________________
कोयष्टिः । मुख्यादित्येव । बहुश्करा भूमिः । बहुब्राह्मणा शाला । 'कथं सुपी सुपर्णशब्दस्यापि जातिवाचित्वात् । तस्य च मुख्यत्वात् ॥ ५४॥"पाककर्णपर्णवालान्तात् ॥२॥४॥५५॥ जातिवाचिनो नाम्नः स्त्रियां ङीभवति । ओदनस्येव पाकोऽस्या ओदनपाकी । क्षणं क्षणेन वा पाकोऽस्याः क्षणपाकी। आसुकर्णी । शङ्ककर्णी । मुद्गपर्णी । सालपर्णी । गौरिव वाला अस्या गोवाली । अश्ववाली । संज्ञा एता ओषधीजातीनाम् । जातेरित्येव । बहुपाका यवागूः । आसां जातीनां नित्यत्रीरूपत्वात् वचनम् । एवमुत्तरसूत्रत्रयेऽपि ॥ ५५ ॥ 'असत्काण्डमान्तशतकाचः पुष्पात् ॥ २।४।५६ ॥ सदादिरहितशब्दपूर्वो यः पुष्पशब्दस्तदन्ताजातिवाचिनो नाम्नः स्त्रियां कीर्भवति । शङ्खपुष्पी । सुवर्णपुप्पी । हिरण्य पुप्पी । सदादिप्रतिपेध किन् । 'सत्पुप्पा । काण्डपुष्पा। प्रान्त पुष्पा। शतपुष्पा । एकपुष्पा । माक्पुष्पा । प्रत्यक्पुष्पा ॥ ५६ ॥ असंभस्त्रार्जिनकशणपिण्डात्फलात् ॥ २।४।५७॥ समादिवर्जितशब्दपूर्वो यः फलशब्दस्तदन्ताज्जातिवाचिनो नाम्नः स्त्रियां कीर्भवति । 'दासीफली । पूगफली । दाडिमफली । समादिप्रतिषेधः किम् । संफला । भसाफला। अजिनफला । एकफला । एकान्नेच्छन्त्यन्ये । शणफला पिण्डफला । औषधिजातिविशेषाणां संज्ञा एताः॥ ५७॥ · अनमो मूलात् ॥२१४१५८॥ नवजितशब्दपूर्वो यो मूलशब्दस्तदन्ताजातिवाचिनो नाम्नः स्त्रियां ङीर्भवति । 'दर्भमूली । शीपमूली । अनज इति किम् । 'अमूला ॥५८॥धवाद्योगादपालकान्तात् ॥२।४।५९॥धवो भर्ता तद्वाचिनोऽकारान्ताद्योगात् “संवन्धास्त्रियां वर्तमानात्पालकान्तशब्दवर्जितान्नाम्नो ङीर्भवति । प्रष्ठस्य भार्या प्रष्ठी । एवं प्रवरी । गणकी। महामात्री । कुमार्या भवो भर्ता कौमारः । तस्य भार्या 'कौमारी । प्रष्ठादयः शब्दा धववाचिनोऽपि 'योगात्सोऽयामित्यभेदोपचारेण भार्यायां वर्तन्ते । यदा तु ' तस्येदम् । इति व्यतिरेकविवक्षा तदा तद्धितो भवति । पाष्ठी । प्रावरी । धवादिति किम् । परिसृष्टा । प्रजाता। प्रसूता । सर्वत्र विनि ठितगर्भेत्यर्थः । अस्त्यत्र योगस्तेन विना प्रसवाभा
verzumununun
जाति. जातिद्वारेण डी. ॥-आभीरजातिरिति । वैश्यभेद एव । आभीरो गवाद्युपजीवी ॥-कथं सुपणीति । पर्णशब्दस्यैव जातित्व तस्य च कृते समासे अमुख्यत्वमित्यभिप्रायः ॥-पाककर्ण-|-आखुकणीति । आखो कर्ण इव कर्णपत्र यस्याः । शङ्करिव कर्णेऽस्या । मुद्स्येव पर्णान्यस्या । सल गतौ सल्यत इति घणि साल' दन्त्यादि सालस्येव पर्णान्यस्या ॥-असकाण्ड-॥-शह पप्पीति । शङ्खादिवर्ण शहादिशब्दस्तेन शहादि पुप्प यस्या. ॥-सत्पुप्पेत्याद्यत्र सन्ति काण्डे प्रान्ते शतमेकं च पुष्प पुप्पाणि वा यस्या इति विग्रह ॥-प्राक्पुष्पेति । अञ्चतिर्लुप्तधाप्रत्ययान्त । प्राक् प्रत्यक् पुष्प यस्याः ॥-असंभत्रा-॥-दासीफलीति । दासीव पूग दाडिम च फल यस्या इति ॥-संफलेति । सगत भलेव अजिनमेव एक च6 फलमस्या ॥-शणफलेति । शणस्येव फलान्यस्या. ॥-पिण्डफलेति । पिण्डाकाराणि फलान्यस्या ॥ पिण्डफला कटुतुम्बी । यन्निघण्दु कटुकाऽलावुती तुम्बी लज्जा पिण्डफला तथा ॥अनो-॥-दर्भमूलीत्यत्र दर्भस्येव शी च मूलं यस्या. ॥ अमूलेत्यन्न न विद्यन्ते मूलानि यस्या ॥-धवाद्योगा-|-संबन्धादिति । सबन्धश्च सवन्धिनमपेक्षते स च प्रत्यासन्नत्वाद्धवस्यैव विज्ञायते तेन घवेन स्त्रिया सबन्धादित्यर्थ ॥-कौमारीति । कुमारी एवं प्रतीयते ॥-योगात्सोऽयमिति । अन सोऽयमित्यभिसबन्धेन वृत्तिवेदितव्या । न ह्ययमेवाभिसबन्धस्तस्येदमिति कि तु सोऽयमित्यपि । अभेदाच भेदस्य निवृत्तत्वात् तद्धितानुपपत्ति ॥-व्यतिरेकविवक्षेति । प्रष्ठस्येयमिति भेदविवक्षेत्यर्थः ॥-अस्त्यत्र योग इति । परिसर्गप्रसवौ सबन्धनिमित्तौ न च तो