________________
३ । १ । ३४ ॥ अनु इत्येतन्नामध्ये आयामविषये यलक्षणं तद्वाचिना नामनेकार्थ्ये सति पूर्वपदार्थेऽभिधेये समस्यते स च समासो ऽव्ययीभावसंज्ञः । अनु गङ्गां दीर्घा अनुग वाराणसी । गङ्गाया लक्षणभूताया आयामेन वाराणस्या आयामो लक्ष्यते । एवमनुयमुनं मथुरा । दैर्ये इति किम् । वृक्षम विद्योतते विद्युत् । लक्षणेनेत्येव | लक्ष्येण वाराणस्यादिना माभूत् ॥ ३४ ॥ *समीपे ॥ ३ । १ । ३५ ॥ अनु इत्येतन्नाम समीपेऽर्थे वर्तमानमर्थात् समीपवाचिना सहैकार्थे सति पूर्वपदार्थेऽभिधेयै समस्यते स च समासोऽव्ययीभावसंज्ञः । अनु वनस्य *अनुवनमशनिर्गता । अनुनृपं पिशुनाः । अनोरव्ययत्वात् 'विभक्तिसमीप '(३।१।३९) इत्यादिनैत्र समासे सिद्धे विकल्पार्थम् । तेन वाक्यमपि भवति । पृथग्वचनं लक्षणेनेत्यस्य निवृत्यर्थम् ॥ ३१ ॥ * तिष्ठद्ग्वित्यादयः || ३|१|३६|| तिष्ठद्गुमभृतयः समासशब्दा अव्ययीभावसंज्ञा भवन्ति यथायोगमन्यपदार्थं पूर्वपदार्थे चाभिधेये । तिष्ठन्ति गावो यस्मिन् काले गर्भग्रहणाय दोहाय वाहाय व रसेभ्यो निवासाय जलपानार्थ वा स कालस्तिष्ठद्गु । वहन्ति गावो यस्मिन् काले स कालो वहद्गु । आयन्ति गावो यस्मिन् स काल *आयतीगवम् । अत्र पूर्वपदस्य पुंवद्भावाभावः समासान्तश्च निपातनात् । एतेऽन्यपदार्थे काले । तथा खले यजा यस्मिन् स कालः खलेयवम् । खलेबुसम् । निपातनात्सप्तम्या अलुप् । लूनवयम्, लुयमानयवम् । पूनयवम् पूयमानयवम् संहृतयवम् संहियमाणयवम् । संहृतवसम्, संहियमाणवसम् । एते प्रथमैकवचनान्ता एवान्यपदार्थे काले । देशेऽपीत्यन्ये । तेन खलेयवं पश्य, खलेयवेन कृतम्, खलेयवे कृतम् इत्यादयः प्रयोगा असाधवः । द्वितीयादिविभक्त्यन्ता अपि एते साधव इत्यन्ये । नाभेरधः अधोनाम् । निपातनादत् समासान्तः । पूर्वपदार्थप्रधानोऽयम् । तथा समत्वं भूमेः समभूमि । एवं समपदाति । पक्षे पूर्वपदस्य मान्तत्वमपि निपात्यते । समभूमि । सदा । एतौ देशकालभावेष्वन्यपदार्येष्वित्यन्ये । उत्तरपदार्थप्राधान्ये तु समा भूमिः समभूमिः समपदातिरिति कर्मधारय एव । तथा शोभनत्वं स मस्य शोभनत्वं समायाः शोभना *समा यत्र सुषमम् । एवं विषमम् । निष्पमं दुष्पमम् अपरसमम् । उत्तरपदार्थप्राधान्ये तु तत्पुरुष एव । शोभना समा सुषमा । शोभने समे सुषमे । समशब्देनान्ययीभाव इत्यन्ये । तथा समाया आयतीत्वम् आयतो समा यत्र आयती समेति वा * आयती समम् । एवं पापसमम् । पुण्यसमम् । समशब्देन तृतीयासमास इत्यन्ये । आयत्या समम् । आयतीसमम् । एवं पापसमम् पुण्यसमम् । तथा प्रकृष्टत्वं चाह· *माइणम्। निपातनादह्रादेशः । एवं प्रविद्योतत इति । अत्र वृक्षो विद्योतनस्य लक्षणत्वं विवक्ष्यते न देस्येति ॥ - समीपे ॥ समीपशब्दोऽव्युत्पन्न वण्णीनुपूर्वीनिर्ज्ञानार्थं च सगता आपो यत्रेति ॥ - अनुवनमशनिर्गतेति । समासाचात्र गमनक्रियाकर्मभृतसामीप्याभिधायकाद अमोऽम्भाव । सप्तमी वा ॥ -- निवृत्त्यर्थमिति । पूर्वे तु अत्रापि लक्षणेनेत्यनुवर्त्तयन्ति । यदुत्पल । अनुशब्द समीपसमपिनोर्लक्ष्यलक्षणसमन्धयोतकस्तथा हि यनसामीप्यगताया अशनेन लक्षणम् ॥ तिष्ठद्द्विति ॥ आयतीगवमिति । इणक आयन्ति शतरि 'हिणोरप्' इति यत्वे वा आयत्या गावो यस्मिन्निति कार्यम् । वृत्तौ त्वर्थकथनमात्रमेत्र पूर्वत्र तिष्ठत्यित्रापि ॥ असाधव इति । द्वितीयायन्ता इति शेष ॥ समा शब्द सवत्सरवाची ॥ आयतीसममिति । अत्र वदा शत्रन्तात् डीस्तदा गणपाठात् पुवद्भावाभाव। यदा त्वायतिशब्दः नित्यकी उपन्तस्तदा पुत्रप्राप्तिर्नास्ति ॥ तृतीयासमास इत्यन्ये इति । तृतीयातत्पुरुष इत्यर्थः ॥ पीयते पुरुषस्ये माहात्म्यमनन पाति रक्षति शुभस्थाने प्रवर्तमान पुरुषमिति वा पापम्
श्री हेमश० ॥ ९ ॥
영영
॥९॥