________________
*उपमानसहितसंहितसहशफवामलक्ष्मणायूरोः ॥१७॥ *उपमानादिपूर्वपदादूरुशब्दात खियामूङ प्रत्ययो भवति । करम इव ऊरू यस्याः सा करभो। एवं नागनासोरूः। *कदलीस्तम्भोरुः । साहितोरूः। संहितोरू। सहोरूः । शफोरूः । वामोरू। लक्ष्मणोरूः। उपमानाचादेरिति किम् । वृत्तोरुः । पीनोरुः । *कयं स्वामिन ऊरू स्वाम्यूरू । हस्तिन इव स्वाम्यूरू यस्याः सा हस्तिस्वाम्यूरुः वडवा । एवं करभमारुः । नात्रोरुशब्द उपमानादिपूर्वोऽपि तु स्वाम्यूरुमात्रुवाब्दी ॥ ७॥ नारी सखी पङ्ग श्वश्र॥२।४।७६॥ एते शब्दाः स्त्रियां उयन्ताश्च ऊंङन्ताश्च निपात्यन्ते । नृनरयोङा नारादेशः । नारी । सखिशब्दात्सखशब्दाच्च बहुव्रीहेडौं । सखी। सह खेन वर्तते या सापि सखी। निपातनसामर्थ्यात् धवयोगेऽपि भवति । सख्युः स्त्री सखी। पॉशब्दात् अजातावूङ् । पङ्गः । श्वशुरशब्दाच्च जातिलक्षणे धवयोगलक्षणे च ङीप्रत्यये प्राप्ते ऊङ् उकाराकारयोर्लोपश्च । श्वश्रूः ॥ ७६ ॥ 'यूनस्तिः ॥२।४।७७॥ युवनधाब्दात् स्त्रियां तिः प्रत्ययो भवति । नकारान्तत्वात् ङीप्रत्यये प्राप्ते तदपवादो योगः। युवतिः । यूनीत्यपि कश्चित् । न तच्छिष्टसंमतम् । कथं युवती। यौतेरोणादिककिदतिप्रत्ययान्ताद 'इतोऽक्सर्थात् (२-४-३२) इति डीभविष्यति । मुख्यादित्येव । अतियूनी। नियूनी॥७७|| अनार्षे वृद्धेऽणिो बहुस्वरगुरूपान्त्यस्यान्त्यस्य ष्यः॥२।४७८॥ अनार्षे वृद्धे विहिती यावणिजौ प्रत्ययौ तदन्तस्य सतो बहुस्वरस्य गुरूपान्त्यस्य नान्नोऽन्त्यस्य स्त्रियां ष्य इयादेशो भवति । गुरुग्रहणादनेकव्यञ्जनव्यवधानेऽपि भवति । गुरुग्रहणं हि दीर्घपरिग्रहणार्थम् संयोगपरिग्रहार्थं च । अन्यथा दीर्घोपान्त्यस्येत्युच्येत । करीपस्येव गन्धोऽस्य करीपगन्धिः तस्यापत्यं पौत्रादि स्त्री इसण् । तस्य ष्यादेशः। कारीपगन्ध्या कौमुदगन्ध्या । देवदत्तस्यापत्यं पौत्रादि स्त्री इतीञ् । तस्य प्यादेशः । देवदत्त्या । एवं वाराह्या । बालाक्या । अनार्प इति किम् । वासिष्ठी । वैश्वामित्री । वृद्ध इति किम् । वराहस्य प्रथमापत्यं स्त्री वाराही । अहिच्छत्रे जाता आहिच्छत्री । एवं कान्यकुब्जी । अणिज इति किम् । ऋतभागस्या॥-उपमान-॥ कुत्सितौ अपलक्षणौ ऊरू यस्याः शत्रुपर्यायावेतौ । सहशब्द सक्लिष्टार्थोऽव्युत्पन्नो दन्त्यादिरिति न्यासकृत् । लक्ष्मणादूरोरिति कृते सहिता ऊर हेसहित ऊरुवर्तते इत्यादावपि स्यात् । आदिशब्द पूर्वावयववचनस्तेन च समासलाभादूरोरुत्तरपदत्व गम्यते अत आह-उपमानादिपूर्वपदादिति ॥-नागनासोरूरिति । नगे भवा अणि नागा. । नास्यत इति 'केट:'-इत्यस्याप्रत्यये नासा ॥-कदलीस्तम्भोरुरिति । कदलशब्दागारादित्वात् झ्याम् ॥-कथमिति । यद्यत्रादिग्रहणमकृत्वाऽन्तग्रहण क्रियेत । तदा ऊर्वन्तादिति विज्ञायमाने अत्राप्यूड प्रसज्येत । अस्ति ह्यत्रोपमानात्परोऽयमूर्ध्वन्त. स्वाम्यूरुशब्द" हस्तिस्वान्यूरुरिति ॥-बडवेत्यादि । यथा हस्तिन सबन्धित्वेन स्वाम्यूरू आयातस्तथा वडवाया अपि । एतावता उच्चस्त्वं वडवाया निवेदितम् ॥-नारी सखी-1 पङ्गशब्दादजाताङिति । यद्यप्यय गुणवचनस्तथापि नात्रैकवर्णव्यवहितस्वरात्पर उकार इति 'स्वरादुत '-इत्यमनुष्यजातित्वादप्राणिजातित्वाभावाच्च 'उतोऽप्राणिन -इति वाऽप्राप्तेऽनेनोड् । श्वश्रुरित्यत्र द्वावपि तालव्यौ । अय च यदा श्वशुरशब्द संज्ञाशब्दस्तदा आपि श्वशुरा इत्येव भवति न तु श्वश्रुरिति ॥ यूनस्तिः ॥ युवतिरित्यन्न कीरिति जातिग्रहणे सकृदाधित इति न्यायात्पश्चात् 'इतोऽत्यर्थात् ' इत्यपि न ॥-अना-॥-अन्त्यस्य प्य इति । अणन्तमिजन्त च बहुस्वरं नाम निर्दिष्टमिति निर्दिश्यमानानामिति न्यायेन सकलस्याप्यादेशे प्राप्ते अन्त्यग्रहणमुत्तरार्थम् च तेन 'भोजसूतयो.'इत्यत्रानेकवर्ण. सर्वस्येति न्यायान्न सर्वयोर्मोजसूतशब्दयो प्यादेश ॥-दैवदत्त्येति । शब्दशक्तिस्वाभाव्यात्ष्यादेश आवन्तसहित एवं स्त्रीलिङ्गमभिव्यनक्ति । एवं कारीपगन्ध्येत्यपि ॥-कान्यकुब्जीत्यत्र