________________
वरच्छन्ना । वसनच्छन्ना । जात्यादेरिति किम् । मासयाता । संवत्सरयाता। बहुयाता। अयाता । सुयाता । मुखयाता । दुःखयाता । पूर्वेणापि न भवति । अस्वाङ्गादित्वात । अकृताधन्तादित्येव । कुण्डकृता । कुण्डमिता । पलाण्डुजाता । वृक्षप्रतिपन्ना ।तादित्येव । शागरप्रिया ॥४७॥ *पत्युनः॥२॥४॥४८॥ *पत्यन्ताबहुव्रीहेः स्त्रियां ङीवो भवति तत्संनियोगेऽन्तस्य नकारादेशश्च । दृढः पतिरस्या दृढपत्नी। दृढपतिः। स्थिरपत्नी । स्थिरपतिः। स्थूलपत्नी स्थूलपतिः । वृद्धपत्नी वृद्धपतिः। मुख्यादित्येव । वहुस्थूलपतिः पुरी । अत्र हि पत्यन्तो बहुव्रीहिमुख्यो न भवति । यस्तु मुख्यः स ' पत्यन्तो न भवति । यदापि स्थलश्चासौ पतिश्चेति कर्मधारये सति बहवः स्थूलपतयो यस्यामिति बहुव्रीहिस्तदापि स्थूलपत्यन्तो वहुव्रीहिर्न पत्यन्त इति न भवति ॥ ४८॥ सादेः ॥२।४ । ४९॥ सपूत्पितिशब्दात स्त्रियां कीर्वा भवति अस्य च नकारोऽन्तादेशः । पूर्वेणैव सिद्धे पुनर्वचनं बहुव्रीहिनिवृत्त्यर्थम् । ग्रामस्य पतिः ग्रामपत्नी ग्रामपतिः । आशापत्नी आशापतिः। अधिष्ठात्री पतिः अधिपत्नी अधिपतिः । ईपदूना पत्नी बहुपतिः बहुपत्नी । सादेरिति किम् । पतिरियम् । ग्रामस्य पतिः इयम् । मुख्यादिवेव । अतिक्रान्ता पतिमतिपतिः । गौणादपीच्छन्त्यन्ये । अतिपत्नी अतिपतिः । यदा तु पत्नीशब्दस्य पष्ठयन्तेन समासस्तदा राजपत्नी शूद्रपत्नीत्यायेव भवति ॥ ४९॥ "सपत्न्यादौ ॥२॥४॥ ५० ॥ सपल्यादौ यः पतिशब्दस्तस्मात् स्त्रियां डीभवति नकारश्चान्तादेशः । पुनर्विधानं नित्यार्थम् । समानः पतिरस्याः समानस्य पतिरिति वा सपत्नी । एवमेकपत्नी । वीरपत्नी । पिण्डपत्नी । भ्रातृपत्नी । पुत्रपत्नी । पडेते सपल्यादयः । समुदायनिपातनं समानस्य *सभावार्थम् पुंबद्भावप्रतिपेधार्थ च । सपत्नीभार्यः । सपल्या अयं सापत्नः ॥ ५० ॥ ऊढायाम् ॥२।४ । ५१ ॥ पत्युः 'केवलादृढायां परिणीतायां स्त्रियां डीभवति नकारश्चान्तादेशः । पत्नी । यजमानस्य पत्नी । पलस्य पत्नी । ऊढायमिति किम् । पतिरियं “संगृहीता 'अभार्या चेत्यर्थः॥५१॥ पाणिगृहीतीति॥२॥४॥५१॥ इति शब्दः 19 प्रकारार्थः । पाणिगृहीतीप्रकाराः शब्दा ऊढायां स्त्रियां ड्यन्ता निपात्यन्ते । पाणिग्रहीतोऽस्याः पाणौ वा गृहीता पाणिगृहीती । एवं करगृहीती । पाण्याची। निपिध्यते ॥-वृक्षप्रतिपन्नेति । वृक्षात्प्रतिपन्नमनया ॥-शाइरप्रियेति । शाझर प्रियमत्याः ॥-पत्युनः ॥ पत्युरिति पञ्चम्यन्तमधिकृतस्य बहुचीहे विशेपण तेन च तदन्तविधिरित्याहपत्यन्तादिति ॥-बहुस्थूलपतिः पुरीति । स्थूला. पतयो यासा तास्थूलपतय इति कृते पत्यु इति नविकल्पनात् बहवः स्थूलपतयो यस्याम् ॥-मुख्यो न भवतीति । द्वितीयेन बहुबीहिणा बाधितत्वात् ॥-पत्यन्तो न भवतीति । कि तर्हि स्थूलपत्यन्त. ॥-सादेः ॥ सह विद्यमानवचनो न तु तुल्ययोगवचन सपन्यादाविति निर्देशात् । तुल्यायोगे हि पूर्वेण शब्देन सह पतिशब्दत्य नकारो भवतीति सूत्रार्थे सपनीति निर्देशो न स्यात् । ननु सादे पत्युन इत्येकयोगो विधीयतां सादित्वेन बहुबीहावपि अन्यसिन्वा भविष्यति । नेयम् । मुख्यादित्यधिकारात् सादावेव स्पात् न तु बहुवीही । पृथग्योगे तु पूर्वसूत्रे मुख्यादिति बहुमीहिसमासस्यैव विशेषण न पत्यु ॥-सपल्यादौ ॥-सभावार्थमिति । धादिषु पतीशब्दस्यापाठादित्यर्थ ॥-पुंवद्भावप्रतिषेधार्थ चेति । 'परतः सी'-इति 'जातिश्च णि '-इनि च प्राप्तस्य ॥-ऊढायाम् ॥ याऽग्निसाक्षिपूर्वकेण पाणिग्रहणेन परिणीता सेह गृह्यते । तदन्तविधिश्न नामग्रहणे नाश्रीयत इत्याहकेवलादिति ॥-संगृहीतेत्मत्र भनशिसाक्षिक कामादितमदारकर्मत्वे परिगृहीतेत्यर्थः ॥-अभार्या चेत्यत्र भार्याया अन्या अप्रधानभूता भगिन्यादिरुच्यते ॥-पाणिगृहीती इति प्रकारो येपा ते