________________
भीमश० ॥ ७२ ॥
पत्यमिति चिदादित्वादञ् । *आर्तभागी। एवमार्ष्टिषेणी । बहुस्वरे इति किम् । दाक्षी । लाक्षी । गुरूपान्त्यस्येति किम् । "औपगवी । कापटवी || अणिजन्तस्य सतो बहुस्वरादिविशेषणं किम् । द्वारस्यापसं पौत्रादि स्त्री इतीजि दौवार्या । तथा उडुलोम्नोऽपत्यमितीनि औडुलोम्या । सारलोम्या | अत्रेजः पूर्वमवहुस्वरत्वे गुरूपान्त्यत्वे च सत्यपीजि सति बहुस्वरत्वाद्गुरूपान्त्यत्वाच्च यथा स्यात् । स्त्रियामित्येव । कारीषगन्धः वाराहिः पुमान् । मुख्यस्येत्येव । वहवः कारी पगन्धा यस्यां सा बहुकारी पगन्धा । निर्वाराहिः । कथं सौधर्मी आयस्तृणी भौलिङ्गी आलम्बी आलची कालची औद्धाहेमांती । गौरादिपाठात् । पित्करणं ' च्या पुत्रपसो ' - (२-४८३ ) इत्यत्र विशेषणार्थम् ॥ ७८ ॥ *कुलाख्यानाम् || २ | ४ । ७९ ॥ पुणिकभुणिकमुखरप्रभृतयः कुलाख्या: कुलमाख्यायते आभिरिति कृत्वा । तासामना वृद्धेऽणिजन्तानामन्तस्य स्त्रियां प्यो भवति । अबहुस्वरागुरूपान्त्यार्थं वचनम् । पुणिकस्यापत्यं पौत्रादि स्त्री पौणिक्या । भौणिक्या । मौखर्या । गौया । वृद्ध इत्येव । पौणिकी । भौणिकी । अत्र प्रथमापत्ये इञ् । अनार्ष इत्येव । गौतमी । गौरादित्वात्तु भौरिकी भौलिकी ॥ ७९ ॥ क्रौडवादीनाम् ॥ २ । ४ । ८० ॥
कन्या कुपूजा ययेति पापो बहुलम् इति ह्रस्व । यद्वा कन्याशब्द के चिपरत खीलिग मन्यन्ते ॥ - आर्तभागीति । ननु च पिवचन एवायमृतभागस्तनानात्वमपि नास्तीति विकत्वम् । सत्यम् । शाखेऽसिन् प्रदेशान्तरेऽपि ऋपिश्रुत्या विहित पिण्यन्धक ' इति प्रत्यय आर्य इति रूढ । अयं तु 'विदादिभ्य इत्येव विहितत्वादनार्ष इति प्रत्युदाहियते । गत प्राप्तो भग पुण्यं येन । अथवा मत्तेन सत्येन भज्यते वा ॥ औपगचीति । उपगता गावोऽस्यानेन वेत्युपगु । बहुकारीपगन्धा निर्वाराहिरित्यत्राणिजन्तस्य स्त्रीवृत्तित्वेऽपि मुख्याधिकारातस्यान्यपदार्थे गुणीभूतत्वेन मुख्यत्वाभाव इति । नन्वेते व्यावादय स्त्रीप्रत्यया स्त्रीत्यस्य वा न तु याचकाः । तत्र यथा विशदादय शब्दा खीप्रत्ययमन्तरेण स्वमहिम्नैव स्त्रीत्व प्रतिपादयन्ति तथा खट्टादयोऽपि प्रतिपादयिष्यन्ति किमेभ्य स्त्रीप्रत्ययविधानेन । उच्यते । विचिनशक्तयो हि भावा भवन्ति । तेन यथा घनतरविभिरनिकर निरुद्ध पदार्थसार्थेऽपि निशीथे गगनतलप्रसृमराशुर चिराशुरितरनिरपेक्षयेवात्मान प्रकाशयति । नचेव स्तम्भादय । तेऽपि चास्मदादीना प्रदीपादिप्रकाशकसव्यपेक्षा आत्मान प्रकाशयन्त्येव । सहिष्टाना तु प्रदीपादिनिरपेक्षा एवं यथा वा सूर्योपाण्चण्डांशुकरनिकरसपर्कसमासादितमाहारम्य स्वय शीतोऽपि सान्तरमधस्थित दाय दहति न तु प्रत्यासन्नं प्रत्युत तन्त्र शैत्यमुपदर्शयति । तथा शब्दा अपि शक्तिवैचिन्याकचिदयेन पदान्तरसापेक्षेण पदान्तरानपेक्षेण च स्त्रीव्य प्रतिपादयन्ति । तत्र पदान्तरसापेक्षेण यथेय गोरित्यादि । अन गवाद्यर्थस्योभयमित्यादयमिति पदान्तरापेक्षेण गवादिपदेन स्त्रीत्व प्रतिपाद्यते । तस्य व्याप्रतिपादने इयमिति न स्यात् । पदान्तरानपेक्षेण नाममागेणादेशप्रत्ययाभ्या च । तन नाममात्रेण यथा स्वसा दुहितेत्यादय । अत्र नाममानमेव स्त्रीत्वप्रतिपत्ती समर्थमिति खीप्रत्ययाभाव । आदेशेन सप्रत्ययेनाप्रत्ययेन च । सप्रत्ययेन क्रोष्ट्री कारीषगन्ध्येति । अप्रत्ययेन तिसः चतरा इति । प्रत्ययेनेकेनानेकेन च । तनेकेन राज्ञी खट्टेति । अनेकेन सान्तरेण निरन्तरेण सान्तरनिरन्तरेण च । सान्तरेण कालितरा हरिणितरेति । निरन्तरेण आर्याणी भवानी सान्तरनिरन्तरेण आयोणितरा । भवानितरेति । तदेवमनेक प्रकारायां लिगमतिपत्तौ नैक प्रकार शक्यो नियन्तुम् । शब्दशक्तिस्याभान्यात् ॥ कुलाख्यानां ॥ कुलमाचक्षते व्यपदिशन्ति यत कुलाख्या । यद्वा कुलमाख्यायते आभिरिति स्थादिभ्य क । बाहुलकात्तीव स्वप्रभवस्यापत्यसतानस्य व्यपदेशिका पुणिक भुणिकमुखरप्रभृतय ॥ - पौणिक्येत्यत्र पुणति मणति अच् गृपोद० । पुणो भुणोऽस्यास्तीति 'अतोनेक ' - इति इक' ॥ - गौरादित्वात्त भौरिकी भौलिकीति । जयमर्थः प्रथममनेन प्राप्तावस्य बाधनार्थ गौरादौ पाठ' ततस्तत्र पाठात् छीरेव केवली माभूदिति कौडयादी पाठ ॥ क्रीडयादीनाम् || फोडस्यापत्यमित्यत्र करोतेर्विहडक होत्यढे अकारस्य निपातनादोकारे ॥
द्वितीयो
॥७