________________
Snamas
नान्दीघोषः। महीफलम् । महीकरः । महीविशालः । *लोमकागृहम् । लोमकाखण्डः । लेपिकागृहम् । लेपिकाखण्डः। गङ्गाद्वारम् । ब्याप इति किम् । श्रीपुरम् । विष्टापुरम् । उत्तरपद इत्येव । भरिण्याः। रोहिण्याः । नाम्नीति किम् । नदीस्रोतः । खटापादः ॥ ९९ ॥ *त्वे ॥२।४।१००॥ डन्यावन्तस्य त्वे प्रत्यये वहुलं इस्वो भवति । रोहिण्या भावः रोहिणित्वम् रोहिणीत्वम् । अजत्वम् अजात्वं वा ।। १०० ॥ 'भ्रुवोऽच्च कुंसकुट्योः ॥२।४।१०१ ॥ भ्रूशब्दस्य कुंसकुट्योरुत्तरपदयोः परयोईस्वोऽकारश्च भवति । भृकुंसः। भ्रकुंसः । भृकुटिः । भ्रकुटि । भूकुंसभ्रूकुटिशब्दावपीच्छन्त्यन्ये ॥ १०१॥ "मालेषीकेष्टकस्यान्तेऽपि भारितूलचिते ॥२॥४।१०२ ॥ मालाइपीकाइष्टकाशब्दानां केवलानामन्ते वर्तमानानां च भारिन्तूलचितशब्दे पूत्तरपदेपु परेपु इस्वो भवति यथासंख्यम् । मालां विभीत्येवंशीलः मालभारी उत्पलमालभारी । मालभारिणी उत्पलमालभारिणी । इपीकतूलम् मुझेपीकतूलम् । इष्टकचितम् पकेटकचितम् । इदमेवान्तग्रहणं । ज्ञापकम् ग्रहणवता नाम्ना न तदन्तविधिरिति । तेन दिग्धपादोपहतः सौत्रनाडिरित्यादौ पदादेशायनमत्ययादयो न भवन्ति ॥ १०२॥ गोण्या मेये ॥ २।४ । १०३ ॥ गोणीशब्दस्य मानवाचिन उपचारान्मये वर्तमानस्य इस्वो भवति । गोण्या मितो गोणिः । मेय इति किम् गोणी ॥ १०३ ॥ उचादीदतः के ॥२॥४।१०४॥ ङीप्रत्ययस्याकारेकारोकाराणां च के प्रत्यये इस्वो भवति । कुमारिका । पतिका । सोमपकः । कीलालपकः। सोमपिका । कीलालपिका । लक्ष्मिका । तत्रिका । बधुका । यवागुका । ब्रह्मवन्धुका । *डीग्रहणं पुंवद्भाववाधनार्थम् । काकः पाक इत्यादौ तु *प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणमिति न्यायान्न भवति ॥ १०४ ॥ न कचि ॥२।४।१०५॥ यादीतः कषि प्रत्यये परे इस्वो न भवति । वहुकुमारीकः । बहुकीलालपाकः । वहुलक्ष्मीकः । | रोहिणा ' डी गवि वाच्यायां तु 'जातेरयान्त'-इति वा डी । लोमभि. कायतीति लोमका ॥-भरिण्या इति । यद्यनेन इख स्यात्तदा भरिण्या भरिणेरिति रूप स्यात् । इदानी तु भरिण्या इत्येकमेवेष्टम् ॥-त्वे ॥ अथ डयापो बहुल त्वे नानि इत्येकयोग एव कथ न क्रियते । तत्रैव विज्ञास्यते त्वप्रत्यये नानि च ह्रस्वो भवतीति । नैवम् । तत्र युत्तरपद इत्यस्ति ततश्च स्वप्रत्यये नान्नि चोत्तरपदे इस्वो भवतीति विज्ञानाद्रोहिणित्वफलमऽजत्वफलमित्यऽत्र स्यात् । इह न स्याद्रोहिणित्वमजत्वमित्ति पृथगुच्यते ॥-भुवोच्च-॥ ध्रुवौ कुसयति 'कर्मणोऽण्' इति ध्रुव कुटि: कौटिल्य वा। भृकुसभृकुटिशब्दावपि नारायणकण्ठी मन्यते ॥-मालेपी-॥ मालादिभि प्रकृतस्य नाम्नो विशेषणात्तदन्तलाभारकेवलस्य व्यपदेशिवगावान हूस्वसिद्धौ किमर्थमऽन्तग्रहणमिन्याशङ्कायामाह-इदमेवेति ॥-गोण्या-|| विनैव तद्धितेन गोणीशब्दो गोणीप्रमितेऽथै ब्रोह्यादावुपचाराद्वर्त्तते यथा प्रस्थप्रमिते प्रस्थ इति । तस्य चाय ह्रस्व इति सूत्रारम्भ इत्यर्थ । सत्यामपि वा तद्धितलुचि अगोणीसूच्योरिति प्रतिषेधे ‘गोश्चान्ते '-इति च समासे इस्वस्य विज्ञानादिह नास्तीति तदमिदमारभ्यते ॥-यादोदू-॥ सोमापेफेल्यादो इस्वस्य दारदिकेत्यादौ च पिति पुवद्भावस्य सावकाशत्वात्पविकेत्यादौ चोभयप्राप्ती परत्वात्पुबद्भावे पविकेत्यादि न सिध्यतीत्याह-डीग्रहणमित्यादि । डीग्रहणमनवकाशत्वात्पुवद्भाव बाधत इत्यर्थ ॥-प्रत्ययाप्रत्यययोरिति ॥ न्यायान्न भवतीति । ककतेरचि पृपोदराद्यात्वं काक पचन पाको घजि 'तेऽनिट '-इति कत्वम् । अथ कायते पियतेश्च ' भीणशरिवाल'-इति यदा कस्तदा इस्व कमान्न भयति । उच्यते । उणादीणामव्युत्पन्नत्वात् । व्युत्पत्तिपक्षे तु बहुलवचनान्न भवति ॥-न कचि ॥ बहुलक्ष्मीक इत्यत्र एकत्वे ' पुमनडुन्नी '-बहुत्वे तु 'शेपाद्वा' कच् । पूर्वसूत्रे क इति निरनुबन्धे कचि प्राप्तिरेव