________________
भीमश० ॥६९॥
कराची । ऊढायामिति किम् । यस्या यथाकथंचित्पाणिगृहीते सा पाणिगृहीता । बहुत्रीहा वेवे च्छन्त्यन्ये ॥ ५२ ॥ पतिवत्न्यन्तर्वत्न्यौ भार्यागर्भिण्योः ॥ २ । ४ । ५३ ॥ भार्याऽविधवा स्त्री । तस्यामभिधेयायां पतिमच्छन्दान्डीरस्य च पतिवत्नादेशस्तथा गर्भिण्यां स्त्रियामभिधेयाय । मन्तर्वच्छन्दान्ङीरस्य चान्तर्वत्न | देशो निपात्यते । निपातनादेव च अधिकरणप्रधानादप्यन्तः शब्दान्मत्वर्थीयो मतुर्भवति । भार्येति किम् । पतिमती पृथ्वी । गर्भिणीति किम् । अन्तरस्यां शालायामस्ति ॥ ५३ ॥ " जातेरयान्तनित्यस्त्री शूद्रात् ॥ २ । ४ । ५४ ॥ * जातिवाचिनो ऽकारान्तान्नाम्नः स्त्रियां ङीर्भवति न चेचयान्तं नित्यस्त्रीजातिवाचि शुद्रशब्दो वा भवति । तत्र जातिः काचित्संस्थानव्यया । यथा गोत्वादिः । सकृदुपदेशव्यङ्ग्यत्वे सत्य त्रिलिङ्गान्या । यथा ब्राह्मणत्वादिः । अत्रिलिङ्गत्वं देवदत्तादेरप्यस्तीति सकृदुपदेशव्यङ्गघत्वे सतीत्युक्तम् । गोत्रचरणलक्षणा च तृतीया । यदाहुः- आकृतिग्रहणा जाति लिङ्गानां च न सर्वभाक् ॥ 'सकृदाख्यातनिर्ग्राह्या गोत्रं च चरणै' सह ' ॥ इति ॥ कुक्कुटी । सूकरी । तटी । पात्री । तथा ब्राह्मणी । वृपली । तथा नाडायनी । चारायणी । कठी। बह्वृची। जातेरिति किम् । मुण्डा । शुक्ला । कृता । देवदत्ता । अयान्तोति किम् । इभ्या | क्षत्रिया | वैश्या । आर्या । गवयी । हयी । मुकयी | मनुषी । मत्सी । ऋश्यी । इति गौरादिपाठात् । अन्तग्रहणं साक्षात्प्रतिपत्त्यर्थम् । तेन वतण्डस्यापत्यं पौत्रादि स्त्रीति यन् । तस्य लोपे स्थानिवद्भावेऽपि वतण्डीत्यत्र यान्तलक्षण प्रतिषेधो न भवति । नित्यस्त्रीजातिवर्जनं किम् । मक्षिका । यूका । खट्वा । कथं तर्हि द्रोणी *कुटी । अत्र हि शब्दयोर्नित्यस्त्रीत्वाभावेऽपि द्रोणीकुटीजातेर्नित्यखत्विात्प्रतिषेधः प्राप्नोति । नैवम् । गौरादिपाठाद्भविष्यति । शुद्रवर्जनं किम् । शूद्रा । कथं महाशुद्री आभीरजातिः । नात्र शुद्रशब्दो जातिवाची कि तर्हि महाशुद्रशब्दः । यत्र तु शुद्र एवं जातिवाची तत्र भवसेव ङीनिषेधः । महती चासौ शूद्रा च महाशुद्रेति । जातिलक्षणस्य चायं प्रतिषेधः । तेन धवयोगे भवत्येव । शूद्रस्य भार्या शुद्री | आदित्येव । आसुः । तित्तिरिः।
1
तथा जल सुत्रत्वा लुप् ॥ पतिवन्यन्त ॥ अधिकरणप्रधानादपीति । ' तदस्यास्यस्मिन् ' इत्यन तदिति प्रथमान्तात् विहितत्वेनाप्राप्त इत्यर्थ ॥-जातेरया ॥ जाति सामान्यमभिन्नबुद्विध्यनिप्रसवनिबन्धनमर्थस्तत्र च कार्यासभवात्तद्वाचिनो ग्रहणमित्याह - जातिवाचिन इति ॥ - सकृदुपदेशव्यङ्ग्यत्वे इति । उभयोरपि सबध्यते आकृतिग्रहणेत्यन (अनु) गृह्यतेऽनेनेति आकृति रवयवरचना ग्रहण यस्या ॥-लिज्ञानां चेति । लिङ्गानां सर्व सर्वत्व भजति लिनसमुदाय वा सवं भजते वा ॥ - सकृदाख्यातेत्यत्र सकृदाख्याता सती नियमेन यया ॥-पात्रीति अन्युत्यन्नोऽय ‘हुयामा’-इति व्रप्रत्ययान्तो वा । ग्रन्तस्य तु दिवद्वारा की सिद्ध एव ॥ ब्राह्मणीति । अयमप्यन्युत्पन्न विकमेति निपातो वा । ब्रह्म अगति कर्म्मणोऽणि पोदरादिनिपातेऽपत्याणि वागन्तात् डी सिद्ध एव ॥ - बहूवृचीति । 'नाप्रियादौ' इत्यनेन न पुवन्निषेध । तत्र पूरण्ययन्तस्य ग्रहणात् । यद्यपि कडादयोऽपि ब्राह्मगविशेास्तथापि कठादीनामत्रिवि न यथा कठेन प्रोक्तं वेयधीते वा कठ ब्राह्मणकुलमिति तुर्य जातिलक्षणं विधेयमेव ॥ - कुटीति । मतान्तरेण कुटीशब्दस्य नित्यस्त्रीव स्वमते 'गृहे कुट' इति लक्षगेन पुत्रीयमिति मतान्तरेणेद दर्शितम् ॥ कथं महाशूद्रीति । केवलात् शुद्धात् ख्यां महती चासौ शूमी चेति महाशूद्रीति परस्याभिप्राय | महांथासौ शुद्धश्चेति व्युत्पत्तिमात्रमिदम् । यथा पलिक्नोत्यत्र । वृत्तिनिमित्तं
॥६९