________________
डीर्भवति तत्संनियोगे आन् चान्तः। दोप, दृष्टो यवो यवानी। यवानां दोपकारि सहचरितं 'द्रव्यान्तरम् । अप्रसवधर्माणो यवा एवेसन्ये । लिपी यवनानामियं लिपियवनानी । उक्तार्थत्वात 'तस्येदम् । (६-३-१५९ ) इति अण् न भवति । उरुत्वे उर्वरण्यम् अरण्यानी । महत्त्वे महद्धिमं हिमानी । लिपीति किम् । यावनी वृत्तिः। यवनस्य भार्या यवनी । यवारण्यहिमानां तु दोषायभावे स्त्रीत्वमेव नास्तीति न प्रत्युदाहियते । संज्ञायां तु भवत्येव । यया यवना अरण्या हिमा नाम काचित्॥६५॥ आर्यक्षत्रियाद्वा॥२४॥६६॥ आभ्यां स्त्रियां डी; भवति तत्संनियोगे आन्चान्तः। आर्याणी । आर्या । क्षत्रियाणी । क्षत्रिया । अधवयोगेऽयं विधिः। धवयोगे तु विशेषविधानात्पूर्वेण नित्यं डीरेव।आर्यस्य भार्या आयौं । एवं क्षत्रियी । धवयोग एवायं विधिरिति कश्चित् । तन्मते आर्यस्य भार्या आर्याणी। आर्या ।। एवं क्षत्रियाणी भत्रिया । धवयोगादन्यत्र आर्या क्षत्रियेत्येव भवति ॥६६॥ यत्रो डायन् च वा ॥२॥४।६७॥ यञ्प्रत्ययान्तास्त्रियां ङीर्भवति तत्संनियोगे डायन् चान्तो वा भवति । गार्गी । गाायणी । वात्सी । वात्स्यायनी ॥६७ ॥ लोहितादिशकलान्तात् ॥ २।४। ६८ ॥ लोहितादिभ्यः शकलान्तेभ्यो यजन्तेभ्यः स्त्रियां कीर्भवति तत्सनियोगे डायन् चान्तः । लौहित्यायनी । सांशित्यायनी । कात्यायनी । शाकल्यायनी॥६८॥ *षावटादा ॥२४६९॥ पकारान्तानानोऽवटशब्दाच यजन्तात् स्त्रियां वा ङीर्भवति तत्संनियोगे डायन् चान्त । पौतिमाष्यायणी। पौतिमाष्या। शार्कराक्ष्यायणी । शार्कराक्ष्या । गौकक्ष्यायणी। गौकक्ष्या। आवट्यायनी । आवट्या ॥ ६९॥ कौरव्यमाण्डूकासुरेः॥२।४।७०॥ एभ्यः स्त्रियां डीभवति तत्संनियोगे डायन् चान्तः । कौरव्यायणी। माण्डकायनी। आमरायणी ॥ ७० ॥ 'इज इतः ॥२।४।७१ ॥ इन्मययान्तान्नाम्न "इकारान्तात् स्त्रियां कीर्भवति । मुतंगमेन निदृत्तेति इजि सौतंगमी । एवं मौनिवित्ती । इत इति किम् । इआदेशात् प्यान्माभूत् । वराहस्यापत्यं वाराह्या । एवं वालाक्या । कारीपगन्ध्या । कौमुदगन्ध्या ॥ ७१ ॥ 'नुोतेः ॥२।४ । ७२ ॥ नुर्मनुयोतेरचि यवो नन्यादित्यादने च यवन ॥-धवाद्योगादिति च निवृत्तमिति । दोपाद्यर्थविशेषोपादानादिति शेषः ॥-दुष्टो यय इत्यत्र अवयवार्थ एवविधोऽसन्नेव व्युत्पत्तये परिकल्प्यते । यवजातेहि जात्यन्तर यवानीत्यर्थ ॥-द्रव्यान्तरमिति । रालक इत्यर्थः । उरुमहत्त्वयोरेकार्थत्वेऽपि पृथगुपादानं यथासख्यार्थम् ॥ अण् न भवतीति । तद्विपये डीविधानादित्यर्थः ॥-यो डा-॥ डायन् चेत्यत्र डित्करणमासुरायणीत्यत्र प्रयोजनार्थम् ॥-डायन् चान्तो वा भवतीति । साक्षानिर्दिष्टस्य डायन एव वाशब्देन सबन्धो नाऽनुमितेन डीप्रत्ययेन प्रत्यासत्ते । पावटाति सूत्रकरणाद्वा ॥-लोहिता--॥ अन्न यदि यन इति नाधिक्रियते तदा लोहिता इत्यत्र ‘श्यतैत'-इति डीविकल्पपक्षे शकलस्य भार्या शकलीत्यत्र चानेन डी डायन् च स्यात् लौहित्यायनीत्यादी च यजन्तान स्यादत आह-यजन्तेभ्य इति । कायते 'पृपिरजि'-इति कित्यते आकारलोपे च कत. ॥-पावटाद्वा ॥ अन्न डीडायनोरुभयोरनुवर्तनात्प्राधान्यात् डीप्रत्ययेनैव वाशब्दस्य सबन्धो नाऽन्वाचीयमानेन डायनेत्याह-स्त्रियां वा ङीर्भवति ॥-कौरव्य-॥-कौरव्यायणीति । यदा कुरोर्ब्राह्मणस्यापत्य तदा 'कुर्बादेयः' । यदा तु कुरो राज्ञोऽपत्य तदा 'दुनादि'-इत्यनेन । अय चानयोविशेषः दुनादीत्यस्य दिसंज्ञत्वानहुषु लुप् भवति । मण्डूकस्यापत्यं 'पीलासाल्वा'-इत्यण् । असुरस्य ऋपेरपत्यं स्त्री बाहादी ॥-इञ इतः ॥ इकारान्तादिति । तद्वितप्रकरणसाहचर्यात्प्रश्नाख्याने वेमिति इम् न गृह्यते । पूर्वसूत्रे आसुरिग्रहणात् डायन् नानुवर्ततेऽन्यथा इजन्तद्वारेण सिद्धम् । अपत्येपन्तस्य मनुष्यजातिवचनत्वादुत्तरेणैव सिद्धेऽजास्यर्थोऽयमारम्भ ॥-नुर्जाते।