच्ययाना दोषामन्यमहार्दवामन्या रात्रिरितिवद्वृत्तिविषये सत्वप्रधानत्वदर्शनान्मात्रावति प्रतिशब्दस्य वृत्तेरविरोधादस्प सूप इति विग्रह ॥ सख्याक्षशला- ॥ ननु 'नाम नामौका' इत्यत सूत्रात ऐका सतीत्यनुवर्त्तते । तत ऐकावें सति समास ऐकार्थ्यं च ऐकपय तच्च समासे सति भवति । तत इतरेतराश्रयदीये समास कथम् उच्यते । यत्र यत्र येन सूत्रेण समास
*************
************X