________________
औचिती । चातुरी । कातटेण्यणि वाणी । समिध आधाने टेन्यणि 'सामिधेनी । व्यञ्जनादिति किम्। कारिकाया अपत्यं कारिकेयी। हारिकेयी। तद्धितस्येति किम् । वैश्यस्य भार्या वैश्यी। यामित्येव । आवट्या॥८८॥ सूर्यागस्त्ययोरीये चारा४८९॥ अनयोर्यकारस्य ङीप्रत्यये ईयप्रत्यये च लुगू भवति । सूर्यस्य भार्या मानुपी मरी । सूर्यस्येयमित्यणि सौरी प्रभा । अगस्त्यस्येयमागस्ती। सौर्यस्यायं सौरीयः । एवमागस्तीयः। ईये चेति किम् । मर्यो देवतास्य सौर्यः। अगस्त्यस्यायमागस्त्यः | ॥ ८९॥ तिष्यपुष्ययोर्भाणि ॥२।४।९०॥ भस्य नक्षत्रस्य संवन्ध्यण् भाण् यो भात् इत्युल्लेखेन विधीयते । तिष्यपुष्ययोर्यकारस्य भाणि परतो लुग्भवति । तिष्येण चन्द्रयुक्तेन युक्ता तैपी रात्रिः । तैपमहः ॥ पोपी रात्रिः । पौपमहः । तिष्येण गुरुदयवता युक्तः संवत्सरः तैपः संवत्सरः । एवं पौपः । तिष्ये भव. तैपः शिशुः । एवं पौप. । तिष्यपुष्ययोरिति किम् । सिध्येन चन्द्रयुक्तेन युक्तं सैध्यमह । भाणीति किम् । तिष्यो देवतास्य तैष्यश्चरु । पुष्यस्य माणवकस्येदं पौष्यम् । अन्ये तु तिप्यपुष्ययोर्नक्षत्रे वर्तमानयोः सामान्येऽणि नित्यं सिध्यशब्दस्य तु विकल्पेन यलोपमिच्छन्ति तन्मते तिप्यो देवतास्य तैष्य इसत्रापि प्रामोति । तथा सिध्येन युक्तं सैधमहः सैध्यमह , सैधी रात्रिः सैन्यी रात्रिरियपि ॥९॥ 'आपत्यस्य क्यच्च्योः ॥ २ । ४ । ९१ ।। व्यञ्जनात्परस्यापत्यस्य यकारस्य क्ये चौ च परतो लुग्भवति । गाय॑मिच्छति गार्गीयति । एवं वात्सीयति । गार्य इवाचरति 'गागोयते । वात्सायते । अगाग्र्यो गाग्र्यो भूतः गार्गीभूतः । एवं वात्सीभूतः। आपयस्येति किम् । संकाशेन निवृत्तं सांकाश्यं तदिच्छति सांकाश्यीयति । सांकाश्यायते । सांकाश्यीभूतः । व्यञ्जनादित्येव । कारिकेयीयति । कारिकेयायते । कारिकेयीभूतः ॥ ९१ ॥ तद्धितयस्वरेऽनाति ॥२४ । ९२ ॥ व्यञ्जनात्परस्यापत्ययकारस्य यकारादावाकारादिवजिते स्वरादो च तद्धिते लुग भवति । गाग्र्ये साधु. गार्य, । गर्गाणां समूहो *गार्गकम् ।
तद्धितस्य । तद्धितरूपस्येति तु सामानाधिकरण्ये सामिधेनीत्यादौ न स्यात् ॥-औचितीति । उचच समवाये उच्यति समवैति प्रकृत स्वभावै 'क्रुशिपिशि'-इति किदित । वृका शस्त्रजीविनस्तेपा सहति ॥ सामिधेनीति । समिधामाधानी ॥-वैश्यीति । विशति अध्ययनार्थ यज्ञशालायामिति 'शिक्यास्याय'-इति साधु । येषा मते विशोऽपत्यमिति 'विशो जातौ ' इति सूत्रेण व्यणप्रत्यये वैश्यशब्द साध्यते तन्मते यलोप प्रामोत्येव । पतन पत ततोऽन्यत् अपत. तत्र साधु अपत्यम् । एव विदन्त्यनयेति विद्या तामधीते स्त्री अणन्तत्वात् डयां कृद्यकारत्वालोपाभावे वैद्यी। अस्यैव सुप्रसिद्धत्वात्पूर्व बुद्धावुपारोहात् तत्प्रदर्शन न्याय्य न तु वैद्यस्य स्त्री वैद्यीति न्यासकार ॥-सूर्या-|| सौरीयागस्तीयशब्दयो. प्रथम देवतार्थेऽण् । इदमर्थे पश्चादीय ॥-तिष्यपुष्य-॥
तैपः शिशः । अत्र भवायें ‘भर्तु सध्या '-इति अण् । जाताथै तु 'बहुलानुराधा'-इति लुप् स्यात् ॥-अन्ये विति । य आचार्यरतमतिर्नक्षत्र इति तिष्यपुष्ययोर्विशेषण तन्मते इत्यादिना तेपामनिष्टमुद्भावयति । अपत्ये भव आपत्यस्तस्य स्थानसबन्धे पष्ठी ॥-आपत्यस्य-॥-गार्गीयतीति । येन नाव्यवधानमिति न्यायादीकाराऽकारादिना व्यवहितस्यापि यस्य लुक् । गार्गायते इति । यदा गाय॑ इवाचरति कर्तु विपि सछुपि ते प्रत्यये 'क्यः शिति' इति क्य आनीयते तदाऽनेन यलोपो न भवति । चिसाहचर्यात् । यतचिव म्न एव परतो विहितो गृह्यतेऽय तु नामधातोरिति ॥-सांकाश्यीभूत इति । असाङ्काश्यः सासाभ्यो देशो भूत ॥-तद्धितय-1-गार्गकमिति । गर्गस्यापत्यानि यज् तस्य च 'न प्रारजितीये' इत्यनेन निषेधात्